सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः १/आह्निकम् २

विकिस्रोतः तः
← आह्निकम् १ श्रीसिद्धान्तसुधानिधिः
आह्निकम् २
[[लेखकः :|]]
आह्निकम् ३ →

सुबामन्त्रिते पराङ्गवत्स्वरे।।
सुबन्तमामन्त्रिते परे पराङ्गवत्स्यात् स्वरे कर्त्वये। तादात्म्यातिदेशोऽयम्। ``तन्निमित्तग्रहणं कर्तव्यम्। तस्यामन्त्रितपदार्थस्य यन्निमित्तं तत्प्रातिपदिकमेव सुबन्तं पराङ्गवन्नतु तद्भिन्नमित्यर्थः। यत्ते दिवोदुहितर्मर्त्तभोजनम्। दिव इत्यस्य पराङ्गवद्भावादाष्टमिको निघातः। नन्विह सुब्‌ग्रहणं व्यर्थम्। आमन्त्रितस्य पदत्वेन तस्मिन् परे विधीयमानस्य पराङ्गवद्भावस्य पदविधित्वात्समर्थपरिभाषोपस्ताने तिङन्तस्य वारणसम्भवात्। व्यधिकरणस्य तस्य वस्तुतोऽसामर्थ्यात्। समानाधिकरणस्य तु समानाधिकरणसमर्थमिति वाचनिकासामर्थ्यसत्त्वात्। षष्ठ्यामन्त्रितकारकवचनमित्यस्याव्याप्तिवारणायावश्यकतया तत एव तिङन्तवारणाच्च। प्रत्युत सुब्‌ग्रहणे कृते तीक्ष्णया सूच्या सीव्यन्नित्यत्र सुबन्तसमुदायस्य पराङ्गवद्भावो वन स्यात् प्रत्ययग्रहणपरिभाषया सुबन्तत्वाभावादिति चेत्।
सत्यम्। पीड्ये पीड्यमान करोष्यटन् इत्यादवतिप्रसङ्गात्। अस्ति ह्यत्र सामर्थ्यम्। सम्बोधनपदं क्रियान्वयीति वक्ष्यमाणत्वात्। नच सर्पिः कालकमित्यादौ इसुसोः सामर्थ्ये इति षत्ववारणाय समानाधिकरणममर्थसित्युक्तत्वात् करोष्यटन् इत्यत्र न दोष इति वाच्यम्। सर्पिः पीयते इत्यादौ षत्वसिद्धये अधात्वभिहितमित्यस्याप्युक्तत्वात्। नच सर्वं नाम धातुजमिति दर्शने कालकादावपि तदापत्तिरिति वाच्यम्। क्रियायाः प्रतीतावेव पर्युदासात्। षष्ठ्यामन्त्रितेत्यपेक्षया च तन्निमित्तग्रहणमेव युक्तम्। गोषु स्वामिन्नित्यत्र परङ्गवद्भावस्यान्यथाऽनुपपत्तेः। नहि गोष्विति षष्ठ्यन्तम्। नापि आमन्त्रिते धातुबाच्या या क्रिया तस्याः कारकं स्वामीश्वराधिपतीति शेषविषये सप्तमीविधानात्। निमित्तत्वं त्वस्त्येव स्वामित्वस्य द्रव्यसापेक्षतया गवां तन्निरूपकत्वात्। तेन क्षत्रेणाग्ने स्वायुः सेरभस्व, मित्रेणाग्ने मित्रधेये यतस्वेत्यत्र पराङ्गवद्भावः। एवं ऋतेन मित्रावरुणावृतावृधा वृतस्पृशा, क्रतुं बृहन्तमाशाथे इत्यत्र ऋतेनेत्यस्य, अयमग्ने जानतेत्यत्र अयमित्यस्य चेत्यवधेयम्।
स्यादेतत्। मित्रवरुणावित्यस्यापि पराङ्गवद्बावो न स्यात्। ऋनस्य वर्धयितारावित्यर्थेऽन्तर्भावितण्यर्थाद्‌वृधेः क्विपि अन्येषामपि दृश्यते इति दीर्घे च ऋतावृधावित्यस्य व्युत्पत्तेः। तत्र च मित्रावरुणयोर्निमित्तत्वाभावात्। न चेष्टापत्तिः। ऋतावृधावित्यस्य निघातानापत्तेः। द्वितीयपादादित्वेनानुदात्तं सर्वमपादादाविति पर्युदासप्रसङ्गात्। अतं एव इमं मे गङ्गे यमुने सरस्वति शुतिद्रि स्तोममिति मन्त्रे पूर्वपूर्वामन्त्रितानामविद्यमान वद्भावेऽपि मेशब्दात्परत्वमादाया क्रियमाणो निघातो गङ्गे इत्यादित्रयस्यैव भवति नतु शुतुद्रीत्यस्यापि इति स्थितिः। ततश्च पादादित्वेऽपि पराङ्गवद्भावादामन्त्रित्सय चेत्याद्युदात्तत्वमेव ऋतेनेत्यस्य स्यात्। न च मित्रावरुणावित्यस्य कथं पराङ्गवद्भावः। आमन्त्रितं पूर्वमविद्यमानवदिति तस्याविद्यमानवद्भावादिति वाच्यम्। पूर्वपदोपादानसामर्थ्यात्परस्य कार्य एवाविद्यमानवद्बावातिदेशात्स्वकार्ये पराङ्गवद्भावे तदयोगात्। अतएवाग्ने नयेत्यादौ तिङ्‌ङतिङ इति निघातविरहेऽपि आमन्त्रिताद्युदात्तत्वं प्रवर्तते एव।
यद्वा नामन्त्रिते समानाधिकरणे सामान्यवचनमिति वचनान्न दोषः। मित्रावरुणाविति सामान्यवचनं, तद्विशेषवचनं ऋतावृधाविति पराङ्गवन्न भवतीत्यर्थः। तथा च ऋतेनेत्यस्येव मित्रावरुणावित्यस्यापि पराङ्गवद्भावो दुर्लभ इति।
अत्र वेदभाष्यशब्दकौस्तुभादयः। तन्निमित्तग्रहणं न कर्तव्यम्। तथाहि-परस्परान्वयरूपव्यपेक्षालक्षणमत्र सामर्थ्यं ग्राह्यम्। अत एवात्रैतदारम्भः सङ्गच्छते। तथा च ऋतेन मित्रावरुणावृतावृधावित्यत्र कारकाणां क्रियायामेवान्वयादृतेनेत्यस्योत्तरार्धगतेन क्रतुं बृहन्तमाशाथेइत्यत्रत्यकेनाशाथे इत्यनेनान्वयान्मित्रावरुमाभ्यामन्वयो नास्तीति सामर्थ्यविरहान् पराङ्गवद्बावः। मित्रावरुणावृतावृधावित्यनयोस्तु शाब्दे क्रियान्वयेऽपि पार्ष्णिकपरस्परावच्छेदनाभेदान्वयात्सामर्थ्यमस्तीति पराङ्गवद्भावसिद्धिः। समानाधिकरणमसमर्थमिति त्वधात्वभिहितपरमित्युक्तमेवेति। नचैवं शुतुद्रीत्यस्यापि निघातः स्यात्। सरस्वतिपदस्य पराङ्गवद्भावेनापादादित्वादिति वाच्यम्। नचैवमेकत्वावरुद्धानां कथं बहुवचनान्तक्रियायामन्वयः तथाचैकवाक्यत्वाभावे निघातस्यापि दौर्लभ्यमिति वाच्यम्। प्रत्येकं तथात्वेऽपि मिलिनेषु बहुत्वान्वयसम्भवात्। अहं च त्वं च वृत्रहन् संयुज्यावसनिब्य आ,।
तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः।
इत्यादिवेदलोकप्रयोगदर्शनाच्चेत्याहुः।।
तत्रेदं वक्तव्यम्। ऑतस्य वर्दयितारावित्यनेन ऋतवर्धने मित्रावरुणयोर्निमित्तत्वस्य म्पष्टमेव लाभात्तस्य तन्निमित्तत्वं नास्तीत्ययुक्तम्। तद्धर्मावच्चिन्नकार्यताप्रतियोगिककारणतावच्चेदकधर्मवत्त्वस्यापि विवक्षितत्वात्। दिवो दुहितरित्यादावव्याप्तेः। गोषु स्वामिन्नित्यादाव्याप्तेश्च। न च तन्निमित्तग्रहणं विनैवोक्तरीत्या तन्न कर्तव्यमित्यभिप्राय इति वाच्यम्। एकार्थीभावः सामर्थ्यमधिकारश्चेति सिद्धान्तात्। पराङ्गवद्भावे च तन्निमित्तग्रहणान्न दोष इति भाष्यकैयटयोर्व्यावस्तापितत्वात्। व्यपेक्षासामारथ्यस्यात्र ग्रहीतुमशक्यत्वात्। अङ्गेति किम्। द्वयोः पृथगाद्युदात्तत्वं माभूत्। वदिति किम्। स्वाश्रयमपि यथा स्यात्। आम् कुण्डनाट। आम एकान्तरमामन्त्रितमिति निघातः। स्वर इति किम्। कूपे सिञ्चन्, चर्म नम्न्, इत्यत्र षत्वणत्वे प्रति पराङ्गवद्भावो माभूत्। सति हि तस्मिन्नैकपद्यात्सकारस्य पदादित्वाभावात्सात्पदाद्येरिति षत्वनिषेधो न स्यात्, समानपदस्थत्वाण्णत्वं च स्यात्।
अत्र भाष्यम्। अतिदेसेन स्वाश्रयं पदादित्वं न निवर्त्त्यते विरोधाभावात्। पूर्वपदात्संज्ञायामेवेति नियमाच्च न णत्वम्। पूर्वपदशब्बस्य समासपूर्वावयवे रुढत्वेऽपि व्याप्तिन्यायेन यौगिकस्यापि पूर्वपदस्य ग्रहणात्। यद्वा आमन्त्रितपदग्रहणात् आमन्त्रितत्वप्रयुक्तकार्यं प्रत्येव पराङ्गवद्भाव इति।
समानाधिकरणस्योपसंख्यानमनन्तरत्वात्। तीष्णया सूच्या सीव्यन्, तीक्ष्णेन परशुना वृश्चन्। तस्मिन्निति निदिष्टे पूर्वस्येति परिभाषोपस्थित्या आमन्त्रिते परे विधीथमानस्य पराङ्गवद्भावस्य व्यवहिते प्रवृत्तिविरहादारम्भः। नच परस्पराङ्गवद्भावे कृते पूर्वस्यापि स भविष्यतीति वाच्यम्। स्वर इत्यवधारणेन पराङ्गवद्भावे कर्त्तव्ये पराङ्गवद्भावस्य दुर्लभत्वात्। ``छन्दसि परमपि पूर्वस्याङ्गवद्भवतीति वक्तव्यम्। आ ते पितर्मरूतां सुम्नमेतु। प्रति त्वा दुहितर्दिवः। वृणीष्व दुहितर्दिवः। पितरित्यामन्त्रितनिघातेनानुदात्तं, तस्मात्परं मरुतामित्येतदापि अनुदात्तमेव। ``अव्ययप्रतिषेधस्च। उच्चैरधीयान, नीचैरधीयान। ``अनव्ययीभावस्येति वक्तव्यम्। उपाग्न्यधीयान। यद्यपि लुङ्मुखस्वरोपचाराः प्रयोजनमिति पूर्वमुक्तं तथापि स्पष्टार्थमिदमुक्तम्।
प्राक्कडारात्समासः ।। 3 ।।
