याज्ञवल्क्यस्मृतिः/आचाराध्यायः/भक्ष्याभक्ष्यप्रकरणम्

विकिस्रोतः तः
← स्नातकधर्मप्रकरणम् याज्ञवल्क्यस्मृतिः
भक्ष्याभक्ष्यप्रकरणम्
याज्ञवल्क्यः
द्रव्यशुद्धिप्रकरणम् →

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् । । १.१६७ । ।

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः । । १.१६८ । ।

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूम यवगोरसविक्रियाः । । १.१६९ । ।

संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् ।
औष्ट्रं ऐकशफं स्त्रैणं आरण्यकं अथाविकम् । । १.१७० । ।

देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च । । १.१७१ । ।

क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् ।
सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः । । १.१७२ । ।

कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् ।
वृथाकृसरसम्याव पायसापूपशष्कुलीः । । १.१७३ । ।

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् । । १.१७४ । ।

चाषांश्च रक्तपादांश्च सौनं वल्लूरं एव च ।
मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् । । १.१७५ । ।

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् । । १.१७६ । ।

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः । । १.१७७ । ।

तथा पाठीनराजीव सशल्काश्च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने । । १.१७८ । ।

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् । । १.१७९ । ।

वसेत्स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्यविधिना पशून् । । १.१८० । ।

सर्वान्कामानवाप्नोति हयमेधफलं तथा ।
गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् । । १.१८१ । ।