अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ अर्थशास्त्रम्
अध्यायः ९
कौटिलीय:
अध्यायः १० →

 ज्ञाति-सामन्त-धनिकाः क्रमेण भूमि-परिग्रहान्क्रेतुं अभ्याभवेयुः ।। ०३.९.०१ ।।

 ततोअन्ये बाह्याः ।। ०३.९.०२ ।।

 सामन्त-चत्वारिंशत्-कुल्येषु गृह-प्रतिमुखे वेश्म श्रावयेयुः । सामन्त-ग्राम-वृद्धेषु क्षेत्रं आरामं सेतु-बन्धं तटाकं आधारं वा मर्यादासु यथा-सेतु-भोगं "अनेनार्घेण कः क्रेता" इति ।। ०३.९.०३ ।।

 त्रिराघुषितं अव्याहतं क्रेता क्रेतुं लभेत ।। ०३.९.०४ ।।

 स्पर्धया वा मूल्य-वर्धने मूल्य-वृद्धिः सशुल्का कोशं गच्छेत् ।। ०३.९.०५ ।।

 विक्रय-प्रतिक्रोष्टा शुल्कं दद्यात् ।। ०३.९.०६ ।।

 अस्वामि-प्रतिक्रोशे चतुर्-विंशति-पणो दण्डः ।। ०३.९.०७ ।।

 सप्त-रात्रादूर्ध्वं अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ।। ०३.९.०८ ।।

 प्रतिक्रुष्ट-अतिक्रमे वास्तुनि द्विशतो दण्डः । अन्यत्र चतुर्-विंशति-पणो दण्डः इति वास्तु-विक्रयः । ।। ०३.९.०९ ।।

 सीम-विवादं ग्रामयोरुभयोः सामन्ता पञ्च-ग्रामी दश-ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर्वा कुर्यात् ।। ०३.९.१० ।।

 कर्षक-गो-पालक-वृद्धाः पूर्व-भुक्तिका वा बाह्याः सेतूनां अभिज्ञा बहव एको वा निर्दिश्य सीम-सेतून्विपरीत-वेषाः सीमानं नयेयुः ।। ०३.९.११ ।।

 उद्दिष्टानां सेतूनां अदर्शने सहस्रं दण्डः । ।। ०३.९.१२ ।।

 तदेव नीते सीम-अपहारिणां सेतुच्-छिदां च कुर्यात् ।। ०३.९.१३ ।।

 प्रनष्ट-सेतु-भोगं वा सीमानं राजा यथा-उपकारं विभजेत् इति सीम-विवादः । ।। ०३.९.१४ ।।

 क्षेत्र-विवादं सामन्त-ग्राम-वृद्धाः कुर्युः ।। ०३.९.१५ ।।

 तेषां द्वैधी-भावे यतो बहवः शुचयोअनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ।। ०३.९.१६ ।।

 तद्-उभय-परा-उक्तं वास्तु राजा हरेत् । प्रनष्ट-स्वामिकं च ।। ०३.९.१७ ।।

 यथा-उपकारं वा विभजेत् ।। ०३.९.१८ ।।

 प्रसह्य-आदाने वास्तुनि स्तेय-दण्डः ।। ०३.९.१९ ।।

 कारण-आदाने प्रयासं आजीवं च परिसंख्याय बन्धं दद्यात् इति क्षेत्र-विवादः । ।। ०३.९.२० ।।

 मर्यादा-अपहरणे पूर्वः साहस-दण्डः ।। ०३.९.२१ ।।

 मर्यादा-भेदे चतुर्-विंशति-पणः ।। ०३.९.२२ ।।

 तेन तपो-वन-विवीत-महा-पथ-श्मशान-देव-कुल-यजन-पुण्य-स्थान-विवादा व्याख्याताः इति मर्यादा-स्थापनं । ।। ०३.९.२३ ।।

 सर्व एव विवादाः सामन्त-प्रत्ययाः ।। ०३.९.२४ ।।

 विवीत-स्थल-केदार-षण्ड-खल-वेश्म-वाहन-कोष्ठानां पूर्वं-पूर्वं आबाधं सहेत ।। ०३.९.२५ ।।

 ब्रह्म-सोम-अरण्य-देव-यजन-पुण्य-स्थान-वर्जाः स्थल-प्रदेशाः ।। ०३.९.२६ ।।

 आधार-परिवाह-केदार-उपभोगैः पर-क्षेत्र-कृष्ट-बीज-हिंसायां यथा-उपघातं मूल्यं दद्युः ।। ०३.९.२७ ।।

 केदार-आराम-सेतु-बन्धानां परस्पर-हिंसायां हिंसा-द्वि-गुणो दण्डः ।। ०३.९.२८ ।।

 पश्चान्-निविष्टं अधर-तटाकं नौपरि-तटाकस्य केदारं उदकेनऽप्लावयेत् ।। ०३.९.२९ ।।

 उपरि-निविष्टं नाधर-तटाकस्य पूर-आस्रावं वारयेद् । अन्यत्र त्रि-वर्ष-उपरत-कर्मणः ।। ०३.९.३० ।।

 तस्यातिक्रमे पूर्वः साहस-दण्डः । तटाक-वामनं च ।। ०३.९.३१ ।।

 पञ्च-वर्ष-उपरत-कर्मणः सेतु-बन्धस्य स्वाम्यं लुप्येत । अन्यत्रऽपद्भ्यः ।। ०३.९.३२ ।।

 तटाक-सेतु-बन्धानां नव-प्रवर्तने पाञ्चवर्षिकः परिहारः । भग्न-उत्सृष्टानां चातुर्वर्षिकः । समुपारूढानां त्रैवर्षिकः । स्थलस्य द्वैवर्षिकः ।। ०३.९.३३ ।।

 स्व-आत्म-आधाने विक्रये च ।। ०३.९.३४ ।।

 खात-प्रावृत्तिं अनदी-निबन्ध-आयतन-तटाक-केदार-आराम-षण्ड-वापानां सस्य-वर्ण-भाग-उत्तरिकं अन्येभ्यो वा यथा-उपकारं दद्युः ।। ०३.९.३५ ।।

 प्रक्रय-अवक्रय-अधिभाग-भोगनिषृष्ट-उपभोक्तारश्चएषां प्रतिकुर्युः ।। ०३.९.३६ ।।

 अर्पतीकारे हीन-द्वि-गुणो दण्डः ।। ०३.९.३७ ।।

 सेतुभ्यो मुञ्चतस्तोयं अवारे षट्-पणो दमः । ।। ०३.९.३८अ ब ।।

 वारे वा तोयं अन्येषां प्रमादेनौपरुन्धतः ।। ०३.९.३८च्द् ।।