कडाराः कर्मधारये इत्यतः प्राक्‌समास इत्यधिक्रियते। आवृत्त्या पूर्वं समाससंज्ञा, ततोऽव्ययीभावादिसंज्ञेति सज्ञान्तरव्यापकत्वसिद्धिः। अन्यथा पर्यायेणैव संज्ञाद्वयं स्यात्। उपसर्गकर्मप्रवचनीयसंज्ञावत्।
स्यादेतत्। समाससंज्ञाया अनवकाशत्वादेव समावेशो भविष्यति। नच विस्पष्टपटुरित्यादौ तदवकाश इति वाच्यम्। विस्पष्टादीनि गुणवचनेषु इति पूर्वपदप्रकृतिस्वरविधानाज्ज्ञापकाद्वृद्धकुमारीवरन्यायेन समाससिद्धेरत्र सह सुपेत्यस्य प्रवृत्त्यनुपयोगात्। तत्रोत्तरपदार्थतावच्छेदके पाटवे व्युत्पत्तिबलद्विस्पष्टात्वस्यान्वयात्पूर्वपदार्थतावच्छेदकस्योत्तरपदार्थतावच्छेदकस्य चैकधर्मिपरत्वाभावेन कर्मधारयत्वानुपपत्तेः।
अत एव पठन्ति-
कः समास इति प्रश्ने विस्पष्टपटुगोचरे।।
समासमात्रं ये ब्रूयुर्विस्पष्टपगटवो हि ते।।
नच काकतालीयं अजाकूपाणीयमित्यत्रावकाशः। अत्रापि समासाच्च तद्विपयादितीवार्थविषयकसमासानुवादेन छप्रत्ययविधानबलादेव समाससिद्ध्या सह सुपेत्यस्यानुपयोगात्। नचेदं बहुव्रीहिरेव काकतालमित्यत्र इवपदार्थस्य प्राधान्यादिति वाच्यम्। मत्वर्थ एव बहुव्रीहेर्विधानात्।
वस्तुत उपमानशब्दस्यैवोपमेयवृत्तितया इवार्थप्राधान्याभावात्। काकतालशब्दयोः स्वसमवेतक्रियापरत्वेन काकागमनसदृशं चैत्रागमनं, तालपतनसदृशो दस्यूपानिपात इत्येकस्मिन्निवार्थे समासः। पतता तालेन यथा काकस्य वधस्तथा दस्युना चैत्रस्येति द्वितीये तत्र छमत्ययः। तदाह-
यच्चौराणामस्य च समागमो यश्च तैर्वधोऽस्य कृतः।
उपनतमेतदकस्मादासीद्बन काकतालीयम्।।
न च पुनाराजः पुनर्गव इत्यत्राजितियोगविभागेन तत्पुरुषसंज्ञां विनापि रूपसिद्धेः समाससंज्ञा सावकाशेति वाच्यम्। पुनर्गवीति ङीबर्थं टच एव तत्रापेक्षितत्वेन तत्पुरुषसंज्ञाया अवश्यापेक्षणीय तयाऽव्ययं प्रवृद्धादिभिरिति वा मयूख्यंसकादित्वाद्वा तत्पुरुषस्यैव वाच्यत्वात्। न च पुनराधेयमित्यत्र विशेषकार्यादर्शनात्सावकाशा समाससंज्ञेति वाच्यम्। गतिकारकोपपदात्कृदिति स्वरार्थं गतिसंज्ञावश्यकत्वे वाच्यम्। गतिकारकोपपदात्कृदिति स्वारार्थं गतिसंज्ञावश्यकत्वे कुगतिप्रादय इति तत्पुरुषस्यैव वाच्यत्वात्। यतोऽनाव इति धेयशद्बस्याद्युदात्तत्वात्पुनराधेयशब्दे एकार उदात्तः। अन्यथा समासान्तोदात्तत्वं स्यात्। न च पुनरुत्स्यूतं वासो देयं, पुनर्निःकृतो रथ इत्यवकाशः। पुनःशब्दस्य गतिसंज्ञायां थाथादिस्वरेणान्तोदात्तत्वम्। असत्यां तु समासस्वरेणेति विसेषाबावादिति वाच्यम्। गतिसंज्ञायां गतिरनन्तर इत्यनन्तरग्रहणसामर्थ्यात् थाथादिस्वरं बाधित्वा उच्छब्दस्य प्रकृतिस्वरत्वात्। उदात्तपुनःशब्दस्य तु शेषनिघातं बाधित्वा परत्वाद्गतिर्गताविति निघातो भवतीति विशेषसत्त्वात्। न च पुनश्चनसौ च्छन्दसीति तत्सिद्धिः। भाषायां स्वरसिद्धये गतिसंज्ञापेक्षाया आवश्यकत्वात्। नच काठके पुनरुत्स्यूतशब्दोऽन्तोदात्त एव पठ्यते इति वाच्यम्। व्यत्ययेन प्रवृद्धादेराकृतिगणत्वाद्वा तत्सिद्धेः। तत्सिद्धं समास इत्येवाधिक्रियतामिति चेत्सत्यम्। एकसंज्ञाधिकारे पर्यायापत्तेरावश्यकत्वात्। यद्यप्यविहितलक्षणः समासः सह सुपेत्यनेन विधीयते इति भाष्ये वक्ष्यते तथाप्यसंयुक्तपाठेन समाससंज्ञायाः सर्वार्थत्वं, न्यायव्युत्पादनाय त्वनवकाशव्युत्पादनमिति कैयटः।
सह सुपा ।। 4 ।।
सहेति योगो विभज्यते। सुबामन्त्रिते इत्यतश्च सुब्‌ग्रहणानुवृत्तिः। सुबन्तं समर्थेन सह समस्यते। यो जात एव पर्यभूषत्। यः शम्बरमन्वविन्दत्। अनुव्यचलत्। अनुप्राविशत्। सुप्‌सुपेति पुनिर्विधानेन कतिपयतिङन्तमात्रविषयत्वादस्य नातिप्रमङ्गः। योगविभागस्येष्टसिद्ध्यर्थत्वान्नेह। सम्प्रयच्छ वृष्या इन्द्राय भागम्। सुबिति संख्या विवक्षिता। तेन पूर्वं वेः समासः, पश्चादनोः। समासे शाकलप्रतिषेधाद्यणादेशः। समासान्तोदात्तत्वं तु न भवति। तिङ्‌ङतिङ इति निघातेन बाधितत्वादिति केचित्।
अन्ये तु तथा सत्यनोर्गतिर्गताविति निगातः। विशब्द उदात्तः। उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्येति स्वरितः। एवं चानुप्राविशदिति भाष्योदाहरणवैयर्थ्यम्। अतः सति शिष्टत्वात्समासान्तोदात्तत्वमेव। न च सुबुत्पत्तिप्रसङ्गः। तिडैकत्वस्योक्तत्वादित्याहुः।
अपरे तु वचनग्रहणसामर्थ्यादुक्तेष्वप्येकत्वादिषु प्रथमा भवत्येव। न च श्रवणापत्तिः। हल्‌ङ्यादिलोपसम्भवात्। अत एवैकपद्यादामनुप्रविश देवदत्तेत्यत्राम एकान्तरमामन्त्रितमिति निघातप्रतिषेधः समाससंज्ञायाः प्रयोजनमिति तिङन्तविघातवादिन इत्याहुः।
अत्र दीक्षिताः। एवं मतस्वरूपमात्रं लिखद्भ्यां कैयटहरदत्ताभ्यां किं परत्वान्निघात उत सति शिष्टत्वात्समासान्तोदात्तत्वमिति नावधारितम्। किञ्च गतिकारकोपपदादिति उत्तरपदप्रकृतिस्वरत्वं भवति नवेत्यपि विचारयितुमर्हम्। तत्र कृद्‌ग्रहणस्य वार्तिककृता प्रत्याख्यानात्। किञ्च अनुव्यचलदित्यादौ यथा तथाऽस्तु। यो जात इत्यादौ तु यद्वृत्तान्नित्यमिति निघातप्रतिषेधात्समासान्तोदात्तत्वं दुर्वारम्। किञ्च सति शिष्टत्वात्संमासान्तोदात्तत्वमिति पक्षे अत्यायाहि शश्वतो वयं ते इत्यत्र आङउदात्तपाठो न सङ्गच्छते। अपि च निरिणामि इत्यत्र निशब्दे, वितन्वते इत्यत्र विशब्दे च निघातः। समासान्तोदात्तत्वं तु रिणातीत्यत्र नास्ति। तन्वते इत्यत्र त्वस्तीति वैषम्यं दुरुपपादम्। तस्मादिदमत्र तत्त्वम्-
वार्तिकमते तावदाद्य एव पक्षः। कृद्ग्रहणप्रत्याख्यानात्। उदात्तवता गतिमता च तिङा समासो वक्तव्य इति तत्पुरुषाधिकारे तिङ्‌समासविधानेन गतिसमासस्य तत्पुरुषत्वाभ्युपगमाच्च। वितन्वत इत्यत्र त्रिचक्रादित्वादन्तोदात्तत्वं कल्प्यम्। अत्यायाहित्यत्र तु तिङ्‌ङतिङ्‌ इति निघाते आङा समासः। उत्तरपदस्योदात्तशून्यतया गतिस्वराभावादव्ययपूर्वपदप्रकृतिस्वरेणाङुदात्तः। ततोऽतिशब्देन समासे कृते कृद्‌ग्रहणप्रत्याख्यानादुत्तरपदप्रकृतिस्वरेणेष्टसिद्धेः। निरिणातीत्यत्र तु यच्छब्दयोगे निघातनिषेधात्पूर्ववदेवेष्टं सिद्धम्।
भाष्यमते तु सह सुपेत्यत्र योगविभागेनोक्तसमासविधानात्तत्पुरुषसंज्ञाविरहाद्गतिस्वरस्याव्ययपूर्वपदप्रकृतिस्वरस्य चाभावे समासान्तोदात्तेन वितन्वते इति सिद्धम्। अन्वविन्दत्, निरिणातीत्यादौ उत्तरपदप्रकृतिस्वरत्वं तु बाहुलकात्समाधेयमित्याहुः।
इदं तु इह वक्तव्यम्। कृद्‌ग्रहणप्रत्याख्याने धातोर्हि द्वये प्रत्यया विधीयन्ते, तिङः कृतश्च, तत्र कृता सह समासो भवति, तिङा च न भवति। तत्रान्तरेण कृद्‌ग्रहणं कृत एव भविष्यतीति भाष्यकारोक्त्या तिङ्‌समासे गतिकारकोपपदादिति स्वरो न प्रवर्तते इति गम्यते। तिङ्‌समासस्य स्वरूपतः सत्त्वेन उक्तस्वराभावविशिष्टतयैव तदभावम्य वाच्यत्वात् अत एव प्रपचतितरामित्यत्र कृद्‌ग्रहणस्याव्याप्तिरुद्भाविता। अन्यथा प्रपचतीत्यत्रैव तत्कथनप्रसङ्गात्। अपिच उदात्तक्ता गतिमता च तिङा समासो वक्तव्य इति वार्तिकव्याख्यायां यत्परियन्तीति उदात्तवत उदाहरणम्। निपातैर्यद्यदीति निघातप्रतिषेधाद्यन्तीत्यस्य प्रत्ययस्वरेणाद्युदात्तत्वात्परिशब्दस्य यन्तीत्यनेन समासः। अनुव्यचलदिति। पूर्वं परत्वात्तिङ्‌ङनिङ इति निघातः। तत उदात्तत्वाभावाद्गतिमतेति पृथगुक्तम्। तत्र त्रयाणां पदानां समासान्तोदात्तत्वं भवति। तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या इति पूर्वपदप्रकृतिस्वरत्वं तु न भवति। गतिर्गतावित्यनोरनुदात्तत्वात्। तत्र चोदात्तस्वरितग्रहणानुवर्तनात्। विशब्दस्य पूर्वपदत्वाभावादिति तावत्कैयटेनैव व्याख्यातम्। तथा च समासान्तोदात्तत्वं भवत्येवेति स्पष्टमेवोक्तम्।
