याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/उपनिधिप्रकरणम्

विकिस्रोतः तः
← ऋणादानप्रकरणम् याज्ञवल्क्यस्मृतिः
उपनिधिप्रकरणम्
याज्ञवल्क्यः
साक्षिप्रकरणम् →

वासनस्थं अनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
द्रव्यं तदौपनिधिकं प्रतिदेयं तथैव तत् । । २.६५ । ।

न दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।
भ्रेषश्चेन्मार्गितेऽअदत्ते दाप्यो दण्डं च तत्समम् । । २.६६ । ।

आजीवन्स्वेच्छया दण्ड्यो दाप्यस्तं चापि सोदयम् ।
याचितान्वाहितन्यास निक्षेपादिष्वयं विधिः । । २.६७ । ।