विष्णुपुराणम्/द्वितीयांशः/अध्यायः ९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६

श्रीपारशर उवाच
तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ २,९.१ ॥
सैष भ्रमन् भ्रामयति चन्द्रादित्यादिकान् ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २,९.२ ॥
सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ २,९.३ ॥
शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि ।
नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ २,९.४ ॥
उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स तारा शिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ २,९.५ ॥
आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ २,९.६ ॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ २,९.७ ॥
येन विप्रविधानेन तन्ममैकमनाः शृणु ।
विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बुततश्चान्नमन्नादप्यखिलं जगत् ॥ २,९.८ ॥
विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
सोमं पुष्णात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ २,९.९ ॥
न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥ २,९.१० ॥
सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ २,९.११ ॥
आकाशगङ्गासलिलं तथादायगभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ २,९.१२ ॥
तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ २,९.१३ ॥
दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद्गोभिः क्षिप्यते रवेः ॥ २,९.१४ ॥
कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद्गाङ्गं दिग्गजोज्झितम् ॥ २,९.१५ ॥
युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ २,९.१६ ॥
उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ २,९.१७ ॥
यत्तु मैघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्यौषधयः सर्वा जीवनायामृतं हि तत् ॥ २,९.१८ ॥
तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकन्तः प्रजानां द्विज जायते ॥ २,९.१९ ॥
तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्तिते ॥ २,९.२० ॥
एवं यज्ञाश्च वेदाश्च वर्णाश्च द्विजपूर्वकाः ।
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २,९.२१ ॥
वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २,९.२२ ॥
आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुपारोऽसौ सोऽपि नारायणात्मकः ॥ २,९.२३ ॥
हृदि नारायणस्तस्य शिशुमारस्यं संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २,९.२४ ॥
इति श्रीविष्णुमहापुराणे द्वितीयेऽंशे नवमोऽध्यायः (९)