इदमप्यवधेयम्। तिङ्‌समासः छान्दस एव। अन्यथा पर्यभूषदित्यादौ हल्‌ङयादिलोपेन यत्प्रकरोतित्यादौ नपुंसकत्वाभ्युपगमेन च निर्बाहेऽपि यत्प्रकुरुते इत्यादौ ह्वस्वस्य प्रकुर्वीरन्नित्यादौ न लोपस्य चापत्तेः छान्दसत्वेनैव सुलोपस्य वाच्यत्वात्। तस्मात्काव्यादौ उपसर्गः प्रथक् पदमेवेति सिद्धान्तः। ``इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। उक्तयोगाभ्यां सिद्धसमासानुवादेन विभक्त्यलोपस्वरौ विधीयेते। अयं चानित्यः। उद्बाहुरिव वामन इत्यादेर्जीमूतस्येव भवति प्रतीकमित्यत्र तैत्तिरीये पृथक्पदपाठस्य च दर्शनात्। एतेनेवसमासस्य छान्दसत्वमप्यपास्तम्। इवेन समासे श्रौत्याः समासगतोपमाया आलङ्कारिकैरुदाहृतत्वाच्चेति।
अद्वैतमप्यनुभवामि करस्थाबिल्वतुल्यं शरीरमहिनिर्ल्वयिनीव वीक्षे।।
इत्यादयः समस्तप्रयोगाः ``नह्यस्ति प्रथमान्तेनैवेत्याद्यनेकमन्यपदार्थ इति सूत्रस्थभाष्यसंमता एवेति दीक्षिताः।
अव्ययीभावः ।। 5 ।।
अधिकारोऽयम्। यद्यपि पूर्वपदार्थप्रधानोऽव्ययीभावः। उत्तरपदार्थप्रधानस्तत्पुरुषः। अन्यपदार्थप्रधानो बहुव्रीहिः। उभयपदार्थप्रधानो द्वन्द्व इति प्राचां व्यवहार इहापि महासंज्ञाकरणादाश्रितस्तथापि प्रायिक एव। उन्मत्तगङ्गमित्यव्ययीभावेऽन्यपदार्थस्य, अर्धपिप्पलीति तत्पुरुषे पूर्वपदार्थस्य, द्वित्रा इति बहुव्रीहौ उभयपदार्थस्य च प्राधआन्यदर्शनात्। समाहारद्वन्द्व उभयपदार्थप्राधान्यादर्शनाच्च। एकार्थीभावपक्षे पदद्वयस्याप्यनर्थकत्वाच्चेति कैयटादयः।
अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्यान्तवचनेषु ।। 6 ।।
अत्राव्ययमिति योगं विभज्य अपदिशमिति साधनीयम्। क्लीबेऽन्तरं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्।
इत्यमर इति केचित्। तच्चिन्त्यम्। भाष्यादावनुक्तत्वात्। विभक्त्यर्थेऽव्ययीभावः। अव्ययीभावे शरत्प्रभृतिभ्य इति टच्। अव्ययीभावश्चेति क्लीबत्वमिति क्षीरस्वामिना तत्र व्याख्यातत्वात्। दिशोरिदमिति विग्रहस्य दर्शितत्वाच्च। सबन्धस्य चार्थवशान्मध्यरूपस्यैव ग्रहणात्। नन्वत्र विभक्तिपदमधिकरणमात्रपरम्। नचैवं विक्षक्तीति सामान्यनिर्देशवैफल्यम्। परिशिष्टवदधिकरणपदस्यैव ग्रहणापत्तेरिति वाच्यम्। तथा सत्येक मात्राया आधिक्यात्। मैवम्। अधिकरणमात्रविवक्षायां विभक्तिपदस्थाने ङिग्रहणस्यैव लाघवात्प्रसङ्गात्। नचैवं एकस्यैव लाभापत्तिः, तथात्वे सुइत्येवाभिधानापत्तेः प्रथमोपस्थितत्वात्। तस्माद्विभक्तिपदोपादानस्वरसादधिकरणादतिरिक्तार्थ वृत्तेरप्यव्ययस्य ग्रहणमभिमतमिति न काप्यनुपपत्तिः। ततश्च कर्तृकर्मकरणसंप्रदानापादानरूपशक्तिवृत्तेरव्ययस्याप्रसिद्धत्वात्। अधिकरणसंबन्धोभयपरमव्ययमत्र गृह्यते इति सिद्धम्।
यत्तु नारद इत्यबोधीत्यादौ इतिशब्देन कर्माभिधानस्य प्रसिद्धत्वादिति नारदमित्यव्ययीभावो भवत्येव विभक्तिपदस्वारस्यादिति कैश्चिदुक्तम्।
तच्चिन्त्यम्। तस्य कर्मत्वमात्रावृत्तित्वात्। तथाहि-नारदं अबोधि इत्येतज्जन्यबोधापेक्षया नारद इत्यबोधि इत्येतज्जन्यबोधस्य वैलक्षण्यमनुभवसिद्धम्। आद्ये उल्लेख्यज्ञानस्य नारदविशेष्यकत्वं नियमेव गम्यते। नारदत्वप्रकारकत्वं तु औत्सर्गिकम्। धर्मान्तरप्रकारकस्यापि नारदविशेष्यकज्ञानस्य तदुल्लेख्यत्वात्। द्वितीये तु नारदत्वप्रकारकत्वं नियमेन गम्यते, नारदविशेष्यकत्वं तु न तथा। नारदत्वप्रकारके भिन्नविशेष्यकेऽपि बोधे सति तादृशप्रयोगदर्सनात्। तथाच विशेष्यत्वरूपं कर्मत्वं ज्ञानाद्यर्थकधातुयोगे द्वितीयार्थः। इतिशब्दस्य तु प्रकारत्वमर्थः। स्वसमभिव्याहृतपदार्थतावच्छेदकप्रकारकत्वस्य ज्ञाने नियमतोऽवभासनात्। स्वसमभिव्याहृतपदार्थविशेष्यकत्वं तु प्रमास्थले लभ्यते, ननु भ्रमस्थले इति अनभिहितसूत्रे वक्ष्यामः। तत्राव्ययीभावस्वीकारे तस्य नित्यसमासत्वान्नारद इत्यबोधीति प्रयोगस्यासाधुत्वप्रसङ्गाच्चेति दिक्। विभक्तिस्तदर्थरूपा कारकशक्तिरधिकरणादिस्वरूपा वचनशब्दः कर्मव्युत्यत्त्याऽर्थपरः। विभक्त्यादिभिरभेदेन तदर्थान्वयः। अधिकरणाद्यर्थेषु वर्तमानं सुबन्तमव्ययं समर्थेन सह समस्यते। नच सुप्सुपेत्यने न सिद्धिः। पुनर्विधानात्तस्यानित्यत्वद्योतनात्। अतएव विभाषाधिकारात्पूर्वं पठितस्यापि तस्य नित्यसयासत्वाभावात्पूर्वं भूतो भूतपूर्व इति स्वपविग्रहो वृत्तावुक्तः। वाप्यामश्वो वाप्यश्व इत्यादौ तत्समासे कैयटेऽपीति बोद्ध्यम्। संज्ञायामितिवत्सुप्सुपेत्यस्यापि नित्यत्वे सिन्नित्यसमामयोः शाकलप्रतिषेध इतिवार्तिकस्थनित्यग्रहणप्रत्याख्यानपरस्य ``नित्यग्रहणेन नार्थः इदमपि सिद्धं भवति वाप्यामश्वो वाप्यश्वइति भाष्यस्यानुपपत्तेः। यथाश्रुतवार्तिकेनापि तन्निषेधसिद्धेः। नचैवं पङ्कजादिपदेष्वपि नित्यसमासत्वादविग्रहत्वं स्यादिति वाच्यम्। यौगिकार्थपुरस्कारेण विग्रहदर्शनेऽपि समुदायार्थस्य पद्मत्वस्य समासैकगम्यतया वस्तुतस्तथात्वादिति दीक्षिताः। विभक्तौ हरौ इत्यधिहरि। हरि ङि अधि इत्यलौकिकं वाक्यम्। अन्तरङ्गनपीति ङेर्लुक, नतु परत्वादौत्यम्, घेरकारान्तादेशे यथोक्तरूपासिद्धेः। संनिधानात्समस्यमानपदान्तर्गतैव विभक्तिर्ग्राह्या। तदर्थश्चाधिशब्देन द्योत्यः। नचैवं निपातेनाभिहिते विभक्त्यनुपपत्तिः। सुबन्तेन समासविधानसामर्थ्यात्तदुत्पत्तेः। अतएव द्विजार्थः सूप इत्यादौ उक्तार्थस्यापि प्रयोगो वक्ष्यते। विभक्त्यर्थमात्रवृत्तेरेवाव्ययस्येह ग्रहणम्। वचनग्रहणस्य सामर्थ्याद्विभक्त्यादिप्रत्येकान्वयात्। अन्यथा तद्वैयर्थ्यात्। गृहस्योपरि, ग्रामस्य पुर इत्यादीनां त्वधिकरणार्थत्वेऽपि दिग्देशकालेष्वधिकेषु वर्तमानत्वान्न समासः।
केचित्तु। निपातेनाभिहितत्वात्प्रथमान्तेनायं समासः। यद्वा षष्ठ्यन्तेनेति मतद्वयमपि परिशिष्टोक्तत्वादङ्गीचक्रुः। तच्चिन्त्यम्। समस्यमानपदस्य सप्तम्यन्तं विना समासेऽधिकरणार्थकाधिशब्दप्रयोगानुपपत्तेः।
प्राञ्चस्तु हरौ अधिकृत्येति विग्रहमाहुः। तत्र नित्यसमासत्वेऽप्यस्वपदविग्रहत्वमक्षतम्। ल्यबन्तस्य समासघटकातिरिक्तस्य प्रवेशात्। नच समासार्थलेशमप्यबोधयतस्तस्य विग्रहान्तर्बावो न युक्त इति वाच्यम्। समासार्थातिरिक्तार्थबोधकत्वेन विग्रहवहिर्भावे कुम्भं करोति कुम्भकार इत्यपि न स्यात्। अणन्ते वर्तमानत्वसंख्याद्यनवबोधनात्। समासार्थबोधकत्वस्य अधिकं तु(?)प्रविष्टमिति न्यायेनोभयत्र साम्यात्। किञ्चैवं विग्रहमात्रोच्छेदापत्तिः। तदन्यूनानतिरिक्तार्थबोधकत्वस्य कुवाप्यभावात्। चित्रगुरित्यत्र गोनिष्ठसंख्यानवबोधात्, विग्रहे च तद्वोधात् इति दिक्।
समीपे कृष्णस्य समीपमुपकृष्णम्। अन्वर्थसंज्ञात्वात्मामीप्यप्राधान्येऽयं, समीपवर्त्तिप्राधान्ये तु उपदशा इति बहुव्रीहिर्वक्ष्यते। अतोऽत्र सामीप्यस्य भेदेनान्वयः। तत्र तु समीपवर्तिनोऽभेदेनेति विशेषः। नच समया, निकषा, आरादित्यादावतिप्रसङ्गः। तेषामधिकरणत्वविशिष्टसामीप्यपरत्वात्। ग्रामस्य समीपे इति बोधात्। उपकुम्भमित्यादौ सामीप्यस्य घटादिनिष्ठन्वेन गम्यमानत्वात्। तथा च तत्र सामीप्यं देशान्तरे तद्वृत्तित्वं च घटादौ प्रकारः। उपकुम्भमित्यादौ तु कुम्भस्यैव सामीप्यनिरूपकत्वं तद्विशेष्यत्वं चेति विशेषः।
