पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/36

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः सर्गः।

३५


(६)तत्राग्निमाधाय समित्(७)समिद्धं
स्वमेव मर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां
केनापि कामेन तपश्चचार ॥ १. ५७ ॥
अनर्घ्यमर्घ्येण तमद्रिनाथः
स्वर्गौकसामार्चितमर्चयित्वा ।
आराधनायास्य सखीसमेतां
समादिदेश प्रयतां तनूजाम् ॥ १. ५८ ॥


जगर्जेत्यर्थः । स्वभावोक्तिरलङ्कारः । तदुक्तम्-- स्वभावोक्तिरसौ चारु यथावव्दस्तुवर्णन्म् इति ॥ ५६ ॥
     तत्रेति । तपसः फलानामिन्द्रत्वादीनां स्वयं विधाता जनयिता । दातेत्यर्थः । अष्टो मूर्तयो यस्य सोऽष्टमूर्तिरीश्वरः । "भूतार्कचन्द्रयज्वानो मृर्तयोऽष्टौ प्रकीर्तिताः" । इति तत्र प्रस्थे स्वं स्वकीयमेव मूर्त्यन्तरं मूर्तिभेदं समिद्भिः समिद्धं दीपितमग्निमाधाय प्रतिष्ठाप्य केनापि कामेन कयापि फलकामनया तपश्चचार चक्रे । "प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते" इति न्यायात्कामेनेत्युक्तम् । तस्यावाप्तसमस्तकामत्वात्केनापीत्युक्तम् ॥ ५७ ॥
     अनर्घ्येति । अद्रीणां नाथोऽद्रिनाथो हिमवान् । अर्घ मूल्यमर्हदीत्यर्घः । "मूल्ये पूजाविधावर्घः" इत्यमरः । "दण्डादिभ्यो यः" इति यप्रत्ययः । अर्घ्यो न भवतीत्यनर्घ्यस्तमनर्घ्यम् । अमूल्यमित्यर्थः । स्वर्ग ओकः स्थानं येषां तेषां स्वर्गौकसां देवानामर्चितम् । देवैः पूज्यमानमित्यर्थः । "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी । तमीश्वरमनर्घ्येण पूजार्थोदकेन । "पदार्घ्याभ्यां


(६)ततायसाधाय। (७)-समृहं।