सामग्री पर जाएँ

श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः १/आह्निकम् १

विकिस्रोतः तः
श्रीसिद्धान्तसुधानिधिः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

अथ द्वितीयोऽध्यायः।
समर्थः पदविधिः।। 1 ।।
पदसम्बन्धी विधिः समर्थाश्रितो वोध्यः। समर्थपदस्य तदाश्रिते लाक्षणिकत्वात्। विधिपदं कर्मसाधनम्। उपसर्गे घोः किरिति किप्रत्ययः। विध विधाने इत्यौणादिके इप्रत्यये त्वाद्युदात्तो विधिशब्दः। अयं त्वन्तोदात्त इति विशेषः। अत्र एकार्थीभावः सामर्थ्यामधिकार इत्येकः पक्षः। व्यपेक्षासामर्थ्यमाधकार इति द्वितीयः पक्षः। द्विविधं सामर्थ्यमधिकार इति तृतीयः पक्षः। एवं परिभाषायामपि त्रय इति षट् पक्षाः। तत्रैकार्थीभावः सामर्थ्यं परिभाषेति सिद्धान्तः। इतरे पूर्वपक्षा इति स्थितमाकरे। अन्यतरस्य द्वयोर्वा सुबन्तत्वे यः प्रवर्तते स पदविधिः।
मीमांसकास्तु पदत्वप्रयोजकसाधारणमेव पदविधित्वं तेन व्रीहिभिर्यवैर्वा यजेतेत्यत्र ब्रीहियवयोर्न समुच्चयः। साकाङ्क्षत्वेऽसामर्थ्येन ततस्तृतीयानुपपत्तेः। विभक्त्युत्पत्तौ सत्यां पदसंज्ञेति तृतीयाविधेरपि पदसंज्ञाप्रयोजकतया पदविधित्वेन समर्थपरिभाषाविषयत्वादित्याहुः।
तदसत्। शब्दान्तरान्वयाकाङ्क्षायामेवासामर्थ्यात् अन्यथा समुच्चयाभावेऽप्यवघातादिसाकाङ्क्षत्वेन तृतीयानुत्पत्तिप्रसङ्गात्। नीलं घटमित्यादावपि विभक्त्यनुत्पत्तिप्रसङ्गात्। नीलसाकाङ्क्षतया ऋद्धस्य राजपुरुष इतिबदसामर्थ्यात्। मन्मते तु पदविधित्वविरहान्न परिभाषोपस्थानमिति वैषम्यम्। अत एव सन्सूत्रे उपसर्गार्थाविशिष्टधात्वर्थस्य कर्मत्वमिति पक्षे उपसर्गसाकाङ्क्षत्वेऽपि धातोः सन्प्रत्ययः। पदविधित्वाभावेन समर्थपरिभाषाया अप्रवृत्तेः। महान्तं पुत्रमिच्छतीत्यत्र तु सुबन्तात् क्यज्विधानेन तस्य पदविधित्वान्न दोष इत्युक्तं भाष्ये। त्वद्रीत्या तु सन्प्रत्ययान्तात्तिङुत्पत्तौ पदसंज्ञेति तस्यापि पदविधित्वमस्त्येवेति समर्थपरिभाषोपस्थाने तद्विरोधापत्तिर्दुर्वारा।
एतेन विशेषणत्वस्यान्ययोगव्यावृत्तिं विनाऽसम्भवेन द्रव्यान्तरसापेक्षत्वे विशेषणत्वस्याप्यनुपपत्तौ एकार्थीभावलक्षमसामर्थ्यानुपपत्तेरित्यपि निरस्तम्। अन्ययोगव्यावृत्तावेव विशेषणत्वस्वीकारे दण्डी पुरुष इत्यादेरनुपपत्तेः। स्वायोगव्यावृत्तिमात्रविवक्षायां तु समुच्चयेऽप्यादेरनुपपत्तेः। स्वायोगव्यावृत्तिमात्रविवक्षायां तु समुच्चये।ञप्यदोषात्। अत एव `यदि रथन्तरसामासोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृह्णियात्, यदि बृहत्सामा सुक्राग्रान्, यदि जगत्सामा आग्रयणाग्रान्' इत्यत्र बृहद्रथन्तरसाध्यपृष्ठयोर्ज्योतिष्टोमे विकल्पेऽपि स्वायोगव्यावृत्त्या विशेषणत्वसम्भवादेकार्थीभावलक्षणसामर्थ्पानपायाद्विशिष्टस्य यागस्याग्रतायां निमित्तमिति सिद्धान्तः। व्रीहिभिरित्यादौ तु व्रीहिजन्यत्वयागत्वयोः सामानाधिकरण्यमात्रस्य विधिबोध्यत्वात्। यवजन्यत्वसामानाधिकरण्यस्यापि शास्त्रान्तरेण बोधे उभयत्र विजातीययागत्वमेव जन्यतावच्छेदकं कल्प्यते तृणारणिमणिन्यायात्।
