श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः १/आह्निकम् ३
← आह्निकम् २ | श्रीसिद्धान्तसुधानिधिः आह्निकम् ३ [[लेखकः :|]] |
तद्धितार्थोत्तरपदसमाहारेच ।। 51 ।।
तद्धितार्थे बिषय उत्तरपदे च परे समाहारे च वाच्ये दिक् संख्ये समानाधिकरणेन समस्येते। एवं च विषयभेदात्सप्तम्यर्तभेदो बोध्यः। पूर्वस्यां शालायां भवः पौर्वशालः। तद्धितविवक्षायां तदुत्पत्तेः पूर्वमेव पूर्वशालाशब्दयोः समासः। ततो दिक्पूर्वपदादसंज्ञायामितिञ आपरशाल इति। एवम् उत्तरपदे पूर्वशालाप्रियः उभत्रापि प्रतिपदोक्तत्वासर्वनाम्न इति पुंवद्भावः पूर्वयोस्तत्पुरुषः! तेन समासान्तोदात्तस्वरेण लशब्दाकार उदात्तः पूर्वभागे तत्पुरुषाभावे तु पूर्वंपदप्रकृतिस्वरेण पूर्वपदस्याद्युदात्तत्वं स्यात्। दिक्षु समाहारो नास्त्यनभिधानात्। दिक्शब्दस्योदाहरणद्वयमेव। संख्यायाः क्रमेणोदाहरणत्रयम् यथा-षण्णांमातॄणामपत्यं षाम्मातुरः। पाञ्चनापितिः। अनपत्य इति पर्युदासान्न लुक्। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः। संस्कृतं भक्षाइत्यण् द्विगोर्लुगनपत्त्ये इति लुक्। पञ्च गावो धनं यस्य स पञ्चगवधनः पूर्ववत्समासः तेन गोरतद्धितलुपकीति टच्।
न च महाविभाषया तत्पुरुषस्य वैकल्पिकत्वात्पक्षे पञ्चगोधन इति स्यादिति वाच्यम् `द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमास वचन'मिति वार्त्तिकारम्भात्। अत एव वाक च त्वक् प्रिये यस्य स वाकत्वचप्रियः। छत्रोपानहप्रियइति त्रिपदवहुत्रीहौ द्वन्द्वाच्युदषहान्तादिति नित्यः समासान्तः। इदं च तत्पुरुषांशे न्यायसिद्धम् बहुव्रीहावन्तर्मूतस्य पूर्वयदद्वयस्यैकार्थीभावसत्त्वेन तत्पुरुषस्य दुर्वारत्वात्। महाविभाषाया हि सत्येकार्थीभाव समासस्य दुर्वारत्वात्। समुदायस्यैकार्थीभावे तदवयवयोस्तदभावस्य व्याहतत्वात्। तथा च विकल्पे प्राप्ते नित्यत्वविधानमिति प्राचां ग्रन्था असङ्गता एवेति केचित्। तच्चिन्त्यम् त्रयाणां समासे कृतेऽन्यपदार्थोपसंक्रमेण परस्परसंबन्धाभावात् द्वन्द्वतत्पुरुषयोरप्राप्तौ वचनमिति तदुक्तेरेवासङ्गतत्वात्।
एकार्थिभावसामर्थ्ये बहुव्रीहिरिति तदवयवयोः पूर्वशालाशब्दयोरप्येकार्थीभाव इत्युक्तोर्हि कोऽभिप्रायः पदद्वयस्यैकार्थीभावो वा! पदद्वयस्यापि वा नाद्यः अन्यपदार्थापेक्षया पदत्रयस्यैकार्थीभावे विवादाभावात्। तेन च पूर्वपदद्वयस्य तत्पुरुषो नित्य इति दुर्घटत्वात्। नान्त्तयः। परस्परसबन्धाभावादित्यस्यानुपपत्तेः तदेकार्थीभावस्य वैकल्पिकतया पाक्षिकतत्पुरुषाभावस्य दुर्वारत्वात्।
