सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.5 पञ्चमी दशतिः

विकिस्रोतः तः

इहेव शृण्व एषां कशा हस्तेषु यद्वदान् |
नि यामं चित्रमृञ्जते || १३५ ||

१अ
१छ्

इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः |
पुष्टावन्तो यथा पशुं || १३६ ||

२अ
२छ्

समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः |
समुद्रायेव सिन्धवः || १३७ ||

३अ
३छ्

देवानामिदवो महत्तदा वृणीमहे वयं |
वृष्णामस्मभ्यमूतये || १३८ ||

४अ
४छ्

सोमानां स्वरणं कृणुहि ब्रह्मणस्पते |
कक्षीवन्तं य औशिजः || १३९ ||

५अ
५छ्

बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः |
शृणोतु शक्र आशिषं || १४० ||

६अ
६छ्

अद्य नो देव सवितः प्रजावत्सावीः सौभगं |
परा दुःष्वप्न्यं सुव || १४१ ||

७अ
७छ्

क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः |
ब्रह्मा कस्तं सपर्यति || १४२ ||

८अ
८छ्

उपह्वरे गिरीणां सङ्गमे च नदीनां |
धिया विप्रो अजायत || १४३ ||

९अ
९छ्

प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः |
नरं नृषाहं मंहिष्ठं || १४४ ||

१०अ
१०छ्