सामार्थ्यं च न परस्परान्वययोग्यार्थकत्वं भार्या राज्ञः, पुरुषो देवदत्तस्येत्यादावतिव्याप्तेः। किन्तु तदर्थान्वितार्थबोधकत्वेन तात्पर्यविषयत्वं। तत्र तु राज्ञो भार्यापदार्थेन सहैवान्वयबोधे तात्पर्यं नतु पुरुषेणेति न दोषः। एतच्च वाक्ये व्यपेक्षासामर्थ्ये च एकार्थोबावपक्षे समुदायस्यैव विशिष्टार्थशक्तिस्वीकारेणैतादृशसामर्थ्याभावात्। तत्र चेत्थमुपपत्तिमाहुः। राजपुरुष इत्यादौ पदद्वयस्य स्बार्थपरत्वे वाक्यवद् वृत्तावपि विशेषणान्वयः स्यात्। एवं पुत्रीयति, कुम्भकार, औपगव इत्यादावपि बोध्यम्। न च सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो नेति वचनान्न तदापत्तिः वचनेन तन्निवारणे गौरवापत्तेः। उक्तरीत्या तु समुदायस्य विसिष्टार्थशक्ततया तदेकदेशे राजदिपदार्थे विशेषणान्वयानुपपत्तेः सिद्धौ उक्तवचनस्य न्यायप्राप्तानुवादकत्वमात्रस्वीकारेण लाघवात्। श्वशुरपदजन्योपस्थितौ पितृविशेषणत्वेनोपस्तितायां भार्यायां सुशीलाया इत्यादिविशेषणानन्वयात्। एवं धवश्च खदिरश्चेत्यादौ इव समासेऽपि चकारप्रयोगापत्तिः। नच मयापि तादृशार्थे निरूढलक्षणास्वीकारान्न तदापत्तिरिति वाच्यम्। शक्तेरेव तावता स्वीकर्तुमुचितत्वात्। समासे चित्रगुरित्यादौ यत्पदप्रयोगापत्तिश्च, प्राप्तोदको ग्राम इत्यादौ कर्तृप्रत्ययान्तप्राप्तपदे कर्तुः प्रत्ययार्थतया प्राधान्यापत्तौ उदककर्तृकप्राप्तिकर्मिभूतो ग्राम इत्यर्थासम्भवश्चेति।
अन्ये त्वाहुः। राजपुरुष इत्यत्र राजपदस्य राजसम्बन्धिनि लक्षणया राज्ञः पदार्थैकदेशतया तत्रापि वेशेषणान्वयस्यापादयितुमशक्यत्वात्। वस्तुतो विशेषणत्वेनोपस्थितस्येतरपदार्थानन्वये निराकाङ्क्षत्वं बीजम्। ततश्च रक्तः पटो भवतीत्यादाविव ऋद्धस्येत्यादिसमभिव्याहारे उत्थाप्याकाङ्क्षयाऽन्वयसम्भवादसाधुत्वज्ञापनार्थं सविशेषणानामिति वचनमावश्यकम्। अतोऽलुक्‌समासस्थलेऽपि न दोषः।
यत्तु नप्ता सुन्दरः, घटो नित्य इत्यादौ विना लक्षणां सुन्दरनित्ययोः पुत्रे घटत्वे चान्वयमादाय साधुतावारणाय पदार्थैकदेशान्वये वाक्यस्यासाधुतायाः सामान्यत एव निर्णयः। किञ्च दृशप्रयोगाद्‌दुर्वारः इति शक्तिस्वीकार इति।
तदसत्। चैत्रस्य नप्तेत्यादेरपि असाधुत्वापत्तेः। बोधस्य भ्रान्त्यापि सम्भवेन शक्तिस्वीकारेण तस्य दुर्वारत्वाच्च।
भेद्यभेदकसम्बन्धोपाधिभेदनियन्त्रितम्।
साधुत्वं तदभावेऽपि बोधो नेह निवार्यते।।
इत्यभ्युपगमात्। नच घटो नित्य इत्यादेर्विनापि लक्षणां घटत्वे नित्यत्वान्यये साधुत्वं स्यादिति वाच्यम्। इष्टापतेः। आकाङ्क्षाविरहादेव तथानवबोधात्। विशेष्यतया पदार्थप्रकारकबोधे विशेष्यतया पदजन्योपस्थितेर्हेतुत्वात्। क्वचित्तु स्वारसिकानुभावबलेनागत्या पदार्थतावच्छेदकेऽप्यन्वयार्थमवच्छेदकतया पदजन्योपस्थितेरपि हेतुन्वकल्पनात्। अत एव घटः कर्मत्वमित्यादौ नासाधुत्वव्यवहारः।
