याज्ञवल्क्यस्मृतिः/आचाराध्यायः/स्नातकधर्मप्रकरणम्
← गृहस्थधर्मप्रकरणम् | याज्ञवल्क्यस्मृतिः स्नातकधर्मप्रकरणम् याज्ञवल्क्यः |
भक्ष्याभक्ष्यप्रकरणम् → |
न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः । |
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । |
शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः । |
न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । |
दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । |
न तु मेहेन्नदीछाया वर्त्मगोष्ठाम्बुभस्मसु । |
नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । |
अयं मे वज्र इत्येवं सर्वं मन्त्रं उदीरयेत् । |
ष्ठीवनासृक्शकृन्मूत्र रेतांस्यप्सु न निक्षिपेत् । |
जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । |
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । |
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् । |
प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः । |
अध्यायानां उपाकर्म श्रावण्यां श्रवणेन वा । |
पौषमासस्य रोहिण्यां अष्टकायां अथापि वा । |
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । |
संध्यागर्जितनिर्घात भूकंपोल्कानिपातने । |
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके । |
पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः । |
श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने । |
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । |
पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । |
खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे । |
देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः । |
विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । |
दूरादुच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् । |
गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् । |
कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । |
मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः । |
ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः । |
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु । |
परशय्यासनोद्यान गृहयानानि वर्जयेत् । |
कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् । |
चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् । |
अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् । |
नृशंसराजरजक कृतघ्नवधजीविनाम् । |
पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । |
शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः । |