अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६ अर्थशास्त्रम्
अध्यायः ७
कौटिलीय:
अध्यायः ८ →

 "पर-परिग्रहे बीजं उत्सृष्टं क्षेत्रिणः" इत्याचार्याः ।। ०३.७.०१ ।।

 "माता भस्त्रा । यस्य रेतस्तस्यापत्यम्" इत्यपरे ।। ०३.७.०२ ।।

 विद्यमानं उभयं इति कौटिल्यः ।। ०३.७.०३ ।।

 स्वयं-जातः कृत-क्रियायां औरसः ।। ०३.७.०४ ।।

 तेन तुल्यः पुत्रिका-पुत्रः ।। ०३.७.०५ ।।

 सगोत्रेणान्य-गोत्रेण वा नियुक्तेन क्षेत्र-जातः क्षेत्रजः पुत्रः ।। ०३.७.०६ ।।

 जनयितुरसत्यन्यस्मिन्पुत्रे स एव द्वि-पितृको द्वि-गोत्रो वा द्वयोरपि स्वधा-रिक्थ-भाग्भवति ।। ०३.७.०७ ।।

 तत्-सधर्मा बन्धूनां गृहे गूढ-जातस्तु गूढजः ।। ०३.७.०८ ।।

 बन्धुनाउत्सृष्टोअपविद्धः संस्कर्तुः पुत्रः ।। ०३.७.०९ ।।

 कन्या-गर्भः कानीनः ।। ०३.७.१० ।।

 सगर्भ-ऊढायाः सह-ऊढः ।। ०३.७.११ ।।

 पुनर्-भूतायाः पौनर्भवः ।। ०३.७.१२ ।।

 स्वयं-जातः पितुर्बन्धूनां च दायादः ।। ०३.७.१३ ।।

 पर-जातः संस्कर्तुरेव न बन्धूनां ।। ०३.७.१४ ।।

 तत्-सधर्मा माता-पितृभ्यां अद्भिर्मुक्तो दत्तः ।। ०३.७.१५ ।।

 स्वयं बन्धुभिर्वा पुत्र-भाव-उपगत उपगतः ।। ०३.७.१६ ।।

 पुत्रत्वेअधिकृतः कृतकः ।। ०३.७.१७ ।।

 परिक्रीतः क्रीतः इति । ।। ०३.७.१८ ।।

 औरसे तुउत्पन्ने सवर्णास्तृतीय-अंश-हराः । असवर्णा ग्रास-आच्छादन-भागिनः ।। ०३.७.१९ ।।

 ब्राह्मण-क्षत्रिययोरनन्तरा-पुत्राः सवर्णाः । एक-अन्तरा असवर्णाः ।। ०३.७.२० ।।

 ब्राह्मणस्य वैश्यायां अम्बष्ठः । शूद्रायां निषादः पारशवो वा ।। ०३.७.२१ ।।

 क्षत्रियस्य शूद्रायां उग्रः ।। ०३.७.२२ ।।

 शूद्र एव वैश्यस्य ।। ०३.७.२३ ।।

 सवर्णासु चएषां अचरित-व्रतेभ्यो जाता व्रात्याः ।। ०३.७.२४ ।।

 इत्यनुलोमाः ।। ०३.७.२५ ।।

 शूद्रादायोगव-क्षत्त-चण्डालाः ।। ०३.७.२६ ।।

 वैश्यान्मागध-वैदेहकौ ।। ०३.७.२७ ।।

 क्षत्रियात्सूतः ।। ०३.७.२८ ।।

 पौराणिकस्त्वन्यः सूतो मागधश्च । ब्रह्म-क्षत्राद्विशेषः ।। ०३.७.२९ ।।

 त एते प्रतिलोमाः स्वधर्म-अतिक्रमाद्राज्ञः सम्भवन्ति ।। ०३.७.३० ।।

 उग्रान्नैषाद्यां कुक्कुटः । विपर्यये पुल्कसः ।। ०३.७.३१ ।।

 वैदेहिकायां अम्बष्ठाद्वैणः । विपर्यये कुशीलवः ।। ०३.७.३२ ।।

 क्षत्तायां उग्रात्श्व-पाकः ।। ०३.७.३३ ।।

 इत्येतेअन्ये चान्तरालाः ।। ०३.७.३४ ।।

 कर्मणा वैश्यो रथ-कारः ।। ०३.७.३५ ।।

 तेषां स्व-योनौ विवाहः । पूर्व-अपर-गामित्वं वृत्त-अनुवृत्तं च ।। ०३.७.३६ ।।

 शूद्र-सधर्माणो वा । अन्यत्र चण्डालेभ्यः ।। ०३.७.३७ ।।

 केवलं एवं वर्तमानः स्वर्गं आप्नोति राजा । नरकं अन्यथा ।। ०३.७.३८ ।।

 सर्वेषां अन्तरालानां समो विभागः ।। ०३.७.३९ ।।

 देशस्य जात्याः संघस्य धर्मो ग्रामस्य वाअपि यः । ।। ०३.७.४०अ ब ।।

 उचितस्तस्य तेनएव दाय-धर्मं प्रकल्पयेत् ।। ०३.७.४०च्द् ।।