यत्तु शब्दकौस्तुभे ध्रुवमपाये इति सूत्रे उक्तं आनयनयोगाद्धटस्य, कृतियोगादानयनपदस्य च कृद्योगषष्ठीप्रसङ्गसत्वादिदं वाक्यमसाध्वेवेति। तदसत्। घटानयनयोरन्वयस्यात्रानभिमतत्वात्। घटस्य कर्मत्वे तस्य वाऽऽनयनेऽन्वयस्यापाद्यत्वात्। चकारप्रयोगापादानमप्यनर्हम्। समुच्चयविशिष्टघटाधिलक्षणयैवोपपत्तेः। अतिरिक्तशक्तिस्वीकारापेक्षया लक्षणाया एव युक्तत्वात्। यत्पदप्रयोगस्याप्यनापत्तिः। विग्रहे तथात्वेऽपि समासे गोपदस्य चित्रगवीस्वामिलक्षकतया स्वामिप्राधान्यसिद्धौ समासे तत्प्रयोगे प्रयोजनाभावात्। चित्रा गावो यस्येति विग्रहे गवामेव विशेष्यतया समासार्थावबोधकत्वं विग्रहस्य कथं स्यादिति यच्छब्दार्थस्य स्वामिनस्तच्छब्देन विशेष्यतासंपादनार्थमेवोद्देश्यविधेयभावविधया यत्तत्पदयो प्रयोगात्। ननु गोपदस्य गोस्वामिलक्षणायां चित्रापदार्थानन्वयः। गोःपदार्थैकदेशत्वात्। नापि चित्रापदम्य चित्रास्वामिनि सा। गोपदार्थानन्वयादिति चेत्।
अत्र वटेशोपाध्यायाः। वाक्ये एव लक्षणा नच चित्रा गौर्यस्येति विग्रह एव लुप्तस्मृतयत्पदार्थस्तत्रानयनादिक्रियान्वयी तत्र चित्रगोसम्बन्धितपैवोपस्थितेः कर्मत्वान्वयानुपपत्तेः। नच निर्विभक्तिकमेव यत्पदम् विग्रहे। विग्रहवाक्यस्यान्वयाबोधकत्वापातात्। न च चित्रा गौर्यस्य तमानयेति वाक्यार्थः। तताऽननुभवात्। नच यत्तदोर्नित्यसम्बन्धात्तत्पदोपस्थितिः, अध्याहारप्रसङ्गादित्याहुः। अत एव गभीरायां नद्यां घोष इत्यादौ वाक्ये एव लक्षणा। गभीरनद्योः परस्परमन्वयबोदान्तरं वस्तुगत्या गभीरनदीसम्बन्धितीरं तीरत्वेन रूपेण तत्र लक्ष्यते। परस्परान्वयवोधं विना विशिष्टार्थे वाक्यज्ञाप्यत्वाभावेन स्वज्ञाप्यसम्बन्धरूपलक्षणायास्तीरे ज्ञातुमशक्यत्वात्। अत एव सत्यं विज्ञानमानन्दं ब्रह्मेति वाक्ये वस्तुगत्या विशिष्टवाक्यार्थसम्बन्धि शुद्धं ब्रह्म लक्ष्यते इति वेदान्तविदः। एवमर्थवादादिवाक्येऽपि पाशस्त्यादिलक्षणास्तन्त्रान्तरे स्पष्टाः। एवमिहापि चित्रागवोरभेदान्वयबोधोत्तरं स्वज्ञाप्यगोसम्बन्धिनि चित्रगोस्वामित्वरूपेण लक्षणा नतु स्वामित्वेन देवदत्तत्वेन वा। विशिष्टानुभावानुरोधात्। देवदत्तादिपदेनैव तल्लाभाच्चेति बोध्यम्।
मणिकृतस्तु गभीरायां नदीति भागे लक्षणा, नद्यामित्यन्ते वा। नाद्यः। तस्य अप्रकृतित्वेन तदर्थे सुबर्थानन्वयात्। नान्त्यः। अत एव, सुबर्थे सुबर्थानन्वयाच्चेत्याहुः।
अन्ये तु समुदायस्य लक्ष्यार्थवत्त्वेन नामत्वान्नाद्यो दोषः। सुम्मात्रार्थयोरनन्वयेऽपि समुदितवाक्यार्थस्यातथात्वेन न द्वितीयोऽपि नचात्र वाक्यस्यासुबन्तत्वेन लक्ष्यार्थबोधकत्वानुपपत्तिः। अर्थवत्त्वेन तस्य नामत्वेऽपि तीररूपस्य तदर्थस्य नाभेदेन क्रियान्वयोऽयोग्यत्वात्, नापि भेदेन अव्युत्पत्तेरिति वाच्यम्। तीरवृत्तावेव लक्षणास्वीकारेण वाक्यस्य द्वितीयान्तत्वसम्भवेनाभेदान्वयस्य क्रियायां सम्भवात्। गभीरया नद्या वृक्षा जनिता इत्यादौ द्वितीयान्तत्वानुपपत्तावपि नदीत्याद्यन्त एव लक्षणास्वीकारान्नासाधुत्वानवयौ। एषैव रीतिरर्थवादवाक्येऽपि लक्षके बोध्या। तत्रापि हि कियायामेवान्येषामिव वलवहनिष्टाननुबन्धित्वरूपप्राशस्त्यस्यापि प्रथममन्वयः। पश्चादेव धात्वर्थे इत्याहुः।