ननु यत्र वृत्तयभावे वाक्यप्रयोगस्तत्र महाविभाषाप्रवृतिः। इह तु पदत्रयस्य बहुत्रीहौ तद्धटकपदद्वयस्य प्रयोगानुपपत्त्या तत्पुरुषसंज्ञाया अर्थान्नित्यत्वसिद्धिः। अत एव वाक्येन संज्ञानवगमाद्विभाषाधिकारीयस्यापि संज्ञायामित्यादिना विहितस्य समासस्य नित्यत्वं स्वीक्रियते इतिचेत्। सत्यम् इदं तावदत्र भवान् व्याचष्टां किमयं समासः सामर्थ्येऽसामर्थ्ये वा। नाद्यः। परस्परसंबन्धाभावादिति भवदुक्तिब्याघातात्। नान्त्यः सुसूक्ष्मजटकेशे नेत्यादौ अनेकपदे वहुत्रीहौ विशेषणं विशेष्येणेति समासप्रसक्तेर्वहुलवचनात्तत्परिहारस्य च समर्थसूत्रीये भाष्यकैयटग्रन्थे प्रसिद्धत्वात्। सामर्थ्याभावे विशेषणसमासप्रसक्तेः शङ्कितुमप्यशक्यत्वात्। एवं अधिकपष्ठिवर्ष इत्यत्र तद्धितार्थेति तत्पुरुषं बाधित्वा परत्वात् संख्ययाव्ययेति बहुव्रीहिप्रसङ्गस्य तत्र शङ्कितत्वाच्च। तद्धितार्थेति तत्पुरुषस्य वचनसामर्थ्यादुत्तरपदे परतः प्रवृत्तावपि संख्येयत्पादिबहुव्रीहेः प्रवृत्तौ वीजाभावात् द्वित्रा इत्यादौ तस्य चरितार्थत्वात्।
वृत्यभावे यत्र वाक्यमित्यस्य तु कोऽर्थः। त्रिपदबहुव्रीह्यबावपक्षे वा पूर्भागे तत्पुरुषाभावे वा? नाद्यः। पूर्वशालाप्रिया यस्येति वाक्यस्येष्टत्वात् नान्त्यः पूर्वशालेत्यस्यापीष्टत्वात् वृत्त्यन्तर्गतयोरेव पृथक् प्रयोगो यत्रेतिचेन्न अप्रसिद्धेः। राज्ञ पुरुषइत्यादावपि तदभावात्! वृत्तिवेशिष्टयोः क्वापि वाक्यानन्वयात् वृत्त्युपलक्षितयोस्तत्रापि पार्थक्येन प्रयोगसत्त्वात्। राजपुरुषमानयेत्यादौ वृत्तिवाक्ययोरवान्तरार्थभेदेऽपि प्रधानार्थभेदाभावात्। वृत्त्या वाक्यस्य बोधो माभूतइत्येतदर्थमेव महाविभाषाधिकारः। वृत्तिवाक्ययोः स्वभावादेव व्यवस्थेति सिद्धान्तः।
तथा च भाष्पम् ``इह द्वौ पक्षो वृत्तिश्चावृत्तिश्च, स्वभावतश्च तद्भवति। वाक्यं च वृत्तिश्च तत्र स्वाभाविके वृत्तिविषये नित्यप्रत्यये प्राप्ते वावचनेन किमन्यच्छक्यमभिसम्बन्धुमन्यदतः संज्ञायाः। नच संज्ञाया भावाभावविष्येतेइत्यादि। एकार्थीबावसत्त्वे वृत्तेरावश्यकतया तद्विकल्पस्य बिधातुमशक्यत्वात्संज्ञाविकल्प एव स्यात्। ततश्च तन्निवन्धनकार्यविकल्पापत्तिरित्यस्यार्थः। यदि त्वत्र सामर्थ्यं विनैव वचनसामर्थ्यात्तत्पुरुषस्तदा तद्विकल्पस्य विधातुं शक्यत्वात्प्रकृते एतद्भाष्योपन्यासस्यानवकाशात्।
मीमांसकास्तु `पृष्ठस्य युपगद्विधेरेकाहवद्द्विसामत्व'मितिदाशमिकाधिकरणे `पृष्ठ्यः वडहो बृहद्रथन्तरसामा कार्य'इत्यत्र पूर्वभागे द्वन्द्वगर्भो बहुव्रीहिरुक्तवार्त्तिकादिति पूर्वपक्षयित्वा वार्त्तिकस्य यत्र पूर्वपदे समासान्तप्राप्तिस्तन्मात्रविषयत्वादत्र केवलात्रिपदबहुव्रीहेरतः प्रत्यहं बृहद्रथन्तरयोर्मध्ये यत्किञ्चित्साम नतु द्वयमिति सिद्धान्तयांचक्रुः। तन्न स्वरे विशेषस्य स्पष्टतया समासान्तपर्यन्तमाग्रहे वीजाभावादिति दीक्षिताः।
नचैवं समासद्वयापत्तिरिति वाच्यम्। षडहोपक्षयैव समुच्चयस्य गम्यमानन्वेन प्रत्यहं तदनापत्तेरिति तत्पूर्वपक्ष एवोक्तत्वात्।
वस्तुतस्तु भाष्ये समासान्तप्रयुक्तानामेव त्रयाणामुदाहनत्वात् कैयटेनापि समासान्तप्रयोजक्वाभावाप्रतियोगित्वेनैव तत्र द्वन्द्वतत्पुरुषयोरुक्तत्वात्तन्मात्रविषयकत्वमेव युक्तम्। अत एव कैयटेन जातिरप्राणिनामिति चात्र द्वन्द्वः। इतरेतरयोगद्वन्द्व तु कार्येणैव भेदः स्यादित्युक्तम्, अन्यथेतरयोगेऽपि स्वरे विशेषः स्यादेवेतितद्ग्रन्थस्यासङ्गतत्वापत्तेरिति विभावनीयम्। समाहारे पञ्चमूली पञ्चकुमारी पञ्चानां मूलानां कुमारीणां च समाहार इति विग्रहः। न तु पञ्चमूला समाहृता इति उत्तरपदार्थप्राधान्येन।
न च कर्मसाधनसमाहाराश्रयणे तदपि सम्यगेवेति वाच्यम्। पञ्चकुमारीत्यत्र उपसर्जनह्रस्वानापत्तेः। समासशास्त्रे प्रथमानिर्दिष्टत्वाभावात् नानाविभक्तिसंबन्धेन नियतविभक्तिकत्वाभावादेकविभक्ति चेत्यनेनापि उपसर्जनसंज्ञानुपपत्तेः।
न च नपुंसकह्रस्वेन निर्वाहः। पञ्चखट्वीत्यस्य तथाप्यसिद्धेः। वा टावन्त इति स्त्रीलिङ्गत्वपक्षे हीदंरूपम्। तत्र च ह्रस्वाभावे द्विगोरत इति ङीप् न स्यात्। सिद्धान्ते तु नानाविभक्तियोगस्य समासार्थसमाहारनिष्ठतया कुमारीपदस्य नित्यं षष्ठयन्तत्वादेकविभक्तिचेति उपसर्जनत्वं सिद्धम्।
न चैकविभक्तावषष्ठ्यन्तवचनमिति वक्ष्यमामत्वादर्थपिप्यल्पादिवदत्र न तत्प्रवृत्तरिति वाच्यम् तस्यैकदेशिसमासमात्रपरत्वात्, अत्र च भावसाधनसमाहारशप्दस्थापनपरभाष्यस्यैव प्रमाणत्वात्। एवं द्विगुरेकवचनमित्यस्यारम्भादपि गौरवम्। भावपरत्वे तु समाहारस्यैकत्वादेव तत्सिद्धेर्न तदावश्यकमिति लाघवम्।।
न चैवं पञ्चमूलीमानयेत्यादौ द्रव्यस्यानयनाद्यन्वयानुपपत्तिः,आक्षेपण तत्संभवात् जातेः पदार्थत्वपक्षे गामानयेत्यादिवत्। द्विगुरेकवचनमित्यस्य तु स नपुंसकमिति वक्षअयामित्यारम्भो बोध्यः। स्थादेतत्-ममाहारसमूहपदयोरेकार्थकत्वात्समूहस्यापि तद्धितार्थत्वात् तद्धितार्थेत्यनेनैव सिद्धे समाहारग्रहणं व्यर्थम् न चैव तद्धितश्रवणापत्तिः। द्विगोर्लुगिति लुक्संभवात्।
नन्वेवं पञ्चमूलीत्यत्रापरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि इति ङीप्प्रतिषेध स्यात्पञ्चभिरश्वैः क्रीता पञ्चाश्वेत्यादिवत्, पञ्चगवं इत्यत्र गोरतद्वितलुकीति पर्युदासाच्च ट्च न स्यादिति वाच्यम्। उभयत्रापि न तद्धितलुक्यतद्धितलुकीति अंशमपहाय समाहार इति पठित्वा तस्य च नियमार्थत्वमाश्रित्य सर्वनिर्वाहात्। ममाहार एव तद्धितलुकि डीप्समासान्तौ भवतोनान्यत्रेति। तेन पञ्चानामश्वानां समाहारः पञ्चाश्वी पञ्चगवम नेह पञ्चाश्वा पञ्चभिर्गोभिः क्रीतः पञ्चगुः। तदेतदुक्तं वार्त्तिककृता समाहारसमूहयोरविशेषात्समाहारग्रहणमनर्थकम् तद्धितार्थकृतत्वादिति। अविशेषादर्थभेदाभावात् शब्दस्वरुपपरतया नैकशेषः।
अत्र भाष्यम् एवं सति पञ्चकुमारि इत्यत्र लुक्तद्धितलुकीति स्त्रीप्रत्यक्लुगापत्तिः। तस्मात पृथक्समाहारग्रहणात्समासस्यैवं समाहारो वाच्यो न तद्धितस्येति व्याख्यानान्न तद्धितापत्तिः। अत एव तद्धितार्थ इत्यत्र विषयसप्तमी व्याख्याता, एवं च पाञ्चनापितारित्यादौ तद्धितोत्पत्तिः। समासेनैव तद्दितार्थोक्तौ तु उक्तार्थत्वात्स न स्यात्। तथा च द्विगोर्लुगिति लुगप्यसंगतः स्यात्तद्वलादेव तद्धितोत्पतिव्याख्याने तु गौरवमित्यलं बहुना।
उत्तरपदेन परिमाणिना द्विगोः समासवचनम्। द्वौ मासौ जतस्य द्विमासजातः त्रिमासजातः। अत्र हि कालाः परिमाणिनेति त्रिपदसमास इष्यते सुप्सुपेत्येकत्वविवक्षया च न प्राप्नोति इति वार्तिकारम्भः। तत्रैकत्वविवक्षायां चेदमेव लिङ्गम्। तत्र कृते जातशब्दे उत्तरपदे द्विमासशब्दयोस्तद्धितार्थेत्यादिनोत्तरपदनिमित्तको द्विगुः क्रियते। कालान्ते द्विगौ पूर्वपदे प्रकृतिस्वरोयथा स्यात्। द्व्यह्नजात इति च समासान्तः।
न च द्वौ मासौ द्विमासं, समाहारद्विगौ पात्रादित्वान्न स्त्रीत्वम्, तज्जातस्येति समास इति वाच्यम्। सगासान्तोदात्तत्वेन तकाराकारस्योदात्तत्वप्रसङ्गात्। सर्वत्र मत्वर्थे प्रतिषेध इति वाच्यम्। पञ्च खट्वा अस्या विद्यन्ते इति विग्रहे हि तद्धितार्थेति तस्पुरुष एव स्यान्न बहुव्रीहिः। मत्वर्थे बहुव्रीहिविधानात् तस्य च तद्धितार्थत्वात्।
न च बहुव्रीहिविधानसामर्थ्यम्। चित्रगुरित्यादौ सावकाशत्वात्। न च तत्रेष्टापत्तिः। आवन्तत्वेन द्विगोरिति ङीपस्तदभावपक्षे च नपुंसकत्वप्रसङ्गात्। एवं पञ्चगुरित्यत्र टच् स्यात्। न च द्विगोर्लुगिति निर्वाहः। प्राग्दीव्यतेः इत्यधिकारात् मतुपश्च तद्बहिर्भावात्। तथा च मतुब्लोपार्थं वचनमारम्भणीयमित्येव दोषः। अतद्धितलुकीत्यत एव ङीप्समासान्तयोर्निषेधसिद्धेः भाष्यमते तु त्रिकतः शेषस्य वक्ष्यमाणतया परत्वाद्बहुब्रीहिरिति दिक्।
