पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/35

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४

कुमारसम्भवम्

गणा नमेरुप्रसवावतंसा
भूर्जत्वचः स्पर्शवती(५)र्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः
शैलेयनद्धेषु शिलातलेषु ॥ ५५ ॥
तुषारसंघातशिलाः खुराग्रैः
समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथंचिद्गवयैर्विविग्नै
रसोढसिंहध्वनिरुन्ननाद ॥ ५६ ॥


किंचित्किमपि हिमाद्रेः प्रस्थं सानुमध्युवास । कुत्रचित्प्रस्थ उवासेत्यर्थः । "उपान्वध्याङ्वसः" इत्याधारस्य कर्मत्वम् । "प्रस्थोऽस्त्री सानुमानयोः" ईत्यमरः ॥ ५४ ॥
     गणा इति ॥ गणाः प्रमथगणाः । "गणाः प्रमथसंख्यौघाः" इति वैजयन्ती । नमेरुप्रसवावतंसाः सुरपुंनागकुसुमशेखराः । "नमेरुः सुरपुंनागः" इति विश्वः । स्पर्शवतीः सुखस्पर्शाः । मृद्वीरित्यर्थः । प्रशंसायां मतुप् । भूर्जत्वचो भूर्जवल्कलानि दधानाः । वसाना इत्यर्थः । मनःशिलाभिर्धातुविशेषैर्विच्छुरिता अनुलिप्ताश्च सन्तः । शिलायां भवं शैलेयम् । गन्धौषधिविशेषः । शिलायाः "स्त्रीभ्यो ढक्" इति भवार्थे ढक् । "शिलाजतु च शैलेयम्" इति यादवः । तेन नद्धेषु व्याप्तेषु शिलातलेषु निषेदुः ।उपविविशुरित्यर्थः ॥ ५५ ॥
     तुषारेति । तुषारसंघाता हिमघनास्त एव शिलास्ताः खुराग्रैः समुल्लिखन्विदारयन्दर्पेण कलो मधुरध्वनिर्यस्य स दर्पकलो विविग्नैर्मेतैर्गवयैर्गोसदृशमृगविशेषैः कथंचित्कृच्छ्रेण दृष्टः । ककुदमस्यास्तीति ककुद्मान्वृषभोऽसोढः सिंहानां ध्वनिर्येंन स सिंहध्वनिमसहमानः सन् । उन्ननादोच्चैर्ननाद ।


(४) वसाना:।