तत्रदं चिन्त्यम्। तथापि समुदायस्य प्रत्ययत्वमनुपपन्नं यस्मात् प्रत्ययो विहितस्तस्यैव प्रकृतित्वात्। समुदायस्य लक्ष्यार्थवत्तवेऽपि नामत्वमनुपपन्नम्। नदीशब्दस्य प्रत्ययान्तत्वेनाप्रत्यय इति पर्युदासात्। न च प्रत्ययग्रहणे यस्मात्सविहितस्तदादेस्तदनतस्य च ग्रहणमिति परिभाषया नदीशब्दस्यैव तेन पर्युदासो न च लक्षणायाः पदद्वयवृत्तित्वादर्थवत्समुदायत्वं नास्त्येकस्यैव समुदायस्यार्थवत्त्वादिति वाच्यम्। तथापि द्वयोरर्थवत्त्वानपायात्। अन्यथा वाक्यार्थस्य लक्षकत्वपक्षे विशिष्टार्थस्य समुदायप्रतिपाद्यतया वाक्यस्य प्रातिपदिकसंज्ञापत्तेरपरिहार्यत्वात्। अत एव द्योत्यवाच्याभ्यामर्थाभ्यां प्रकृतिप्रत्ययवोरर्थवत्त्वादुक्तनियमेन संज्ञानिषेधः स्यादिति भाष्यादिशङ्का संगच्छते। अन्यथा गभीरायामित्यत्रत्यविभक्तेः प्रातिपदिकावयवतया लोपप्रसङ्गाच्च। एतेन गभीरया नद्येत्यादिकमपि निरस्तम्। अत एव द्वितीयोऽप्यपास्तः। नद्यामित्यत्रापि तत्र विभक्तिलोपप्रसङ्गस्याधिक्यात्। अर्थवत्त्वसत्त्वेन तत्रापि प्रातिपदिकसंज्ञाप्रसक्तेः। तत्र क्रियाविशेषणतया द्वितीयान्तत्वस्वीकारेण भवता नामत्वस्वीकाराच्च। आस्तामप्रकृतमेतत्।
अन्ये तु अस्तु विनिगमनाविरहाद्बहुव्रीहौ पदद्वयेऽपि लक्षणा तथापि न शक्तिकल्पनं गौरवादिति वदन्ति।
नव्यास्तु गोपदे एव विशिष्टार्थलक्षणा। अत एवार्धपिप्पली, उपकुम्भमित्यादौ पूर्वपदार्थप्रधानेऽपि षष्ठीतत्परुषाव्ययीभावादावुत्तरपदस्यैव पिप्पल्यर्धादौ लक्षणा, पूर्वपदं तु तात्पर्यग्राहकं तदर्थस्योत्तरपदलक्ष्यस्य विशेष्यत्वाच्च प्रवादनिर्वाह इत्यास्थीयते। एतेन गोपदस्य गोस्वामिलक्षकतायां एकदेशे गविचित्रान्वयो न स्यादित्यपास्तम्। न च चित्रपदे विशिष्टलक्षणामादाय विनिगमनाविरहः। तस्य गुणवाचकतया तल्लक्षणायाः परम्परासम्बन्धरूपतया गुरुत्वात्। एतेन अषष्ठ्यर्थबहुव्रीह्यन्तर्गतानां प्राप्तादिपदानामपि कर्त्रादिवाचकत्वेन साक्षात्सम्बन्धसत्तवाद्वीनिगमकाभाव इत्यपास्तम्। तथापि तेषां सामान्यरूपेण द्रव्यवाचकत्वम्। उदकादिपदानां तु विशिष्येति सम्भवात्। शूरादिपदानां गुणविशिष्टद्रव्यवाचित्वनियमेऽपि प्रकृते चित्रादिपदानामपि तथात्वेनाविशिष्टत्वात् शूरगुरित्यादावपि विनिगमकस्य सुस्थत्वाच्च। केवलगुणवाचकत्वाभावमात्रस्याकिञ्चित्करत्वात्। उत्तरपदे लक्षणायां प्रत्ययसंनिधानलाभाच्च। नचानेकेषां सुबन्तानामन्यपदार्थपरत्वे बहुब्रीहिविधानादेकमात्रपदस्यान्यपदार्थपरत्वे तदनुपपत्तिरिति वाच्यम्। तात्पर्यग्राहकत्वादिना तदुपयोगस्य मणिकारादिभिरुक्तत्वात्। अन्यथा समासस्यानेकपदत्वाभावातच्छक्तौ तवापि तद्विरोधतादवस्थ्यात्।
यत्तु घटादिपदेऽपि प्रकृतिप्रत्ययविबागसम्भवात्प्रत्ययांशस्य जातिविशेषादौ लक्षणेति कल्पयितुं शक्यतया समुदायशक्तिविलयापत्तिरितिं। तन्न। यौगिकार्ये समुदायशक्तिविलोप आपाद्यते, रूढ्यर्थे वा। नाद्यः। इष्टापत्तेः। नान्त्यः। तत्रावयवार्थसम्बन्दाभावात्। बहुब्रीहेरपि यदि देवदत्तत्वादि शक्यतावच्छेदकं तदैव घटपटादिसाम्यं स्यात्, नत्वेवमस्ति वोधयोर्वै लक्षण्यस्य सर्वसंमतत्वात्। नच चित्रगविस्वामित्वविशिष्टदेवदत्तत्वादिकमेव शक्यतावच्छेदकं देवदत्तादिपदं च तात्पर्यग्राहकमिति वाच्यम्। नानार्थत्वापत्तेः। अन्यपदार्थ इत्यनुशासनविरोधात्। देवदत्तादिपदस्यैव सर्वमर्थो बहुव्रीहिस्तात्पर्यग्राहकइत्यापत्तेश्च। अत एव भाष्यकैयटयोः पदार्थभिधानेऽनुप्रयोगानुपपत्तिरभिहितत्वात्। यता चार्थे द्वन्द्व इत्याभिधानाद् द्वन्द्वे चकारस्याप्रयोगस्तथा देवदत्तपदार्थस्य समासेनाभिहितत्वाद्देवदत्तादिपदप्रयोगो न स्यात्। इति पूर्वपक्षयित्वा नवाऽनभिहितत्वाद्देवदत्तादिवपदप्रयोगो न स्यात्। इति पूर्वपक्षायित्वा नवाऽनभिहितत्वादित्यनेन सामान्यार्थस्य समासेनाभिधानेऽपि विशेषस्यानभिधानात् विशेषप्रतिपत्त्पर्थं देवदत्तादिपदप्रयोग इति सिद्धान्तितम्। तथा च चित्रगवीस्वामित्वप्रकारबोधत्वमेव चित्रगुरिति समुदायशक्तिज्ञानस्य कार्यतावच्छेदकम्। एवं च तार्किकादिनां गोपदलक्षणाज्ञानस्येति विशेषः। अत एव मीमांसावार्तिके।
भवेतां यदि वृक्षस्य वाजिकर्णौ कथंचन।
अक्लृप्तां समुदायस्य शक्तिं को जातु कल्पयेत्।।
इत्युक्तम्। अर्थवदित्यादिसूत्रानुरोधेनाव्युत्पत्तिपक्षस्यावश्याभ्युपेयतया समुदायशक्तिलोपापत्तेरनुचितत्वाच्च। कस्य शब्दस्याव्युत्पन्नत्वमित्यपेक्षायां च यत्रावयवार्थमादाय न तत्पदजन्यबोधोपपत्तिस्तस्येति विनिगमकस्य स्पष्टत्वात्, प्रकृतिभागप्रत्ययभागयोर्घंटते घट इत्यादौ व्यभिचारेण घटत्वप्रकारकघटविशेष्यकबोधानुपपादकत्वात्। एतेन पङ्कजपदमतिबन्दिरपास्ता। तत्र पद्मात्वप्रकारकबोधार्थमेव समुदायशीक्तिस्वीकारात्।
यत्त्वेवमपि तत्र विभक्त्यर्थान्वयानापत्तिः प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः उत्तरपदोत्तरं प्रत्ययविधानाभावेन तदर्थस्य प्रकृत्यर्थत्वाबावादिति तत्तुच्छम्। प्रकृतित्वं हि अङ्गत्वमेव। यस्मात्प्रत्ययीवधिस्तदादिप्रत्ययेऽङ्गमिति वचनात्। तथा च समासोत्तरं विभक्तिविधानात्। एकस्य तात्पर्यग्राहकत्वमपरस्य लक्षकत्वमिति वैषम्यसत्त्वेऽपि लक्ष्यार्थे प्रकृत्यर्थत्वानपायात्। एतेन समासोत्तरं विभक्तिर्न स्यादित्यपि निरस्तम्।
अभ्युपेत्यापि ब्रूमः। समासग्रहणादेव प्रतिपदिकसंज्ञा। नन्वेवं तस्य नियमार्थत्वाभावे कृतद्धितेतिसूत्रेण मूलकेनोपदंशमिति समुदायस्य प्रातिपदिकसंज्ञापत्तिः। कृद्‌ग्रहणे गतिकारकपूर्वस्यापि ग्रहणादिति चेन्मैवम्। अनेन हि किमापाद्यते, समुदायोत्तरं विभक्तिर्वा, समुदायोत्तरम विभक्तिलोपो वा। नाद्यः। इष्टापत्तेः। अव्ययत्वेन लोपस्य सुमलभत्वात्। न द्वितीयः। तृतीयाप्रभृतिन्यन्यतरस्यामिति सूत्रे तृतीयाग्रहणवैयर्थ्यापत्ते। उपदंशस्तृतीयायामित्यस्य णमुल्‌मात्रविषयकत्वेन अमैवाव्ययेनेति सूत्रेणैव समाससिद्धेः। तद्धि पक्षे तृतीयाश्रवणार्थम्। तत्रापि लोपे तु किं विकल्पेन।
वस्तुतस्तु कृद्ग्रहणे गतिकारकपूर्वस्य केवलस्य च ग्रहणम्। अन्यथा कष्टश्रित इत्यादौ द्वितीयाश्रितेति समासो न स्यात्। तथा च केवलस्य कृदन्तस्य कारकपूर्वस्य च प्रातिपदिकसंज्ञाविधानं व्यर्थं स्यात्। इति नात्र तत्परिभाषोपस्थानमिति तत्रैव विपञ्चितमित्यास्तां तावत्। एतेन त्र्यङ्गैः स्विष्टकृतं यजतीत्यत्राङ्गानुवादेन त्रित्वाविधिर्न सम्भवति। समासे एकप्रसरताभङ्गप्रसङ्गात्। एकं हि पदं उद्देश्यकं विधायकं वा युक्तम्। नत्वेकोद्देशेनापरविदानमिति सिद्धान्तविरोध इत्यपास्तम्। उत्तरपदलक्षणायां एकपदार्थत्वस्य सुलभत्वात्।