यत्तु तत्र द्वितीयापञ्चम्योर्विधानसामर्थ्यान्न समास इति तन्न। चैत्रस्य ग्रामं सगयेत्यादावसामर्थ्यादसमासे तद्विधेश्चरितार्थत्वात्। नच समासस्य नित्यतया वृत्तस्य विशेषणयोगो नेति चैत्रस्येत्यादेर्नापत्तिः। सविशेषणानां नेत्यस्यापि सत्त्वात्। नचानित्यसमासपरं तदिति वाच्यम्। मानाभावात्। तत्प्रयोगे एकार्थीभावेन समासप्राप्त्यभावाच्च। नच स्थूलस्य कुम्भस्य कार इत्यापत्तिः। कर्मयोगं विनाऽणोऽसाधुत्वात्। स्थूलं कुम्भकार इत्यस्य चासामर्थ्यात्। अत एव महान्तं पुत्रीयति इत्यादेरगमकत्वं भाष्ये उक्तम्। व्यपेक्षायां वाक्यमेव, एकार्थीभावे वृत्तिरेवेत्यस्य तदर्थत्वात्।
समृद्धौ मदाणां समृद्धिः सुमद्रं, मद्राणां विशेष्यत्वे तु कुगतीति तत्पुरुषः। समृद्धा मद्राः सुमद्रा इति।
व्यृद्धौ दुर्यवनम्। अर्थाभावे तु अभावप्रतियोगिना समासः। इह तु ऋद्धेरभावप्रतियोगित्वं न तु यवनानामिति विशेषः।
अर्थाभावे निर्मक्षिकम्। अविघ्नम्। संसर्गाभावेऽयं समासस्तस्य समस्यमानपदार्थविरोधित्वात्। भेदस्य तु पदार्थतावच्छेदकेनैव सह विरोधात्।
यत्तु भूतले घटो नेत्यत्र घटाभावबोधो न भवति। अव्ययीभावस्य नित्यसमासत्त्वादिति। तन्न। अभावस्य विशेष्यत्वएवाऽव्ययीभावविधानात्। भूतलवृत्त्यभावप्रतियोगी घट इत्यभावप्रकारकप्रतियोगित्वसंसर्गकघटविशेष्यकबोधतात्पर्ये भूतलवृत्ति रलक्षणावदिति मैथिलसम्प्रदायः।
अत्यये हिमस्यात्ययोऽतिहिमम्। तस्य ध्वंसः इत्यर्थः। न चार्थाभावेन सिद्धौ पृथगुपादानं व्यर्थम्। तत्रात्यन्ताभावस्यैवोपादानात्। अत्र चात्ययग्रहणस्यैव प्रमाणत्वात्। तेन प्रागभावार्थे नाव्ययीभावः।
यत्तु ध्वंसत्बमबावत्वव्याप्यमखण्डमेवेत्यर्थाभावात्पृथगुपादामिति तन्न। ध्वंसत्वस्याबावत्वाघटिनत्वेऽपि ध्वंसस्याभावत्त्वानपायात्।
संप्रति इत्यव्ययमधिकरणशक्तिप्रधानम्।
एतर्हि संप्रतीदानीमधुना सांप्रतं तथेत्यमरोक्तेः।
अधिकरणकारकाक्षिप्ता युजिक्रिया नञा निषिध्यते। अतिनिद्रम्। निद्रा इदानीं न युज्यते इत्यर्थः। अतितैसृकमाच्छादनमिति वृत्तिः। तिसृभावे संज्ञायां कन्युपसंख्यानम्। तिसृका नाम ग्रामः। तत्र भवं तैसृकमाच्छादनम्। तच्चातिशीते वा काले उपयोज्यम्। इदानीं नोपभोगार्हं तैसृकमाच्छादनमिति तदर्थः। तै सृकपदस्याच्छादनपदसापेक्षत्वेऽपि गमकत्वात्समास इत्याहुः।
प्राञ्चस्तु असंप्रतीति संप्रत्यभावः अनेनोपभोग्यवस्तुनो यो वर्तमानकालस्तस्यैव निषेधः क्रियते इत्याहुः।।
ननु अधिकरणस्य निषेधं प्रतियोगित्वेनान्वयो विरुद्धः। भूतले न घट इत्यादौ भूतलस्याभावप्रतियोगित्वानवभासनादिति चेन्न। वस्तुतोऽधिकरणस्य नाभावप्रतियोगित्वं, तज्जन्यबुद्धावधिकरणत्वेन प्रतियमानस्य वा नाद्यः। अधिकरणस्य केवलान्वयितया घटादेरपि ततात्वानुपपत्तेः। नान्त्यः। कालस्य निषेधप्रतियोगित्वं वदता तस्याधिकरणत्वानुभवानङ्गीकारात्। नचाधिकरणशक्तिप्रधानस्याभावे प्रतियोगित्वेनान्वयो न स्यात्, भूतलस्य वेति वाच्यम्। तथाभूतस्यापि दिवाशब्दस्य दिवामन्ये इत्यत्राधिकरणशक्तिप्राधान्यमपह्वाय वृत्तिस्वभावेन कर्मत्वाङ्गीकारात्। तथाचातिनिद्रमित्यस्य निद्रायोग्यकालाभावइत्यर्थः।
शब्दप्रादुर्भावे इतिहरि। हरिशब्दस्य प्रकाश इत्यर्थः। हरिपदं शब्दस्वरूपपरम्। तम्य प्रकाशार्थेन इतिशब्देन समासः।
पश्चादर्थे अनुरथम्। रथानां पश्चादित्यर्थः। इह व्यृद्धिपदस्याल्पाच्त्वेन प्रसक्तस्य पूर्वनिपातस्याकरणं एतत्समासानि त्यत्वज्ञापनार्थम्। अतो वाक्यस्यापि साधुत्वमिति केचित्। समीपाद्यर्थैः शब्दैरतद्धितान्तैः साहचर्यात् तथाविधस्यैवेह ग्रहणम्। अचः परस्मिन्नित्यत्र ततः पश्चादिति, अनेकमन्यपदार्थे इति सूत्रे सर्वपश्चादिति च भाष्यादित्यन्ये।
योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। अनुरूपं रूपस्य योग्यम्। वीप्सायाम्। अर्थमर्थं प्रतीति प्रत्यर्थम्। भाष्यप्रामाण्याद्वाक्यमपि साधु। यद्वा प्रतिशब्दोऽत्र कर्मप्रवचनीयत्वात् संबन्धस्यावच्छेदकः। वीप्सा तु द्विर्वचनद्योत्या। अतोऽव्ययस्य वीप्सायामवृत्तेर्न समास इति हरदत्तादयः।
केचित्तु प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्गर्भं वाक्यमपि। नच ग्रामस्य वृक्षं प्रतीत्यत्र समासाप्रसक्त्या तत्रैव द्वितीयाविधानं सावकाशामिति वाच्यम्। समासावश्यकत्वे विशेषणस्यैवानन्वयापत्तेरित्याहुः। हरेः सादृश्यं सहरि। अनुपूर्वस्य भाव आनूपूर्व्यम्। ब्राह्मणादित्वात्ष्यञ्। षित्वान्ङीष् आनुपूर्वीति। अनुज्येष्ठम्। ज्येष्ठक्रमेणेत्यर्थः।
यौगपद्ये सचक्रम्। सहशब्दस्य समासः। अव्ययीभावे चाकाले इति सभावः।
सदृशः सख्या ससखि। सकिखीति वृत्तिः। अपचितपरिमाणा मृगाली किखी। पूर्वे सादृश्यस्य प्राधान्यं अत्र तद्वत इति विशेषः। अन्यथा समृद्धा मद्राः सुमद्रा इतिवदव्ययार्थप्राधान्याभावे समासो न स्यात्। ``सपल्लवं व्यासपराशराभ्यमिति नैषधम्। पाणिपक्षे पल्लवसदृशमित्यर्थः। संपत्तिरनुरूपमात्मभावः। सब्रह्मवर्गाणां तेषामनुरूपो ब्रह्मभावः।
साकल्ये सतृणमभ्यवहरति। न किञ्छित्त्यजति। नतु तृणभक्षणे तात्पर्यम्। अन्तवचने साग्न्यधीते। अग्निशब्दस्तदर्थग्रान्थपरः। तत्पर्यन्तमधीते इत्यर्थः। नच साकल्येन सिद्धिः। यदा यावान्देशोऽध्येतव्यत्वेन परिगृहीतस्तदपेक्षसमाप्तेरन्तशब्देन, सकलापेक्षया च समाप्तेः साकल्यशब्देनोक्तत्वात्। अग्निना सहेति विग्रहः। अन्तत्वं द्योत्यमिति केचित्। अग्निरन्तोऽस्योति। अग्नेरन्तत्वमिति वा विग्रह हत्यन्ये।
यत्तु सहशब्दस्यान्तवाचकत्वाभावादन्तत्वस्य सुतरामलाभादध्ययनेऽनन्वयाच्च नेदं युक्तमिति तदसत्। द्योत्यार्थेनैव शब्देनाऽस्वपदविग्रहोक्तौ वाधकाभावात्। अतएवान्तत्वस्यापि सुलभत्वात्। अन्तवाचकत्वे हि प्राधान्येनान्तत्वं नोपस्थितमिति शङ्कास्यात्। अध्ययनान्वयस्तु तृतीयान्तविग्रहेऽन्तत्वस्य द्योत्यत्वेऽपि तुल्यः। अध्येतव्यपरिच्छेदकत्वमात्रं त्वत्रापि तुल्यमेवेति दिक्।।
यथाऽसादृश्ये ।। 7 ।।
यथार्थत्वेन सादृश्येन वा प्राप्तस्य पर्युदासार्थम्। सादृश्यभिन्नेऽर्थे यथाशब्दः समस्यते। तेनेह न। हथा हरिस्तथा हरः। नच तथाशब्देन सह हरसब्दस्य समासः स्योादेवोति वाच्यम्। सादृश्यप्रतियोगिना सहैव तद्विधानात्। यथाशब्दार्थस्य सादृश्यस्य प्रतियोगित्वसम्बन्धेनान्वयस्य व्युत्पन्नत्वात्। तथाशब्दार्थस्य त्वाश्रयत्वसम्बन्धेनैवान्वय इति वैषम्यात्। नचयथाशक्ति यथाबलमिति सादृश्परूपप्रकारवाचिथाल्‌प्रत्ययान्तयथाशब्दस्य समासो न स्यादिति वाच्यम्। अव्युत्पन्नेन सह तदुपपत्तेः।
यावदवधारणे ।। 8 ।।
इयत्तापरिच्छेदवृत्ति यावदित्यव्ययं सुपा सह समस्यते। यावदिति तद्धितान्तेनास्वपदविग्रहः। यावदमत्रे ब्राह्मणानामन्त्रयस्व। इहामत्रैर्ब्राह्मणाः परिच्छिद्यन्ते। अमत्रसंख्याकान् ब्राह्मणानित्यर्थः। यद्यपि अमत्रसंख्यया ब्राह्मणाः परिच्छिद्यन्ते तथापि केवलसंख्यायाः परिच्छेदकत्वायोगादमत्रानुरोधाच्च तेषां परिच्छेदकत्वोक्तिः। अवधारणे किम्। यावद्दत्तं तावद् भुक्तम्। कियदिति नावधारयमीत्यर्थः।
सुप्प्रतिना मात्रार्थे ।। 9 ।।