संख्यापूर्वो द्विगुः ।। 51 ।।
तद्धितार्थ इत्यत्र विहितः संख्यापूर्वस्तत्पुरुषो द्विगुसंज्ञः स्यात्। तेन पञ्चकपाल इत्यत्र द्विगोरिति व्याख्यातोऽस्य लुक्। पञ्चनावप्रिय इत्यत्र नावो द्विगोरिति टच् समाहारे पञ्चमूलीत्यत्र द्विगोरिति ङीप्, अव्यवहितर्पूसूत्रस्यैव ग्रहणादेकभिक्षेत्यत्र तदभावः।
न चैवमेकशाटीत्यत्र द्विगोरिति ङीप् न स्यात् इति वाच्यम्। ङीवन्तशाटीशब्देनैव तत्र समासात् शाटकेत्यत्र कप्रत्ययप्रकृतिभूतशाटशब्दाज्जातिलक्षणो ङीष्। न चैकापूपीति न स्यादिति वाच्यम्। समाहारेत्यत एव सिद्धेः। अनेकविषयकस्य दानस्य संभ्रमस्य वा महत्त्वाद्वा श्रद्धातिशयाद्वा कार्यरामादिना वा एकस्मिन्नपि संभवात् तस्यैव समाहारपदार्थत्वात्। न चैवं पञ्चहोतारो दशहोतार इत्यत्र इगन्ते द्विगाविति पूर्वपदप्रकृतिस्वरोन स्यादिति वाच्यम्। आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानेन तत्संभवात्। अत एव सप्तर्षय इत्यत्र पूर्वपदप्रकृतिस्वरो न भवती, किन्त्वन्तोदात्तत्वमेव। सप्तर्षयस्तपसे ये निषेदुरिति तद्दशर्नात्।
कुत्सितानि कुत्सनैः ।। 52 ।।
गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात्कुत्स अवेक्षण इत्यस्माद्वर्तमाने क्तः बहुवचनप्रयोगाच्छब्दस्वरूपपरत्वनिरासः। कुत्स्यामानवाचीनि कुत्साप्रतिपादकशब्दैः सह समस्यन्ते। शब्दप्रवृत्तिनिमित्तकुत्सायामेवायम् विशेष्यस्य पूर्वानिपातार्थ चेदम् वैयाकरणखमूचिः। मूचयतेरिच्चेतीकारप्रत्ययः। प्रतिवादिना पृष्टो यस्तत्प्रसङ्गाविच्छेदाय अहो निर्मलं गगनमित्यादि कथयति, गगनं प्रपश्यति वा स एवमुच्यते तद्विचारासमर्थत्वे तात्पर्यम्। नात्र य्याकरणाध्ययनस्य कुत्सा किन्तु प्रतिभानहीनतायाः। न च तस्याः शब्दप्रवृत्तिनिमित्तत्वं नेतिवाच्यम् प्रतिभानविशेषानुपपादकत्वनैवाध्ययनस्य कुत्सनोपपत्तेः। याज्ञिककितवः प्रायेण द्रव्यार्थित्वात् किं तवास्तीते पृच्छन् द्यूतकारः कितवशब्दार्थः किं तवास्तीति शब्दानुकृतिनिरुक्तदर्सनात्। अत एव सभामेति कितवः पृच्छमान इति श्रुतिरिति दीक्षिताः। एवं याज्ञिकोऽपि दक्षिणामात्रपरत्वादयाज्यमपि यो याजयति स उच्यते। मीमांसकदुर्दुरूठः। दुल उत्क्षेपे। दुर्पूरे औणादिकः कूटप्रत्ययः। बहुलमन्यत्रापीति णिलोपः। रलयोरेक्यम् `कस्यां चिद्वाचि कैश्चिद्यदि मम निहितं दूषणम् किम्। वैयाकरणो दरिद्रः। नात्राध्ययनं कुत्स्यते किन्तु धर्मी। दीरिद्र्यादि च तन्निमित्तम्।
