अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ९ अर्थशास्त्रम्
अध्यायः १०
कौटिलीय:
अध्यायः ११ →

 कर्म-उदक-मार्गं उचितं रुन्धतः कुर्वतोअनुचितं वा पूर्वः साहस-दण्डः । सेतु-कूप-पुण्य-स्थान-चैत्य-देव-आयतनानि च पर-भूमौ निवेशयतः ।। ०३.१०.०१ ।।

 पूर्व-अनुवृत्तं धर्म-सेतुं आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस-दण्डः । श्रोतृऋणां उत्तमः । अन्यत्र भग्न-उत्सृष्टात् ।। ०३.१०.०२ ।।

 स्वाम्यभावे ग्रामाः पुण्य-शीला वा प्रतिकुर्युः ।। ०३.१०.०३ ।।

 पथि-प्रमाणं दुर्ग-निवेशे व्याख्यातं ।। ०३.१०.०४ ।।

 क्षुद्र-पशु-मनुष्य-पथं रुन्धतो द्वादश-पणो दण्डः । महा-पशु-पथं चतुर्-विंशति-पणः । हस्ति-क्षेत्र-पथं चतुष्-पञ्चाशत्-पणः । सेतु-वन-पथं षट्-शतः । श्मशान-ग्राम-पथं द्विशतः । द्रोण-मुख-पथं पञ्च-शतः । स्थानीय-राष्ट्र-विवीत-पथं साहस्रः ।। ०३.१०.०५ ।।

 अतिकर्षणे चएषां दण्ड-चतुर्था दण्डाः ।। ०३.१०.०६ ।।

 कर्षणे पूर्व-उक्ताः ।। ०३.१०.०७ ।।

 क्षेत्रिकस्याक्षिपतः क्षेत्रं उपवासस्य वा त्यजतो बीज-काले द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१०.०८ ।।

 करदाः करदेष्वाधानं विक्रयं वा कुर्युः । ब्रह्म-देयिका ब्रह्म-देयिकेषु ।। ०३.१०.०९ ।।

 अन्यथा पूर्वः साहस-दण्डः ।। ०३.१०.१० ।।

 करदस्य वाअकरद-ग्रामं प्रविशतः ।। ०३.१०.११ ।।

 करदं तु प्रविशतः सर्व-द्रव्येषु प्राकाम्यं स्यात् । अन्यत्रागारात् ।। ०३.१०.१२ ।।

 तदप्यस्मै दद्यात् ।। ०३.१०.१३ ।।

 अनादेयं अकृषतोअन्यः पञ्च-वर्षाण्युपभुज्य प्रयास-निष्क्रयेण दद्यात् ।। ०३.१०.१४ ।।

 अकरदाः परत्र वसन्तो भोगं उपजीवेयुः ।। ०३.१०.१५ ।।

 ग्राम-अर्थेन ग्रामिकं व्रजन्तं उपवासाः पर्यायेणानुगच्छेयुः ।। ०३.१०.१६ ।।

 अननुगच्छन्तः पण-अर्ध-पणिकं योजनं दद्युः ।। ०३.१०.१७ ।।

 ग्रामिकस्य ग्रामादस्तेन-पारदारिकं निरस्यतश्चतुर्-विंशति-पणो दण्डः । ग्रामस्यौत्तमः ।। ०३.१०.१८ ।।

 निरस्तस्य प्रवेशो ह्यभिगमेन व्याख्यातः ।। ०३.१०.१९ ।।

 स्तम्भैः समन्ततो ग्रामाद्धनुः-शत-अपकृष्टं उपसालं कारयेत् ।। ०३.१०.२० ।।

 पशु-प्रचार-अर्थं विवीतं आलवनेनौपजीवेयुः ।। ०३.१०.२१ ।।

 विवीतं भक्षयित्वाअपसृतानां उष्ट्र-महिषाणां पादिकं रूपं गृह्णीयुः । गव-अश्व-खराणां चार्ध-पादिकम् । क्षुद्र-पशूनां षोडश-भागिकं ।। ०३.१०.२२ ।।