अल्पार्थवृत्तिना प्रतिना सह सुबन्तं समस्यते। शाकस्य लेशः शाकप्रति। रूपप्रति। पुनः सुप्ग्रहणस्याव्ययधिकारनिवृत्तिज्ञापकत्वात्। अन्यथा च स्वरादीनाम् दोषामन्यमहः दिवामन्यारात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशानामेवाव्ययानां प्रतिना समासः स्यात्। मात्रार्थे किम्। वृक्षं प्रति सिञ्चतीत्यादौ माभूत्। न च तत्र कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यान्न समास इति वाच्यम्। षत्वनिवृत्त्यर्थतया तदुपपत्तेः।।
अक्षशलाकासंख्याः परिणा ।। 10 ।।
संख्यायां विशेषस्य ग्रहणम्। अक्षशलाकयोः स्वरूपस्य। अक्षशलाकाशब्दौ एकवचनान्तौ। चतुःपर्यन्तसंख्याश्चेत्येते तृतीयान्ताः। कितवव्यवहारे पराजये गम्यमाने विपरीतं वृत्तमित्यर्थे पारेणा सह समस्यन्ते तृतीयान्तत्वं वर्तमानक्रियाकर्तृत्वान्न्यासिद्धम्। अन्यद्वाचनिकम्। पञ्चिकाख्यं द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति। तत्र सर्वेषामुत्तानत्वे अधोमुखत्वे वा पातयितुर्जयो वैषम्ये पराजयः। अक्षेण विपरीतं वृत्तमक्षपरि। शलाकया विपरीतं वृत्तं शलाकापरि। एकेन तथा एकपरि। एवं द्विपरि त्रिपदि चतुःपरीति। पञ्चानामैकरूप्ये तु जयनियमात्पञ्चपरीति न भवत्येवेत्यवधेयम्।
विभाषा ।। 11 ।।
अधिकारोऽयम्, अत एव पूर्वोक्तानां नित्यसमासत्वम्।
अपपरिबहिरञ्चवः पञ्चम्या।। 12 ।।
एते पञ्चम्या वा समस्यन्ते। अपहरि संसारः। अपहरेः। एवं परिणा। बहिर्ग्रामम्। बहिर्ग्रामाद्। प्राग्‌ग्रामम्। प्राग्‌ ग्रामात्। परस्परसाहचर्यादपपरी वर्जने इति कर्मप्रवचनीयौ। पञ्चम्यपाङ्परिभिरिति तद्योगे पञ्चमी। अञ्चतिरप्यव्ययमेव। तत्साहचर्यात्। तत्राप्यञ्चूत्तरपदेति पञ्चम्येवेति भाष्यम्। पञ्चमीग्रहणं तु बहिर्योगेऽपि षष्ठ्यर्थे पञ्चमीज्ञापनार्थम्। तेन बहिर्योगे चोपसं ख्यानमिति नारभ्यम्।।
आङ्‌मर्यादाभिविध्योः ।। 13 ।।
आमुक्ति आमुक्तेर्वा संसारः। आबालं आबालेभ्यो वा हरिभक्तिः। अत्रार्थग्रहणं शक्यमकर्तुम्। एतयोरेवार्थयोः कर्मप्रवचनीयसंज्ञायाः पञ्चम्याश्च विधानात्। आपरमाणोरा च भूगोलमिति तु लेखकप्रमादः। भूगोलकादित्येव पाठो युक्तः। चकारेण समासविच्छेदादसमासे च पञ्चम्या आवश्यकत्वादित्याहुः।
लक्षणेनाभिप्रति आभिमुख्ये ।। 14 ।।
आभिमुख्यपद्योतकावभिप्रती चिह्नवाचिना सह वा समस्येते। अभिरभागे लक्षणेत्थंभूतेति च कर्मप्रवचनीयत्वाद् द्वितीया। अभ्यग्नि शलभाः पतन्ति। प्रत्यग्नि लक्ष्यलक्षणभाव आभिमुख्यं चेत्युभयमभिप्रतिभ्यां द्योत्यम्। लक्षणेन किम्। स्रुघ्नं प्रतिगतः। स्रुघ्नादागतस्तभेव प्रतिगत इत्यर्थः। अतः स्रुघ्नस्य कर्मत्वं न तु लक्षणत्वम्। अभिप्रतिग्रहणाद्येनाग्निस्तेन गत इत्यत्र न। आभिमुख्यग्रहणं किम्। अभ्यंका गावः। प्रत्यंकाः। अभिनवः प्रतिनवश्चाङ्को यासां ताः। न चाव्ययार्थप्राधान्यस्यौत्सर्गिकस्यात्राभावादेव नाव्ययीभावप्रसङ्ग इति वाच्यम्। बहुव्रीहिविषयेऽप्यव्ययीभावो भवतीति ज्ञापनार्थत्वात्। तेन द्विमुनि व्याकरणमित्यादिसिद्धिः।
अनुर्यत्समया ।। 15 ।।
यदिति सामान्ये क्लीबत्वम्। यं पदार्थं समया सामीप्यप्रतियोगी यः पदार्थ इति यावत्। तेन लक्षणभूतेनानुर्वा समस्यते। अनुवनमशनिर्गतः। वनस्यानु। वनसामीप्यनिरूपकं अशनिगमनाश्रयदेशोपलक्षणं च। समयेति किम्। वृक्षमनु विद्योतते विद्युत्। वृक्षस्य लक्षणत्वमेव न तु सामीप्यनिरूपकत्वम्। अव्ययं विभक्तिइत्येव सिद्धे विभाषार्थं सूत्रम्।
यस्य चायामः ।। 16 ।।
लक्षणेत्यनुवर्तते। यस्यायामोऽनुना द्योत्यस्तेन लक्षणेनानुर्वासमस्यते। अनुगङ्गं हास्तिनपुरम्। अनुगङ्गं वाराणमी। आयामलक्षणत्वे अनुनाद्योत्ये दैर्घ्यस्य उपलक्षिततासम्बन्धेन वाराणस्यामन्वयः। एवं चायामस्यानुशब्दार्थस्य विशेषणत्वेनान्वये लक्षणत्वस्य संसर्गत्वमेव द्योत्यत्वेनोक्तम्। अव्ययार्थस्य भेदसम्बन्धेनापि नामार्थन्वयात्। यदि तूपलक्षितत्वमपि तदर्थः। तदा दैर्घ्यस्यानुशब्दार्थान्तरे उपलाक्षतेत्यत्र सम्बन्धे तस्य वाराणस्यामभेदेनान्वयः। उदगायतेति फलितोर्थः।
तिष्टद्‌गुप्रभृतीनि च ।। 17 ।।
एतानि निपात्यन्ते। तिष्ठन्ति गावो यत्र स तिष्ठद्‌गु दोहनकालः। चकार एवकारार्थो वृत्त्यन्तरप्रवेशनिरासार्थः। अथ आतिष्ठद्‌गुजपन् संध्यां पश्चिमामायतीगवमिति भट्टिप्रयोगे पूर्वत्र पञ्चमीलोपपृथक्पदत्वाभ्यां निर्वाहेऽपि द्वितीये कथं निर्वाह इति चेत् अत्राहुः। विजातीयवृत्तिरेव विषिध्यते अव्ययीभावस्तु भवत्येवेति। आयतीगवादिति पाठ इत्पन्ये। खलेयवादीनि प्रथमान्तानि। प्रातिपदिकार्थमात्रादन्यत्र न प्रयोग इत्यर्थः। तिष्ठद्गु वहद्गु। शत्रादेशो निपातनात्। गोस्त्रियोरिति ह्रस्वः। आयतीगवम्। शत्रादेशपुंवत्त्वनिषेधसमासान्ताः। खलेयवम् खलेबुसम्। सप्तम्या अलुक्। लुनयवम्। लूयमानयवम्। पूयमानबुसम्। संह्रियमाणयवम्। संह्रियमाणबुसम्। एते कालार्थाः समभूमि समपदाति। भूमेः समत्वमिति पूर्वपदार्थः प्रधानम्। सममित्युभयत्र मान्तपाठे पूर्वपदे मुमागमो निपात्यः। सम्भूमीत्यादिपाठे अन्त्यलोपः। उतक्तार्थे संशद्बस्य वा प्रयोगः। सुषमम् विषमम्। दुःपमम्। निःसमम् अपसमम्। समस्य शोभनत्वम् विगतत्वम् दुष्टत्वम् निर्गतत्वमपगतत्वं चेति विग्रहः। आयतीसमा आयतीसमं शत्रादेशपुवत्त्वनिषेधौ पापसमं पुण्यसमं समासं वत्सरः, प्राह्णं प्रमृगं प्ररथं प्रदक्षिणं प्रगतत्वमह्न इत्यादि विग्रहः। प्रतिगतस्य सङ्गत्वं सम्प्रति। विपरीतमसम्प्रति। इच्‌कर्मव्यतिहारे दण्डादण्डि। द्विदण्ड्यादिष्वप्येतस्य विधानात्सोऽप्यव्ययीभावः।
पारेमध्ये षष्ठ्या वा ।। 18 ।।
पारमध्यशद्वौ षष्ठ्यन्तेन सह वा समस्येते। निपातनादेदन्तत्वम्। सप्तम्या अलुका सिद्धेऽपि मध्येगङ्गादानयेत्यादेरसिद्धेः। इह विकल्पान्तरपक्षे षष्ठीतत्पुरुषार्थं महाविबाषयाऽप्यव्ययीभाववाक्ययोरेव सिद्धेः। विकल्पप्रतियोगिनोरन्यतराप्रवृत्तौ अन्यतरस्य प्रवृत्तिनियमात्। विकल्पान्तरसत्त्वे तु सामर्थ्यात्तत्पुरुषसिद्धिः। अत एवान्यत्र महाविभाषयोत्सर्गपवादयोर्विकल्पे अपवादनिर्भुक्तेनोत्सर्गप्रवृत्तिः। तेन पूर्वंकायस्येत्येकदेशिसमासाभावपक्षे वाक्यमेव न तु षष्ठीसमासः। दक्षस्यापत्यं दाक्षिरिति इञा निर्मुक्तेऽणभावश्च। अत एवोदश्वितोऽन्यतरस्यामिति विभाषारम्भः।
संख्या वंश्येन ।। 19 ।।
वंशे भवो वंश्यः। स च द्वेधा विद्यया जन्मना च। तदर्थकेन सह संख्या वा समस्यते। द्वौ मुनी पाणिनिकात्यायनौ द्विमुनि व्याकरणस्य त्रिमुनि। जन्मना यथा। एकविंशति भरद्वाजम्। इह पूर्वपदार्थ उत्तरपदार्थे स च समासार्थे वंश्ये विशेषणमित्यन्वयः। द्विमुनि व्यकरणमिति तु विद्यया सह तद्वतामभेदोपचारादिति वृत्तिः। लक्षणेति सूत्रे आभिमुख्यग्रहणादव्ययार्थप्राधान्याभावेऽप्यव्ययीभाव इति दीक्षिताः।
नदीभिश्च ।। 20 ।।