वस्त बहुव्रीहावेवोत्तरपदे लक्षणा उपकुम्भमर्थापिप्पलीत्यादौ तु पूर्वपदार्थस्य कुम्भसमीपपिप्पल्यर्धादोर्विभक्त्यर्थे प्रातिपदिकान्तरार्थे चान्वयो नानुपपन्नः। तादृशबोधे तादृशसमस्तपदप्रत्ययपदयोरव्यवहितपूर्वापरीभावस्य प्रातिपदिकान्तरार्थाभेदान्वयबोधे समानविभक्तिकयोस्तादृशशसमस्तपदपदान्तरयोः समभिव्याहारस्या पि पृथगाकाङ्क्षात्वकल्पनादित्यभिनबः पन्थाः। समासग्रहणस्य विध्यर्थतया तदुत्तरं विभक्तेः सौलभ्यात्। न च तत्रोद्देश्यविधेयभावेन बोधः स्यादिति वाच्यम्। उद्देश्यविधेयभावावच्छिन्नविषयतया शाब्दे समासानन्तर्गतपदद्वयजन्योपस्तितेर्हेतुत्वकल्पनात्। एतेन राजपुरुषः सुन्दरः, यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृण्हीयात् इत्यादौ च तथान्वयो न स्यादित्यपास्तम्। उद्देश्यविधेययोर्द्वयोः समासानन्तर्गतत्वस्य विवक्षितत्वात्। एतेन वषट्कर्तुः प्रथममक्ष इत्यादिषु वाधशङ्का निरस्ता। शाब्दे पूर्वनिर्दिष्टस्योद्देश्यत्वं चरमनिर्दिष्टस्य विधेयत्वमिति नियमस्य सर्वसंमतत्वाच्च। वृद्धिसूत्रे च दर्शितमेतदित्यास्तां विस्तरः। तस्मादयमत्र भाष्यभिप्रायः। राज्ञः पुरुषः इत्यत्र राजा षष्ठ्यर्थे सम्बन्धे, स चाश्रयत्वेन पुरुषे विशेषणमिति राजसम्बन्धाश्रयः पुरुष इति बोधः। अत्र प्रकृत्यर्थो राजा प्रतियोगित्वसम्बन्धेन षष्ठ्यर्थेऽन्वेति। तथा च प्रतियोगित्वाश्रयत्वयोः संसर्गत्वं, अन्येषां पदार्थत्वमिति विभागः। नचायं बोधो राजसम्बन्धिलक्षणया राजसम्वन्धिप्रकारकाभेदसंसर्गकपुरुषविशेष्यकबोधस्वीकारे समासादुपपादयितुं शक्यः। तथा च राजनिष्ठप्रकारतानिरूपितप्रतियोगित्वनिष्ठसांसर्गिकविषयतानिरूपितसम्बन्धनिष्ठविशेष्यताख्यप्रकारतानिरूपिताश्रयत्वनिष्ठसांसर्गिकविषयतानिरूपितपुरुषनिष्ठविसेष्यताशालिज्ञानत्वं राजपुरुषपदशक्तिज्ञानकार्यतावच्छेदकं कल्प्यते। न च तादृशार्थे समुदायलक्षणयैव तदुपपत्तिरिति वाच्यम्। उभयोस्तुल्यकक्षतया बोधकत्वेऽनादिप्रयोगे च समाने वृत्तेर्लक्षणात्वमेवेति दुराग्रहमात्रपर्यवसानात्।
नचैवं प्राप्तोदकादिबहुव्रीहौ विग्रहसमानाकारकबोधस्य केनाप्यनङ्गीकारात् तत्र शक्तिर्न स्यादिति वाच्यम्। तथापि एकत्र क्लृप्ताया तत्रापि तत्कल्पने बाधकाभावाच्च। नच वाक्ये संख्याया अपि राजादिविशेषणत्वेन भानात्कथं समानाकारकत्वमिति वाच्यम्। यावत्यंशे सम्भवस्तावतोऽपि त्यागानौचित्यात्। नचैकत्वविशिष्टराजसम्बन्धाश्रयेत्यादिकमेव शक्यतावच्छेदकं कल्प्यतामिति वाच्यम्। तथानुभवाभावात्। वृत्तावभेदैकत्वमंख्यैव भासते इति सिद्धान्तात्। संख्याविशेषाणामविभागेनावस्थआनं अभेदैकत्वसंख्या। तदुक्तं वाक्यपदीये-
यथौषधिरसाः सर्वे मधुन्याहितशक्तः।
अविभागेन वर्तन्ते तां संख्यां तादृसीं विदुः।।
यद्वा परिक्तविशेषं संख्यासामान्यमभेदैकत्वसंख्येति कैयटः। तदुक्तम्-
भेदानां वा परित्यागात्संख्यासा स तथाविधः।
व्यापाराज्जातिभागस्य भेदापोहेन वर्तते।।
अगृहीतविशेषेम यथा रूपेण रूपवान्।
