अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ अर्थशास्त्रम्
अध्यायः ८
कौटिलीय:
अध्यायः ९ →

 सामन्त-प्रत्यया वास्तु-विवादाः ।। ०३.८.०१ ।।

 गृहं क्षेत्रं आरामः सेतु-बन्धस्तटाकं आधारो वा वास्तुः ।। ०३.८.०२ ।।

 कर्ण-कील-आयस-सम्बन्धोअनुगृहं सेतुः ।। ०३.८.०३ ।।

 यथा-सेतु-भोगं वेश्म कारयेत् ।। ०३.८.०४ ।।

 अभूतं वा पर-कुड्यादपक्रम्य द्वावरत्नी त्रिपदीं वा देश-बन्धं कारयेत् ।। ०३.८.०५ ।।

 अवस्करं भ्रमं उद-पानं वा न गृह-उचितादन्यत्र । अन्यत्र सूतिका-कूपादा-निर्दश-अहादिति ।। ०३.८.०६ ।।

 तस्यातिक्रमे पूर्वः साहस-दण्डः ।। ०३.८.०७ ।।

 तेनैन्धनावघातन-कृतं कल्याण-कृत्येष्वाचाम-उदक-मार्गाश्च व्याख्याताः ।। ०३.८.०८ ।।

 त्रिपदी-प्रतिक्रान्तं अध्यर्धं अरत्निं वा गाढ-प्रसृतं उदक-मार्गं प्रस्रवण-प्रपातं वा कारयेत् ।। ०३.८.०९ ।।

 तस्यातिक्रमे चतुष्-पञ्चाशत्-पणो दण्डः ।। ०३.८.१० ।।

 एकपदी-प्रतिक्रान्तं अरत्निं वा चक्रि-चतुष्पद-स्थानं अग्निष्ठं उदन्-जर-स्थानं रोचनीं कुट्टनीं वा कारयेत् ।। ०३.८.११ ।।

 तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः ।। ०३.८.१२ ।।

 सर्व-वास्तुकयोः प्राक्षिप्तकयोर्वा शालयोः किष्कुरन्तरिका त्रिपदी वा ।। ०३.८.१३ ।।

 तयोश्चतुर्-अङ्गुलं नीप्र-अन्तरम्<नीव्र-अन्तरम्?> समारूढकं वा ।। ०३.८.१४ ।।

 किष्कु-मात्रं आणि-द्वारं अन्तरिकायां खण्ड-फुल्ल-अर्थं असम्पातं कारयेत् ।। ०३.८.१५ ।।

 प्रकाश-अर्थं अल्पं ऊर्ध्वं वात-अयनं कारयेत् ।। ०३.८.१६ ।।

 तद्-अवसिते वेश्मनिच्छादयेत् ।। ०३.८.१७ ।।

 सम्भूय वा गृह-स्वामिनो यथा-इष्टं कारयेयुः । अनिष्टं वारयेयुः ।। ०३.८.१८ ।।

 वान-लट्याश्चऊर्ध्वं आवार्य-भागं कट-प्रच्छन्नं अवमर्श-भित्तिं वा कारयेद्वर्ष-आबाध-भयात् ।। ०३.८.१९ ।।

 तस्यातिक्रमे पूर्वः साहस-दण्डः । प्रतिलोम-द्वार-वात-अयन-बाधायां च । अन्यत्र राज-मार्ग-रथ्याभ्यः ।। ०३.८.२० ।।

 खात-सोपान-प्रणाली-निश्रेण्य्-अवस्कर-भागैर्बहिर्-बाधायां भोग-निग्रहे च ।। ०३.८.२१ ।।

 पर-कुड्यं उदकेनौपघ्नतो द्वादश-पणो दण्डः । मूत्र-पुरीष-उपघाते द्वि-गुणः ।। ०३.८.२२ ।।

 प्रणाली-मोक्षो वर्षति । अन्यथा द्वादश-पणो दण्डः ।। ०३.८.२३ ।।

 प्रतिषिद्धस्य च वसतः । निरस्यतश्चावक्रयिणं अन्यत्र पारुष्य-स्तेय-साहस-संग्रहण-मिथ्या-भोगेभ्यः ।। ०३.८.२४ ।।

 स्वयं-अभिप्रस्थितो वर्ष-अवक्रय-शेषं दद्यात् ।। ०३.८.२५ ।।

 सामान्ये वेश्मनि साहाय्यं अप्रयच्छतः । सामान्यं उपरुन्धतो भोगं च गृहे द्वादश-पणो दण्डः ।। ०३.८.२६ ।।

 विनाशयतस्तद्-द्वि-गुणः ।। ०३.८.२७ ।।

 कोष्ठक-अङ्गण-वर्चानां अग्नि-कुट्टन-शालयोः । ।। ०३.८.२८अ ब ।।

 विवृतानां च सर्वेषां सामान्यो भोग इष्यते ।। ०३.८.२८च्द् ।।