नदीभिः संख्या समस्यते। न च द्विरावतीको देश इत्यत्रापि अव्ययीभावः स्यादर्थविशेषानुपादानेन पूर्वोत्तरपदनिर्देशेन समासविधानाद्विशेषाभावादिति वाच्यम्। अन्यपदार्थे प्रतिषेध इति वार्तिकात्। पूर्वपदार्थप्राधान्याभावेन द्विरावतीक इत्यत्राव्ययीभावानुपपत्तेः। न च सप्तगङ्गमित्यत्रापि न तत्। समाहारपदस्य भावव्युत्पन्नत्वे समूहरूपस्य तस्यान्यपदार्थस्य कर्मप्रत्ययान्तत्वेन समाह्रियमाणपरत्वे च पूर्वपदार्थविशिष्टोत्तरपदार्थस्य प्राधान्यादिति वाच्यम्। प्रक्रान्ते द्विशब्दार्थे धर्मिविशेषाकाङ्क्षायां यमुनेत्युक्ते उत्तरपदार्थं प्रति पूर्वपदार्थस्य विशेष्यत्वात्। यद्वा वृत्तिविषये द्विप्रभृतिशद्बानां द्वित्वादिपरतया यमुनयोर्द्वित्वमित्यस्य समासार्थत्वात्पूर्वपदार्थनिर्वाहः। न च समुदायेनान्यपदार्थावगमात्पूर्वोत्तरपदाभ्यां द्वाभ्यां तद्व्यपदेशात्पूर्वपदार्थप्राधान्यमस्त्येवेति वाच्यम्। अन्वयव्यतिरेकाभ्यां तयोः संख्यानदीविशेषमात्रवाचकत्वावधारणात् समाहारे चायमिष्टः। सप्तगङ्गम्। द्वियमुनम्। स्वरूपस्य पारिभाषिकनद्याश्च नेह ग्रहः। बहुवचनसामर्थ्यात्। सर्वमेकनदीतर इत्यत्र समाहाराभावान्नव्ययीभावः। अन्यथा नदीपौर्णमास्याग्रहायणीभ्य इति टच् स्यात्। न वाच्यत्रवेत्यत्र योगविभागेन क्रियमाणे गोदावर्याश्च नद्याश्चेत्यत्र दुर्वार इति वाच्यम्। प्रयोगदर्शनादेकानदीतरे तदप्रवृत्तेः।
अन्यपदार्थे च संज्ञायाम् ।। 21 ।।
अन्यपदार्थवृत्ति सुबन्तं नित्यं समस्यते संज्ञायाम्। उन्मत्तगङ्गं नाम देशः। लोहितागङ्गम्। शनैर्गङ्गम्। अन्येति किम्। कृष्णवेणी, संज्ञायां किं शीघ्रगङ्गो देशः। विभाषाधिकारेऽप्ययं नित्यसमासः। वाक्येन संज्ञानवगमात्।
तत्पुरुषः ।। 22 ।।
बहुव्रीहेः प्रागधिकारोऽयम्।
द्विगुश्च ।। 23 ।।
द्विगुरपि तत्पुरुषसंज्ञः। संख्यापूर्वो द्विगुरित्यत्र च कारपाठेन संज्ञासमावेशसिद्धेरिदं व्यर्थामित्युक्तम्। द्विगोस्तत्पुरुषत्वे टडाचौ प्रयोजनम्। पञ्चराजम्। राजाहरिति टच्। तस्य समुदायावयवतया उत्तरपदस्याकारान्तत्वाभावान्न स्त्रीत्वम्। समासार्थोत्तरपदान्ताः समासान्ता इति पक्षे तु पात्रादित्वम्। पञ्चराजीति निर्मूलम्। द्व्यहः। अह्नष्टखोरेवेति टिलोपः। रात्राह्ना हा इति पंस्त्वम्। पञ्गवम्। गोरनद्धितलुकीति टच्। प्राग्वन्न स्त्रीत्वम्। द्व्यङ्गुलम्। तत्पुरुषस्याङ्गुलेः संख्याव्ययादेरिति अच्।
द्वितीयाश्रितातीतपतितगतत्यस्तप्राप्तापन्नैः ।। 24 ।।
द्वितीयान्तं एतैः सुबन्तैः सह समस्यते स तत्पुरुष इत्यग्रेऽपि बोध्यम्। कृष्णं श्रितः कृष्णश्रितः। दुःखातीतः। कूपपतितः। न च तनिपतीति इड्‌विकल्पाद्यस्य विभाषेति निष्ठायामिड्निषेधापात्तः। अस्मादेव निपातनादिट्‌प्रवृत्तेः। केचित्तु से सिचीत्यादिना विकल्पितेट्‌कानां कृतीप्रभृतीनां इदात्करणं यस्य विभाषेत्यस्य नित्यत्वज्ञापनार्थम्। तेन धावेतामेभराजाधियेत्यादिकमपि सिद्धमित्याहुः। ग्रामगतः। तुहिनात्यस्तः। सुखप्राप्तः। सुखापन्नः।
गमिगम्यादीनामुपसख्यानम्। ग्रामं गमी ग्रामगमी। गमेरिनिरित्यौणादिक इनिः। आङि च णिरिति तु बाहुलकात्केवलादपि। भविष्यति गम्यादय इति भावष्यदर्थे गत्यर्थकर्मणीत्यत्र द्वितीयाग्रहणमपवादावषयऽपि विधानार्थमिति कृद्योगेऽपि द्वितीया।
भाष्यमते तु गत्यर्थसूत्रप्रत्याख्यानात्कृद्योगे षष्ठ्यवेष्यत इति तत्पक्षे अकेनोर्भविष्यदाधमण्येयोरिति षष्ठीनिषेधः।
इति श्रीहर्षः। मधुपिपासुप्रभृतया गमिगम्यादित्वादिति वामनः। ``मधुपिपासुमधुव्रतसेवितं मुकुलजालमजृम्भत वीरुधान्। ननु श्रितादिभिः सह बहुव्रीहिणेव सिद्धेर्द्वितीयासमासविधिघैयर्थ्यम्। अर्थभेदाभावात्। नच स्वरे भेदः। अहीन द्वितीयेति तत्पुरुषेऽपि पूर्वपदप्रकृतिस्वरत्वाविधानात्। अतीतात्यस्तप्रप्तापन्नैः सह तु स्वरार्थस्तत्पुरुषो विधेय एव। अतीतात्यस्तयोरहीन इत्यनेन अनुपसर्गे इति पर्युदासेन च तत्र पूर्वपदप्रकृतिस्वरस्यानिष्टत्वात्। थाथादिस्वरेण तत्रान्तोदात्तसिद्धये तत्पुरुषस्वरस्यावश्यकत्वात्। नच जातिकालसुखादिभ्योऽनाच्छादनात्त क्तोऽकृतमित प्रतिपन्ना इत्यनेन बहुव्रीहावन्तोदात्तविधानात्। जात्यादिभ्यः परेषु श्रितादिषु स्वरे दोषः स्यात्। तत्पुरुषारम्भे हि बहुव्रीहरन्तोदात्तत्वं तत्पुरुषस्य त्वहीनेति पूर्वपदप्रकृतिस्वरत्वमिति द्वैस्वर्यम्। तत्पुरुषानालम्भे तु अन्तोदात्तत्वमेवेति वाच्यम्। वाजात इत्यत्र जातश्रितपतितगत इति श्रितादीनां प्रवेशं कृत्वा बहुव्रीहावपि स्वरद्वयस्य सुसाधत्वात्। नच स्वरविधौ ममासविधौ वा श्रितादीनां प्रवेशे साम्यमेवेति वाच्यम्। अहीने द्वितीयेत्यस्यानारम्भेण लाघवात्। समासद्वयपुरस्कारेण बहुव्रीहिमात्रपुरस्कारेण वा द्वैस्वर्ये विशेषाभावात्। नच यत्र बहुव्रीहित्पुरुषयोः प्राप्तिस्तत्र तत्पुरुष एवेति ज्ञापनार्थमिदं तेन राजसख इत्येव भवति नतु राजा सखास्येति बहुव्रीहिरपीति वाच्यम्। स्वस्ति सोमसखा पुनरेहि गवांसख इत्युभयस्यापि इष्यमामत्वात्।
स्वयं क्तेन ।। 25 ।।
सुबन्तं स्वयमित्येतत् क्तान्तप्रकृतिकं यत्सुप् तदन्तेन समस्यते। द्वितीयायास्तु नेह सम्बन्धः। कर्त्रंर्थत्वात्। स्वयं कृतमित्यैकपद्यात्समासान्तरप्रवेशः। आम एकान्तरमिति निगात निषेधः। स्वयं कृतस्यापत्यं स्वायंकृतिरिति तद्धितश्च।।
खट्वा क्षेपे ।। 26 ।।
खट्वेति द्वितीयान्तं क्तान्तेन सुबन्तेन समस्यते निन्दायाम्। खट्वारूढो जाल्मः।
जाल्मोऽसमीक्ष्यकारी स्यादित्यमरः। समावर्तनोत्तरं खट्वारोहणं विहितम्, तत्पूर्वमेव तदाचरणमित्याक्षिप्तं निषिद्धाचरणमस्य प्रवृत्तिनिमित्तम्, अवयवार्थस्त्वविवक्षितः।
येन स्यात्कर्मण रूढः खट्वामनुशयी नरः।
आदितस्तन्न कर्तर्व्यमिच्छता भावमात्मनः।।
इत्यादौ वाक्येन निन्दानवगमाद्विभाषाधिकारेऽपि समासस्य नित्यत्वम्।
सामि ।। 27 ।।
सुबन्तमेतत् क्तान्तेन वा समस्यते। सामि त्वर्द्धे जुगुप्सिते इत्यमरः। असत्त्वार्थकल्वान्न द्वितीयान्तत्वम्। सामिकृतम्।
पूर्वं गाधिसुतेन सामिघटितामुक्ता नु मन्दाकिनी। इति श्रीहर्षः।
कालाः ।। 28 ।।
द्वितीयान्ताः कालवाचिनः क्तेन सह समस्यन्ते। अनत्यन्तसंयोगार्थं वचनम्। मासं प्रमितः मासप्रमितः प्रतिपच्चन्द्रः। माङ्माने। आदिकर्मणि क्तः। मासं परिच्छेत्तुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रस्य मासेन सह नात्यन्तसंयोगः। प्रतिपद्वैशिष्ठ्यस्य तिथ्यन्तरचन्द्रे विरहात्।
अत्यन्तसंयोगे च ।। 29 ।।
काला इत्येव। अक्तान्तार्थ आरम्भः। मुहूर्तं मुखं मुहूर्तमुखं। तद्व्यापीत्यर्थः। कालाध्वनोरित्यत्यन्तसंयोगे द्वितीया।
तृतीया तत्कृतार्तेन गुणवचनेन ।। 30 ।।
तृतीयान्तं स्वार्थनिष्ठजनकत्वप्रतियोगिजन्यत्ववदर्थकेन गुणवचनेन, अर्थशब्देन च सह समस्यते। तत्कृतेति पृथक्। छान्दसस्तृतीयालोपः। तत्पदं तृतीयान्तार्थपरम्। तत्कृतत्वमपि गुणशब्दस्य स्वार्थद्वारकम्। शङ्कुलया खण्डः शुलाखण्डः। किरिणा काणः किरिकाणाः। खडि भेदने। कणनिमीलने। घञन्तौ काणखण्डशब्दौ उपचारान्मतुबलोपात् वा गुणविशिष्टद्रव्यवाचिनावपि गुणवाचिनौ उपचारानमनुबलोपात् वा गुणविशिष्टद्रव्यवाचिनावपि गुणवाचिनौ भवत एव। तन्मात्रवाचकत्वस्यात्राविवक्षणात्। वचनग्रहणसामर्थ्याच्च केवलगुणवाचिनो न ग्रहणम्। घृतेन पाटवमिति। धान्येनार्थो धान्यार्थः। कर्मणि भावे वा घञ्। प्रयोजनं इच्छा तदर्थः। हेतुतृतीयायाः समासः।। तत्कृतेति किम्। दध्ना पटुरित्यत्र माभूत्। यदा भुङ्क्ते इतिभोजनापेक्षो दध्नः करणभावः। यदातु विशिष्टद्रव्यासंस्कृतं दध्यपि पाटवं करोति क्रियाकारकभावो विवक्ष्यते तदा भवत्येव समासः। तस्माद्यत्रोत्तरपदे क्रियाया न प्रतीतिस्तत्रापि तत्कृतत्वेन समासः। भोजनादिद्वारके सामर्थ्ये माभूदिति तत्कृतग्रहणम्। एवं कुङ्कुमेन लोहितं मुखमित्यादावपि समासः। गुणेति किम्। गोभिर्वपावान्। गव्यदध्यादिभोजनात्पीनत्वमित्यस्ति तत्कृतत्वम्। नचायं गुणवचनो भवत्येवेति वाच्यम्। केवलगुणबोधकस्य यस्य क्वचिद्गुणविशिष्टद्रव्यवोधकत्वं तस्यैव गुणवचनत्वात्। वपावच्छब्दस्य द्रव्यमात्रवाचित्वात्। गुणश्च सत्त्वे निविशतेऽपैतीति लक्षयिष्यते।
पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।। 31 ।।
एतैः सह तृतीगान्तं प्राग्वत्। समासविधानादेव ज्ञापकात्पूर्वादियोगे तृतीया। मासेन पूर्वो मासपूर्वः। मात्रासदृशः समो वा। मातृसदृशः। मातृसमः। तुल्यार्थैरिति तृतीया। सदृशग्रहणं च सदृशप्रतिरूपयोः सादृश्य षष्ठे भाष्यकृद्भिः प्रत्याख्यातम्।
तथाहि। तुल्यार्थयोगो षष्ठयप्यस्ति तत्समासेनैवसिद्धिः। नच तत्पुरुषे तुल्यार्थतृतीयेति पूर्वपदस्य प्रकृतिस्वरार्थमिदं षष्ठीसमासेऽन्तोदात्तत्वापत्तेरिति वाच्यम्। सदृशप्रतिरूपयोः सादृश्ये इत्यनेनैव सिद्धेः। नच तत्रैव सदृशग्रहणमस्त्विति वाच्यम्। षष्ठीसमासपक्षेऽन्तोदात्तत्वं वारयितुं तदावश्यत्वात्। नचानभिधानात्षष्ठीसमास एव मास्त्विति वाच्यम्। दास्याः सदृश इत्यत्र षष्ठ्याआक्रोशे इत्यलुक्‌समासस्य भाष्ये उदाहृतत्वात्। नच हेतुतृतीयान्तेन समासार्थमिह सदृशोपादानमिति वाच्यम् तत्कृतत्वादेव सिद्धेः। नच सदृशशब्दस्य कवेलगुणवाचकत्वाभावाद्वपावच्छब्दस्येव तत्समासो न स्यादिति वाच्यम्। षष्ठीसमासेनैव सिद्धिसम्भवादिति।। पूर्वसूत्रेऽर्थशब्देन समासस्य व्याख्यातत्वाद्रिहार्थग्रहणं ऊनेन सम्बध्यते नतु पूर्वादिभिः। समशब्दस्य पृथगुपादानात्। माषेणोनं माषोनं कार्षापणम्। माषविकलम्। वाचकलहो वाक्कलहः। आचारनिषुणः गुडमिश्राः। आचारश्लक्ष्णः। मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्। गुडसंमिश्राः मिश्रंचानुपसर्गमसन्धावित्यनुपसर्गग्रहणादप्येतत्सिद्धम्।
अवरस्योपसंख्यानम्। मासावरः।
कर्तृकरणे कृता बहुलम् ।। 32 ।।
उभयभध्येऽन्यतरार्था तृतीया कृदन्तेन सह बहुलं समस्यते हरिणा त्रातो हरित्रातः नखैर्भिन्नो नखभिन्नः। कृदग्रहणे गतिकारकपूर्वस्यापि ग्रहणम् नखनिर्भिन्नः। अर्थग्रहणं किम्। भिक्षाभिरुषितः। हेतावियं तृतीया बहुलग्रहणाच्छतृशानच्‌क्तवत्वादिभिर्न। हस्तेन कुर्वान्नित्यादि। नचैवं क्तेनेत्येवोच्यतामिति वाच्यम् नखनिर्भेद इत्यादौ घञाद्यान्ते समासानुपपत्तेः। तस्मादव्याप्त्यतिव्याप्तिनिरासार्थं बहुलमित्येव साधु। बहुलग्रहणाद्धि पादाभ्यां हारकः पादहारक इति अपादानपञ्चम्यापि समासः कर्मणि ण्बुल् एवं गलेचोपकः चुपमदायां गतौ हेतुमद्ण्यन्तात्कर्तरिण्बुल्‌ अमूर्धमस्तकात्स्वाङ्गादित्यलुक्। कृतेति किम्‌काष्ठैः पचतितरामित्यत्र माभूत्।
कृत्यैरधिकार्थवचने ।। 33 ।।
स्तुतिनिन्दान्यतरतात्पर्यकं स्वार्थातात्पर्यकं अधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः समस्यते। काकयेया नदी पूर्णत्वात्तीरस्थैः काकैरपि पातुंशक्येति स्तितिः। अल्पतोयत्वात्काकैरपिपेयेतिनिन्दावा। क्रियोपादानस्य स्तुतिनिन्दातात्पर्यकत्वेन कर्तृकरणयोर्गौणत्वादप्राप्तः समासो विधीयते इतिकेचित्।
अन्येतु पूर्वं क्रियाकारकयोरन्वये तदुत्तरं स्तुतिनिन्दयोरवगतिः अर्थवादाधिकरणन्यायात्। अतः प्रपञ्चार्थमेतत् अतएवकाकपीता नदीति अकृत्येनाप्यधिकार्थवचने समासो दृश्यते इत्याहुः।
अन्नेन व्यञ्जनम् ।। 34 ।।
संस्कारकद्रव्यवाचि तृतीयान्तं संस्कार्येण सह प्राग्वत्। दघ्ना उपसिक्त ओदनो दध्योदनः। इह कारकाणां परस्परानन्वयेऽपि वृत्तावन्तर्भूतयोपसेकक्रियया सामर्थ्यसंपत्तिः। उपसेकं विना द्वयोः संस्कार्यसंस्कारकभावस्य प्रतीयमानस्यानुपपत्तेः। नच वचनसामर्थ्यांदसामर्थ्येऽपि समासोऽस्तु। किं(1)दघ्ना ओदनो भुज्यतामित्यादावप्यापत्तेः।
भक्ष्येण मिश्रीकरणम् ।। 35 ।।
गुडमिश्रा धानाः गुडधानाः। वृत्तौ मिश्रणक्रियांतर्भावः। स्वरविशदमभ्यवहार्यं क्ष्यम्। स्वरं कठिनम्। विशदं विभक्तायवम्। न चैवं अब्भक्ष्यमियादिकथमिति वाच्यम् णिरजन्तस्य भक्षयतेरुक्तार्थतया तत्र गौणत्वेन कर्मण्यणन्तत्वेनवानिर्वाहात्।
चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।। 36 ।।
चतुर्थ्यन्तपदवाच्यार्थोद्देश्यकं यत्तद्वाचिनाऽर्थादिशब्दैश्च सह चतुर्थ्यन्तं समस्यते तादर्थ्ये इह प्रकृतिविकृतिभाव एव समास इष्टः। विलरक्षितग्रहणसामर्थ्यात् अन्यथा कुबेराय वलेरर्पि कुषेरार्थत्वात्तदर्थेत्यनेनैव समासः स्यात् यूपाय दारु यूपदारु कुण्डलाय हिरण्यम् कुम्डलहिरण्यम्। नेह रन्धनाय स्थाली। अश्वघासादयस्तु षष्ठीसमासा इति भाष्यम्। अत्रयूपदारु इत्यादौ उत्तरपदार्थस्य पूर्वपदार्थोद्दश्यकत्वप्रकारको बोधः। अश्वघासादौ तु अश्वादिसंबन्धित्वप्रकारकइति विशेषः। अर्थेन नित्यसमासो विशेष्यलिङ्गता च वक्तव्या। द्विजायायं द्विजार्थः सूपः द्विजार्था यावगूः द्विजार्थपयः। अत्र चतुर्थ्यैव तादर्थ्यस्योक्त्या अर्थशद्वस्य पृथक्‌प्रयोगासंभवेन नित्यत्वं न्यायसिद्धम्। समासेतु वचनसामार्थ्यादुक्तार्थस्याप्यर्थशब्दस्य प्रयोग इति वैषम्यम् तस्मात् परवल्लिङ्गताबाधाय विशेष्यलिङ्गत्वमात्रं वक्तव्यम्।
ननु तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थबिति सूत्रं कार्यम्। तादर्थ्येन चतुर्थ्या आक्षेपः। तस्मै हितमित्यतो वा तदनुवृत्तिः चतुर्थींसमार्थात्तदर्थेवाच्ये सर्थप्‌पत्ययः स्यात्। आदिर्ञिटुडवः, षः प्रत्ययस्येति संहितापाठे षकारद्वयस्य निर्देशे तत्र ष्टुत्वेन सकारप्रश्लेषात्सकारस्येत्संज्ञा। सितिचेति पदत्वम्। तेन राजार्थं भवदर्थमित्यादौ। नलोपजश्त्वादि। पकारोऽनुदात्तार्थः। तस्मात्प्रकृतेर्यथापूर्वस्वरसिद्धिः। तेनार्थे इति पूर्वपदप्रकृतिस्वरो नारम्भणीयः। प्रत्ययत्वाच्च न पृथक्‌पयोगापत्तिः। तद्धितत्वादभिधेयलिङ्गताचेति किमर्थमेतदिति चेन्न। षर्थपः प्रत्ययत्वेश्र्यर्थ श्व्रर्थमित्यत्रेयङुवङोः प्रसङ्गात्। सकारप्रश्लेषे च मानाभावात्। वुञ्‌च्छणादिसूत्रेण सप्रत्यये तृणसइत्यादावतिव्याप्तेश्च।
अथ तथापि ब्राह्मणोऽर्थो यस्य स व्राह्यणार्थ इतिबहुव्रीहिरस्तु। ब्राह्मणार्थस्य वस्तुनो ब्राह्मणप्रयोज्यत्वात्। नचाद्विजार्थंपय इत्यादौ पथसः पूर्वसिद्धत्वात्तत्र ब्राह्मणस्य नमयोजकत्वमिति वाच्यम्। क्रियाद्वारा तत्सम्भवात्। एवं च चतुर्थ्यन्तेन विग्रहाभावः। विशेष्यलिङ्गत्वं पूर्वपदप्रकृतिस्वरत्वं चेति सर्वं बहुव्रीहित्वादेव सिद्धमिति चेन्मैवम्। महदर्थमित्यत्रात्वकपोः प्रसङ्गात्।
स्यादेतत्। तदर्थस्योत्तरपरस्यार्थशब्द आदेशः क्रियताम्। तथाच विग्रहाभावः सर्वलिङ्गता च सिद्धा। नच पयआदिशब्दप्रयोगानुपपत्तिः। आदेशस्य शब्दान्तरसाधारण्येनार्थविशेषाभिव्यक्त्यर्थं तदुपपत्तेः। तथाच तदर्थार्थेति योगविभागः। तदर्थस्योत्तरपदस्यार्थशब्द आदेशो विकल्पेन भवतीत्यर्थः। ततो बलिराक्षितयोरपि विभाषार्थशब्द आदेशः स्यात्। कुवेरार्थो बलिः कुवेरबलिः। पूर्वेण सिद्धौ ज्ञापनार्थमिदम्। प्रकृतिविकृतिभावादन्यत्र नित्योऽर्थादेश इति। रन्धनार्था स्थालीत्येव नतु रन्धनस्थालीति। यूपार्थं दारु यूपदारु इतिचोभयमिति चेन्मैवम्। उदकार्थो वीवध इत्यत्र वीवधशब्दस्यार्थादेशे मन्यौदनेत्यादिना उदकशब्दस्योदादेशप्रसङ्गात्। अतो यथान्यासमेव रम्यम्।।
पञ्चमी भयेन ।। 37 ।।