प्रख्यायते न शुक्लादिरूपभेदस्तु गम्यते।।
इदं च मतभेदप्रदर्शनमात्रम्। संख्यासामान्ये मानाभावात्। ध्वनितं चेदं अव्ययानां लिङ्गसामान्ययोगं दूषयता कैयटेनेति बोध्यम्। द्विपुत्र इत्यादौ शब्दविशेषोपादानात्संख्याविसेंषमत्ययः। तावकीनो मामकीन इत्यादावादेशविशेषात्। शौर्पिकमित्यत्र प्रातिपदिकेन विशिष्टस्यैव परिमाणस्योपादानात्। मासजात् इत्यादौ विशिष्टकालावगमे तात्पर्यात्। एवमन्यदप्यनुमन्धेयम्। न च प्रथमोपस्तितत्वात्कपिञ्जलन्यायेन राजपुरुष इत्यादौ राजादीनामेकत्वप्रत्ययोऽस्तु इति वाच्यम्। तद्वदत्र संख्योपस्थापकपदाभावात्। नचैवं संखअयासामान्यमपि न प्रतीयेत इति वाच्यम्। संख्याविशेषानवच्छिन्न एव राजादिपदार्थो भासते इत्यस्य विविक्षितत्वात्। एतेन राज्ञो राज्ञोर्वेत्यादेर्जिज्ञासानुरोधात्संख्यात्वमामान्यप्रतीतिः कल्प्येति निरस्तम्। मानसादिसंख्यात्वज्ञानादेव तदुपपत्तेः। तस्य संख्यासंशयहेतुत्वे मानाभावाच्च। अतो विभक्तिलोपादिविधानं प्रक्रियामात्रम्। राजपुरुषादिपदमखण्डमेव। पददव्यप्रत्यभिज्ञा तु सादृश्यमूलिका भ्रान्तिरिति निष्कर्षः।
स्यादेतत्। कर्मधारये नीलोत्पलमित्यादौ नीलस्याभेदसंसर्गेणोत्पलपदार्थेऽन्वय इति दर्शनान्तराणां रीतिः। विशिष्ट एव शक्तिरिति वैयाकरणाः। एवं सति निषादस्थपतिं याजयेदित्यत्र षष्ठीसमासे पूर्वपदस्य सम्बन्धिनि लक्षणा, कर्मधारये त्वभेदः संसर्ग एवेति लाघवात्कर्मधारय एव। अपूर्वविद्याकल्पन प्रयुक्तगौरवं तु फलमुखत्वा--- इति सिद्धान्त इष्टः। स वैयाकरणमते न स्यात्। तैः षष्ठीसमासेऽपि विशिष्टशक्तिस्वीकारेण लक्षणाप्रयुक्तगौरवाभावात्। अत्राहुः।
पर्यवस्यच्छाब्दबोधाविदूरप्राक्क्षणस्थिते।
शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम्।।
अयमर्थः। निषादस्थपदिपदं समासशाक्तिपक्षे निषादरूपे स्थपतौ, निषादानां स्थपतौ, निषादस्वामिके पुरुषान्तरे चेति सर्वशक्तत्वान्नानार्थम्। तत्र तात्पर्याद्विशेषावगतिरिति निषादरूपे स्थपतावेव तात्पर्यं कल्प्यते। उपस्थित्पादिलाघवादिति।
अयमर्थः। निषादस्थपतिपदं समासशक्तिपक्षे निषादरूपे स्थपतौ, निषादानां स्थपतौ, निषादस्वामिके पुरुषान्तरे चेति सर्वशक्तत्वान्नानार्थम्। तत्र तात्पर्याद्विशेषावगतिरिति निषादरूपे स्थपतावेव तात्पर्यं कल्प्यते। उपस्थित्यादिलाघवादिति।
स्यादेतत् उक्तलाघवं विग्रहे विवक्षितं समासे वा। नाद्यः। तत्राभेदस्य विशेषणविभक्त्यर्थतया षष्ठीसमासविग्रहापेक्षया लाघवाभावात्। नच वाक्येऽप्यभेदः संसर्ग इति वाच्यम्। तत्र विभक्तेः प्रयोगसाधुत्वमात्रापेक्षयाऽर्थसाधुत्वस्याभ्यर्हितत्वेन तस्या अभेदार्थकताया एव न्याय्यत्वात्। अत एव वाक्ये अभेदस्य प्रकारत्वेन, समासे संसर्गत्वेन भानात्कथं तयोरेकार्थत्वमित्याशङ्क्य समानविषयकत्वमात्रेण समानार्थकत्वं नतु विशेषणसाम्येनापीति स्पष्टं शब्दालोकादौ। एवं च भेदाभावरूपाभेदस्य विग्रहे प्रकारत्वेन भानात्कर्मधारयविग्रहस्यैव गुरुत्वाद्विपरीतापत्तिः। न द्वितीयः। विग्रहसमानार्थकत्वानुरोधेन कर्मधारस्यापि निषेदाभेदप्रकारकविशेषणताविशेषसंसर्गकस्थपतिविशेष्यकज्ञानजनकताया वाच्यत्वात्। तत्र च निषादसंबन्धिप्रकारकाभेदसंसर्गकस्थपति विशेष्यकधीजनकतत्पुरुषापेक्षया गौरवाभावादिति।
