पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/33

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२

कुमारसम्भवम्

गुरुः प्रगल्भेऽपि वयस्यतोऽस्या-
स्तस्थौ (१)निवृत्तान्यवराभिलाषः ।
ऋते कृशानोनं हि मन्त्रपूत-
मर्हन्ति तेजांस्यपराणि हव्यम् ॥ ५१ ॥
अयाचितारं न हि देवदेव-
मद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधु-
र्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥ ५२ ॥


     गुरुरिति । गुरुः पिता । "गुरू गीःपतिपित्राद्यौ" इत्यमरः । अतो नारदवचनाद्धेतोरस्याः पार्वत्याः प्रगल्भे वयस्यपि यौवने सत्यपि निवृत्तोऽन्यस्मिन्वरे जामातर्यभिलाषो यस्य स तथोक्तः सन् । "वरौ ना रूपजामात्रोः" इति वैजयन्ती । तस्थौ । वरान्तरं नान्विष्टवानित्यर्थः । ननु कुतोऽसौ निबंन्ध इत्यत आह-- ऋत इति । तथाहि मन्त्रैः पूतं संस्कृतं हूयत इति हव्यमाज्यादिकं कृशानोः पावकादृते कृशानुं विना "अन्यारादितरे--" इत्यादिना पञ्चमी । अपराणि तेजांसि सुवार्णादीनि नार्हन्ति । न भजन्तीत्यर्थः । ईश्वरादन्यस्य तद्योग्यस्याभावादुपेक्षेति भावः ॥ ५१ ॥
     अयाचितारमिति । अद्रिर्हिमवानयाचितारमयाचमानं देवदेवं महादेवं सुतां पार्वतीं ग्राहयितुं स्वयमाहूय परिग्राहयितुं न शशाक नोत्सेहे । तथाहि साधुः सज्जनः । "साधुर्वार्धुषिके चारौ सज्जने चाभिधेयवत्" इति विश्वः । अभ्यर्थनाभङ्गभयेन याच्ञावैफल्यभीत्येष्टेऽप्यर्थे विषये माध्यस्थ्यमौदासीन्यमवलम्बते ॥ ५२ ॥


(१)