पञ्चम्यन्तं भयप्रकृतिकेन सुबन्तेन सह प्राग्वत्। चौरभयम्। भयभीतभीतिभीभिरितिवाच्यम्। वृकभीतः। नेह वृकेभ्पस्त्रासः। पूर्वस्यैव बाहुलकस्यायं प्रपञ्चः। तेन ग्रामनिर्गतोऽधर्मजुगुप्सुरित्यादि।।
अपेतापोढमुक्तपतितापत्रस्तरेल्पशः ।। 38 ।।
एतै सह पञ्चम्यन्तं अल्पं समस्यते स तत्पुरुषः। वह्वल्पार्थादित्यत्र मङ्गलामङ्गलवचनमिति वचनेऽपि अस्मादेव निपातेनाच्छस्। सुखापेतः। कल्पनापोढः। चक्रपतितः। स्वर्गपतितः। तरङ्गापत्रस्तः। असार्वत्निकत्वार्थकत्वेनाल्पश इत्युक्तेर्नेह। प्रासादात्पतितः। बाहुलकस्यैवायं प्रपञ्चः।।
स्तोकान्तिकदूरार्थकृछ्राणिक्तेन ।। 39 ।।
अ?पथेति पूर्वोक्तविशेषणम्। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादागदः। अभ्याशादागतः। दूरादागतः। कृछ्रान्मुक्तः। पञ्चम्याः स्तोकादिभ्य इत्यलुक्।
सप्तमी शोण्डैः ।। 40 ।।
बहुवचनाच्छौण्डादिभिरित्यर्थः। छत्रिणो गच्छन्तीत्यादिवदजहत्स्वार्थलक्षणया शौण्डशब्दस्य तद्धटितधूर्तादिसमुदायपरत्वात्। अक्षशौण्डः। प्रसक्तिरूपक्रियाया वृत्तावन्तर्भावात्तत्र सप्तम्यर्थान्वयः। अन्तःशब्दस्यात्र पठितस्य योगेऽवयविन आधारत्वविवक्षायां सप्तमी बृक्षे शाखेतिवत्। वनेऽन्तर्वनान्तः। अस्य वैकल्पिकत्वात्पक्षेऽव्ययीमावः। अन्तर्वणम्। प्रनिरन्तारिति णत्वमिति हरदत्तः। अन्तःशब्दार्थव्याचिख्यासायां विभक्तिमात्रप्रयोगस्यासम्भवात्साधुत्वार्थमेव मध्यशब्दस्य प्रयोगात्। अधिकरणविशिष्टमधअयवाचकस्यास्य विभक्त्यर्थमात्रवृत्तित्वाभावान्न तथेति दीक्षिताः। वस्तुतो मध्ये इत्यभिधानेऽपि अधिकरणातिरिक्तोऽर्थो नास्त्येवान्तः शब्दस्य अधिकरणमात्रवृत्तिशब्दान्तरकल्पने गौरवात्। नच वनेऽन्तरिति स्वपदविग्रहस्यैव तथासत्यनुपपत्तिः, तत्पुरुषनिर्मुक्तेऽव्ययीभावस्य प्रसक्तेस्तस्य च नित्यत्वेन वाक्यबाधकत्वादिति वाच्यम्। वने इति सप्तम्या अधिकरणातिरिक्तार्थपरत्वस्य विग्रहे वक्तव्यत्वात्। अधिशब्दोऽप्यत्र पठ्यते तस्य चाधिकरणप्राधान्येऽव्ययीभावः। आधेयप्राधान्ये त्वनेन तत्पुरुषः। अध्युत्तरपदत्वात्खप्रत्ययः। ब्राह्मणाधीनः। ब्राह्मणेष्वधि इति विग्रहः। शौण्ड धूर्तः कितव व्याड प्रकीर्ण संवीत अन्तर अधिकरणप्रधान एवायम्, अधि पटु पण्डित कुशल चपल निपुण वृत् शौण्डादिगणो वृत्तः समाप्त इत्यर्थः।
सिद्धशुष्कपक्वबन्धैश्च ।। 41 ।।
एतैः सप्तमी समस्यते सांकाश्यसिद्धः। काम्पिल्लयसिद्धः। संकाशेन कम्पिलेन च निर्वृत्तं साकाश्यं काम्पिल्यं वनम्। संकाशादिभ्यो ण्यः तत्र तपसा सिद्ध इत्यर्थः। आतपशुष्कः। स्थालीपक्वः। चक्रवन्धः। चक्रेबन्धः। बन्धे च विभाषेत्यलुक।
ध्वाङ्क्षेण क्षेपे ।। 42 ।।
ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम्। तीर्थेध्वाङ्क्ष इव तीर्थध्वाङ्क्षः। तीर्थकाकः। यथा ध्वाक्षस्तीर्थे चिरन्नावतिष्ठते तथाऽन्योऽपि चापलात्कार्येषु अनवस्थितवृतिरेवमुच्यते। इवार्थो वृत्तावन्तर्भूतः। क्षेपे किम् तीर्थे ध्बांक्षस्तिष्ठति।
कृत्यैर्ऋणे ।। 43 ।।
ऋणपदमावस्यकोपलक्षणम्। कृत्येति यत्प्रत्ययश्च गृह्यते व्याख्यानात् बहुवचनं तु प्रकृतिभेदाभिप्रायम् मासेदेयमृणम्। पूर्बाण्हेगेयं साम। तत्पुरुषे कृतीत्यलुक्।
संज्ञायाम् ।। 44 ।।
सप्तम्यन्तं सुपा समस्यते संज्ञायाम्। अरण्येतिलकाः। अरण्येमाषाः। वनेकसेरुकाः। हलदन्तात्सप्तम्याः संज्ञायामित्यलुक्। वाक्येन संज्ञानवगमन्नित्यसमासत्वम्।
क्तेनाहोरात्रावयवाः ।। 45 ।।
दिनस्य रात्रेश्चावयवाः सप्तम्यन्ताः क्तान्तेन समस्यन्ते। पूर्वाण्हकृतम्। अपराण्हकृतम्। पूर्वरात्रकृतम्। अपररात्रकृतम्। अवयवेति किम्। अह्नि दृष्टम्। रात्रिवृत्तमनुयोक्तुमुद्यतेति बहुलग्रहणादिति केचित्। अधिकरणस्य शेषत्वविवक्षायां षष्ठीसमासो वा।
तत्र ।। 46 ।।
तत्रेति सप्तम्यन्तं क्तान्तेन सह समस्यते। तत्रभुक्तम्। तत्र कृतम्। यद्यप्यधिकरणार्थस्याभिहितत्वात्तत्र शब्दात्प्रथमैव युक्ता। तथापि तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादधिकरणप्रतिपत्तये तत्रशब्दस्यापि सप्तम्यपेक्षित्वमिति वृत्तिकृतः। दीक्षितास्तु अत्र सप्तम्यथिकारेऽपि अर्थवशात्तद्बाधः। पूर्वपदप्रकृतिस्वरस्याप्यव्ययत्वादेव सिद्धिः। सप्तम्या लोपस्यापस्यकत्वेन विभक्त्यन्तरसाधारण्यस्य तदवस्थत्वाच्चेत्याहुः।।
क्षेपे ।। 47 ।।
सप्तम्यन्तं क्तान्तेन समस्यते निन्दायाम्। अवतप्तेनकुलस्तितं त एतत्। यथा तप्तप्रदेशे नकुलश्चिरं न तिष्ठति। तथा कार्याण्यारभ्य मध्ये परित्यजन् एवमुच्यते। कृद्‌ग्रहणे गतिकारकर्पूवस्यापि ग्रहणान्नकुलस्थितशब्देन समासः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलमिति यावत् तत्पुरुषे कृति बहुलमित्यलुक्।
पात्रेसमितादयश्च ।। 48 ।।
एते निन्दायां निपात्यन्ते। क्तान्तानां पूर्वेण सिद्धे युक्त्यारोह्यादित्वात्पूर्वपदादायुदात्तार्थमिह पाठः। तत्र पात्रेसमितादयश्चेत्यन्तर्गणमूत्रात्। पात्रेसमिताः। पात्रेबहुलाः। भोजनसमये एव सङ्गता न तु कार्ये। उदुम्बरमशकः। अल्यसन्तोषेण नान्यदस्तीति मन्यमानः। उदुम्बरकृमिः कूपकच्छपः। कूपमण्डूकः। कुम्भमण्डूकः। उदपानमण्डूकः। नगरकाकः। नगरवायसः। मातरिपुरुषः। पितरिशूरः अन्यत्र पौरुषहीनत्वात्, उदुम्बरमशकादिषु उपमयाक्षेपः। मातरिपुरुष इति प्रतिवेशसेवनेन। पिण्डीशूरादिषु निरीहतयेतिवृत्तिः। पिण्डीशूरः। गेहेशूरः गेहेनर्दी। गेहेक्ष्वेडी। गेहेमेही। गेहेविजिती। गेहेव्याडः। गेहेवृप्तः। गेहेघृष्टः। गेहेतृप्तः। आखनिकवकः। आखनिको जलस्रोतः खातः, तत्र यथावको यत्किञ्चित्प्राप्ते भक्षयति तथाऽन्योऽपीत्यर्थः। गोष्ठेशूरः। गोष्ठेविजिति। गाष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिरिटिरा। कर्णेचुरुचुरा। आकृतिगणोऽयम्। चकारोऽवधारणार्थः। तेन परमाः पात्रेसमिता इत्येव। न तु समासान्तरम्। परमपात्रेसमिता इति पाठे तु विस्पष्टपटुवत्समासप्रसक्तिरिति कैपटः।
पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।। 49 ।।
सप्त सुब्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते। पूर्वकालेत्यर्थस्य, अन्येषां स्वरूपस्य निर्देशः। ससम्बन्धिकत्वेन पूर्वकालस्यापरकालेन समासः। विशेषणमित्येव सिद्धे पूर्वनिपातनियमार्थमदम। एकशब्दस्य तु अपूर्वविधिरेव। दिक्‌संख्ये संज्ञायामिति नियमेनान्यत्र तदप्राप्तेः। एतेन दिक्‌संख्ये इति नियमस्यैकाधिकरणे इति निर्देशादनित्यत्वमिति कैश्चिदुक्तं परास्तम्। पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः। पूर्वोत्तरकालयोरत्र समासार्थत्वं स्नानानन्तरकालीनानुलेपनाश्रय इत्यर्थः स्नानस्य पूर्वत्वप्रतीतिः। एकशाटी, सर्वयाज्ञिकाः। जरत्ताकिंकाः। पुराणमीमांसकाः, नवपाठकाः, केवलवैयाकरणाः। समानाधिकरणेन किम्। एकस्याः शौक्ल्यम्। पूरणगुणेति षष्ठीसमासस्याप्यभावः।
दिक्‌संख्ये संज्ञायाम् ।। 50 ।।
समानाधिकरणेनेत्यापादसमाप्तेरनुवर्तते। संज्ञायामेव समानाधिकरणेन दिक्‌संख्ययोः समासो नान्यत्र। पूर्वेषुकामशमी। इषुकामशमीशब्देन पूर्वशब्दस्य समासः। ग्रामविशेषसंज्ञेयम्। पञ्चाम्राः। सप्तर्षयः। नेह उत्तरा वृक्षाः। पञ्च ब्राह्मणाः। त्रिवलित्यादयो मध्यमपदलोपात्। पूर्वसूत्रमित्यादौ दिगर्थत्वाभावात्समासः।।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य प्रथमे पादे द्वितीयमाह्निकम्।। श्रीः ।।