अत्रोच्यते। वाक्ये विभक्त्यर्थाभेदं वदद्भिरपि यथा समासेऽभेदः संसर्ग एवेत्युच्यते उक्तं हि मिश्रैः-नचैवं कर्मधारयेऽपि विभक्त्यर्थेऽभेदे लक्षणा? मन्तव्येति निषादस्तपत्यधिकरणविरोधः। कर्मधारयेऽबेदस्य सेसर्गमर्यादया भानाभ्युपगमादिति। तथाऽत्रापि निषादप्रकारकाभेदसंसर्गकस्थपतिविशेष्यकज्ञानजनकत्वमेव कर्मधारयस्य स्वीक्रियते तथाच षष्ठीसमासे पूर्वपदार्थनिष्ठप्रकारतायां कर्मधारये च पूर्वपदार्थनिष्ठप्रकारतायां अभेदस्य संसर्गतया प्रवेशेन तत्र सम्बन्धिनोऽधिकस्य शक्यतावच्छेदककोटावनुप्रवेशा त्तद्गौरवं दुर्वारम्। अत एव लक्षणाया अविशेषेऽपि मत्वर्थलक्षणापेक्षया गौणी दुर्बलेति तद्व्यपदेशाधिकरणे निर्णितम्। तथाच।
पराभीष्टे विशिष्टार्थे समासे शक्तियोगतः।
सम्भवे सति धर्मस्य लघोरेव पुरस्क्रिया।। 1 ।।
इति तिष्ठतु विस्तरः।
अथ कयं देवदत्तस्य गुरुकुलमित्यादिकमिति चेत्।
अत्राहुः। सम्बन्धिशब्दस्थले सापेक्षत्वेऽपि भवत्येव वृत्तिः।
तदुक्तं वाक्यपदीये-
सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते।
वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते।। इति।
तथा-तस्मात्समाससुब्धातुकृत्तद्धितविशेषणे।
न विशेषेम सम्बन्धः सापेक्षे तु भवेदयम्।।
यद्वा स्वाश्रयसम्बन्धित्वसम्बन्धेन षष्ठ्यर्थस्य सम्बन्धस्य कुल एवान्यः। तदुक्तम्-
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवाँस्ते तु युज्यन्ते तद्वता सह।। 1 ।।
इति। चैत्रस्य नप्तेत्यादावपि षष्ठ्यर्थस्य स्वाश्रयजन्यत्वसम्बन्धेन धर्मिण्यन्वय इति शब्दालोके। क्वचित्तु सापेक्षत्वेऽपि स सम्बान्धकभिन्नस्थलेऽपि वृत्तिर्भाष्यप्रामाण्यात्। तथाहि-किमोदनः शालीनां, केषां शालीनामित्यर्थः। रक्तश्वेतभेदेन शालिद्वैविध्यात्। सक्त्वाढकमापणीयानां आपणसम्बन्धिनां सक्तूनामाढकमित्यर्थः। कुतो भवान् पाटलिपुत्रकः। पाटलिपुत्रादागतः पाटलिपुत्रकः। रोपधेतोः प्राचामिति वुन्। द्वे पाटलिपुत्रे, कस्मात् पाटलिपुत्राद्भवानागतः इत्यर्थः। अकिञ्चिकुर्वाणादयस्तु असमर्थसमासा असाधवश्चेति स्थितम्। तत्सिद्धं एकार्थीभावसामर्थ्ये समासादय इति। वक्ष्यमाणविभाषायां च सामर्थ्यं विशेषणं, न तु समासे। गुणः कृतात्मसंस्कार इति न्यायात्। तथा च विकल्पेनैकार्थीभूतं सत्समस्यते इत्यादिस्तत्र तत्र वाक्यार्थः। नत्वेकस्मिन्नेव विषये विकल्पेन समास इत्यर्थोऽसम्भवात्। व्यपेक्षायां वाक्यमेव। एकार्थीभावे तु समास एवेति यावत्। यद्यप्यलौकिके प्रक्रियावाक्ये सामर्थ्यं नास्ति तस्य शाब्दबोधाजनकत्वात् तथापि परिनिष्ठिते विशेषणसम्ब्दाद्यभावनदर्शनात् शत्रादौ द्वितीयादिसामानाधिकरण्यदर्शनेन लकारे तत्कल्पनवत्। एवं चित्रगुपदस्यान्यपदार्थपरत्वादलौकिकेऽपि तत्परत्वं कल्प्यते। अन्यपदार्थ इत्यादिसौत्रानुवादेनैव देवताविग्रहवत्तत्सिद्धेश्चेत्याहुः।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य प्रथमे पादे प्रथममाह्निकम्।।