 भक्षयित्वा निषण्णानां एत एव द्वि-गुणा दण्डाः । परिवसतां चतुर्-गुणाः ।। ०३.१०.२३ ।।

 ग्राम-देव-वृषा वाअनिर्दश-अहा वा धेनुरुक्षाणो गो-वृषाश्चादण्ड्याः ।। ०३.१०.२४ ।।

 सस्य-भक्षणे सस्य-उपघातं निष्पत्तितः परिसंख्याय द्वि-गुणं दापयेत् ।। ०३.१०.२५ ।।

 स्वामिनश्चानिवेद्य चारयतो द्वादश-पणो दण्दः । प्रमुञ्चतश्चतुर्-विंशति-पणः ।। ०३.१०.२६ ।।

 पालिनां अर्ध-दण्डाः ।। ०३.१०.२७ ।।

 तदेव षण्ड-भक्षणे कुर्यात् ।। ०३.१०.२८ ।।

 वाट-भेदे द्वि-गुणः वेश्म-खल-वलय-गतानां च धान्यानां भक्षणे ।। ०३.१०.२९ ।।

 हिंसा-प्रतीकारं कुर्यात् ।। ०३.१०.३० ।।

 अभय-वन-मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथाअवध्यास्तथा प्रतिषेद्धव्याः ।। ०३.१०.३१ ।।

 पशवो रश्मि-प्रतोदाभ्यां वारयितव्याः ।। ०३.१०.३२ ।।

 तेषां अन्यथा हिंसायां दण्ड-पारुष्य-दण्डाः ।। ०३.१०.३३ ।।

 प्रार्थयमाना दृष्ट-अपराधा वा सर्व-उपायैर्नियन्तव्याः इति क्षेत्र-पथ-हिंसा । ।। ०३.१०.३४ ।।

 कर्षकस्य ग्रामं अभ्युपेत्याकुर्वतो ग्राम एवात्ययं हरेत् ।। ०३.१०.३५ ।।

 कर्म-अकरणे कर्म-वेतन-द्वि-गुणम् । हिरण्य-अदाने प्रत्यंश-द्वि-गुणम् । भक्ष्य-पेय-अदाने च प्रहवणेषु द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३६ ।।

 प्रेक्षायां अनंशदः । सस्व-जनो न प्रेक्षेत ।। ०३.१०.३७ ।।

 प्रच्छन्न-श्रवण-ईक्षणे च सर्व-हिते च कर्मणि निग्रहेण द्वि-गुणं अंशं दद्यात् ।। ०३.१०.३८ ।।

 सर्व-हितं एकस्य ब्रुवतः कुर्युराज्ञां ।। ०३.१०.३९ ।।

 अकरणे द्वादश-पणो दण्डः ।। ०३.१०.४० ।।

 तं चेत्सम्भूय वा हन्युः पृथगेषां अपराध-द्वि-गुणो दण्डः ।। ०३.१०.४१ ।।

 उपहन्तृषु विशिष्टः ।। ०३.१०.४२ ।।

 ब्राह्मणश्चएषां ज्यैष्ठ्यं नियम्येत ।। ०३.१०.४३ ।।

 प्रहवणेषु चएषां ब्राह्मणा नाकामाः कुर्युः । अंशं च लभेरन् ।। ०३.१०.४४ ।।

 तेन देश-जाति-कुल-संघानां समयस्यानपाकर्म व्याख्यातं ।। ०३.१०.४५ ।।

 राजा देश-हितान्सेतून्कुर्वतां पथि संक्रमान् । ।। ०३.१०.४६अ ब ।।

 ग्राम-शोभाश्च रक्षाश्च तेषां प्रिय-हितं चरेत् ।। ०३.१०.४६च्द् ।।