सूर्यसिद्धान्तः/अध्यायः १४

विकिस्रोतः तः
← अध्यायः १३ सूर्यसिद्धान्तः
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं गुरोस्तथा ।
सौरं च सावनं चान्द्रं आर्क्षं मानानि वै नव ।। १४.०१ ।।

चतुर्भिर्व्यवहारो +अत्र सौरचान्द्रार्क्षसावनैः ।
बार्हस्पत्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यशः ।। १४.०२ ।।

सौरेण द्युनिशोर्मानं षडशीतिमुखानि च ।
अयनं विषुवच्चैव संक्रान्तेः पुण्यकालता ।। १४.०३ ।।

तुलादि षडशीत्यह्नां षडशीतिमुखं क्रमात् ।
तच्चतुष्टयं एव स्याद्द्विस्वभावेषु राशिषु ।। १४.०४ ।।

षड्विंशे धनुषो भागे द्वाविंशे निमिषस्य च ।
मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दश ।। १४.०५ ।।

ततः शेषाणि कन्याया यान्यहानि तु षोडश ।
क्रतुभिस्तानि तुल्यानि पितॄणां दत्तं अक्षयम् ।। १४.०६ ।।

भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम् ।
अयनद्वितयं चैव चतस्रः प्रथितास्तु ताः ।। १४.०७ ।।

तदन्तरेषु संक्रान्तिद्वितयं द्वितयं पुनः ।
नैरन्तर्यात्तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम् ।। १४.०८ ।।

भानोर्मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् ।
कर्क्यादेस्तु तथैव स्यात्षण्मासा दक्षिणायनम् ।। १४.०९ ।।

द्विराशिनाथ ऋतवस्ततो +अपि शिशिरादयः ।
मेषादयो द्वादशैते मासास्तैरेव वत्सरः ।। १४.१० ।।

अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः ।
तदर्धनाड्यः सङ्क्रान्तेरर्वाक्पुण्यं तथा परे ।। १४.११ ।।

अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी ।
तच्चान्द्रमानं अंशैस्तु ज्ञेया द्वादशभिस्तिथिः ।। १४.१२ ।।

तिथिः करणं उद्वाहः क्षौरं सर्वक्रियास्तथा ।
व्रतोपवासयात्राणां क्रिया चान्द्रेण गृह्यते ।। १४.१३ ।।

त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यं अहः स्मृतम् ।
निशा च मासपक्षान्तौ तयोर्मध्ये विभागतः ।। १४.१४ ।।

भचक्रभ्रमणं नित्यम् नाक्षत्रं दिनं उच्यते ।
नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्वान्तयोगतः ।। १४.१५ ।।

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम् ।
अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्रयं स्मृतम् ।। १४.१६ ।।

वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ ।
कार्त्तिकादीनि वर्षाणि गुरोरस्तोदयात्तथा ।। १४.१७ ।।

उदयादुदयं भानोः सावनं तत्प्रकीर्तितम् ।
सावनानि स्युर्*एतेन यज्ञकालविधिस्तु तैः ।।(डेतन) १४.१८ ।।

सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा ।
मध्यमा ग्रहभुक्तिस्तु सावनेनैव गृह्यते ।। १४.१९ ।।

सुरासुराणां अन्योन्यं अहोरात्रं विपर्ययात् ।
यत्प्रोक्तं तद्भवेद्दिव्यं भानोर्भगणपूरणात् ।। १४.२० ।।

मन्वन्तरव्यवस्था च प्राजापत्यं उदाहृतम् ।
न तत्र द्युनिशोर्भेदो ब्राह्मं कल्पः प्रकीर्तितम् ।। १४.२१ ।।

एतत्ते परमाख्यातं रहस्यं परमाद्भुतम् ।
ब्रह्मैतत्परमं पुण्यं सर्वपापप्रणाशनम् ।। १४.२२ ।।

दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानं उत्तमम् ।
विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शास्वतम् ।। १४.२३ ।।

इत्युक्त्वा मयं आमन्त्र्य सम्यक्तेनाभिपूजितः ।
दिवं आचक्रमे +अर्कांशः प्रविवेश स्वमण्डलम् ।। १४.२४ ।।

मयो +अथ दिव्यं तज्ञानं ज्ञात्वा साक्षाद्विवस्वतः ।
कृतकृत्यं इवात्मानं मेने निर्धूतकल्मषम् ।। १४.२५ ।।

ज्ञात्वा तं ऋषयश्चाथ सूर्यलब्धवरं मयम् ।
परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात् ।। १४.२६ ।।

स तेभ्यः प्रददौ प्रीतो ग्रहाणां चरितं महत् ।
अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम् ।। १४.२७ ।।