पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/34

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३
प्रथमः सर्गः।


यदैव पूर्वे जनने शरीरं
सा दक्षरोषात् (२)[१]सुदती ससर्ज ।
(३)[२]तदाप्रभृत्येव विमुक्तसङ्गः
पतिः पशूनामपरिग्रहोऽभूत् ॥ ५३ ॥
स कृत्तिवासास्तपसे (४)[३] यतात्मा
गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि
किज्जित् क्वणत्किंनरमध्युवास ॥ ५४ ॥

     न च तथैव स्थितः, किं तूपायन्तरं चिन्तितवानिति वक्तुं प्रस्तौति -
     यदेति । शोभना दन्ता यस्याः सा सुदती । "वयसि दन्तस्य दतृ" इति दत्रादेशः । "उगितश्च" इति ङीप् । सा पार्वती पूर्वे जनने पूर्वस्मिञ्जन्मनि । "पूर्वादिभ्यो नवभ्यो वा" इति सिन्नादेशविकल्पः । "पूर्वज्वलने" इति पाठे पूर्वं दाक्षायणीत्वे ज्वलने योगाग्नौ । यदा यस्मिन् काले दक्षरोषाच्छरीरं देहं ससर्ज तत्याज, तदाप्रभृत्येव तदाद्येव यथा तथा पशुनां पतिः शिवो विमुक्तसङ्गस्त्यक्तविषयासङ्गः सन् । अपरिग्रहोऽपत्नीकोऽभूत् । स्वयन्तरं न परिजग्राहेत्यर्थः "पत्नीपरिजनादानमूलशापाः परिग्रहाः" इत्यमरः ॥ ५३ ॥
     स इति । कृ त्तिवासाश्चर्माम्बरः । "अजिनं चर्म कृत्तिः स्त्री" इत्यमरः । यतात्मा नियतचित्तः सः पशुपतिः तपसे तपोर्थं गङ्गाप्रवाहेणोक्षिताः सिक्ता देवदारवो यस्मिंस्तत्तथोक्तम् । मृगनाभिगन्धि कस्तूरीगन्धवत् । कस्तूरीमृगसंचारादिति मावः । "मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम्" इत्यमरः । क्बणन्तो गायन्तः किंनरा यस्मिन् तत्तथोत्तुम् ।


  1. खयत्ससर्जा ।
  2. तत: प्रभृति।
  3. जीतात्मा।