पापाणके कुत्सितैः ।। 53 ।।
एते कुत्सितैः समस्यन्ते। पूर्वनिपातवैपरित्यार्थंमेतत्। पापनापितः। अणककुलालः। कुत्सित इत्यर्थः।
उपमानानि सामान्यवचनैः ।। 54 ।।
यन्निमित्तकं द्वयोः सादृश्यं तद्धर्मवाचिना सह सादृश्यप्रतियोगिवाचिनः शब्दाः समस्यन्ते। घन इव श्यामो घनश्यामः। अत्नोपमेयविशेषणत्वेन यद्यपि श्यामत्वमुपात्तम्। तथापि घनस्य श्यामत्वमर्थगम्यम्। अत एव धर्मविशिष्टद्रव्यवाचकस्योपादानार्थं वचनपदोपादानम्। अत्र घनपदं घनसदृशे लाक्षणिकम्। भूतपूर्वगत्या तु उपमानत्वम् अत एव मृगीव चपलेत्यत्र पुंवत्कर्मधारयेति सामानाधिकरण्यनिमित्तकः पुंवद्भाव इति वदन्ति।
वस्तुतस्तु लक्षणायामपि तत्प्रयुक्तसामानाधिकरण्येन पुंवद्भावे शास्त्रीश्यामेत्यत्रापि स स्यात्। जातेश्चेति निषेधस्याप्युभयत्र साम्यात्। अत एव कैयटेन मृगक्षीरादिवत्स्त्रीत्वाविवक्षयैव पुंवद्भावस्यान्यथा सिद्धिरित्युक्तम्। अरविन्दसुन्दरं मुखमित्यत्रारविन्दपरस्यारविन्दनिरूपितसादृश्यप्रयोजके लक्षणा। तस्पाभेदसंसर्गेण सुंदरपदार्थैकदशे सौन्दर्येऽन्वयः। तथा चारविन्दनिरूपितसादृश्यप्रयोजकसौन्दर्यवदभिन्नं मुखमिति धीरिति केचित्। अरविन्दपदस्यैव लक्षणया सर्वोर्थः सुन्दरपदं तात्पर्यग्रहकमित्यन्ये। समुदायस्यैव तादृशविशिष्टार्थपरत्वमित्यन्ये। अत्र सर्वत्रापि समासगतवाचकलुप्तोपमानत्वं आलङ्कारिकसिद्धान्तसिद्धं न स्यादित्यलंकारकौस्तुभे निरुपितमस्माभिः।
उपमितं व्याघ्रादिभिः सामन्याप्रयोगे ।। 55 ।।
उपमेयं व्याघ्रादिभिरुपमानैः सह समस्यते सादृश्यप्रयोजकसामान्यधर्मस्य यदि प्रयोगो न स्यात्। विशेष्यस्य पूर्वनिपातार्थंसूत्रम्। पुरुषो व्याघ्र इव पुरुषव्याघ्रः। व्याघ्रप्रतियोगिकसादृश्यवान् पुरुष इत्यर्थः। अत एवोपमितसमासे पूर्वपदार्थस्य प्राधान्यम् मुखं चन्द्र इति रूपकसमासे तूत्तरपदार्थस्येत्यालङ्कारिकसंप्रदायः। सामान्येति किम् पुरुषोऽयं व्याघ्र इव शूरः।
अथ कथं भाष्याब्धिः क्वातिगम्भीर इति। न चायं मयूरव्यंसकादिसमास एवेति वाच्यम्। प्रकृतभाष्यप्राधान्यभङ्गपत्तेरिति चेत् अत्राहुः। गाभीर्यप्रयुक्तं साम्यमिह न विवक्षितम् किन्तु विततदुखगाहित्वादिप्रयुक्तमेव। तस्य चाप्रयोगात्समासः सुलभ इति। न च सामान्यधर्मसामान्याभाव एव समासविधानमिति वाच्यम्। साम्यप्रयोजकत्वेनाभिमतो यो धर्मस्तदप्रयोग एव तद्विधानात्। न चात्र मानाभाव इति वाच्यम्। सामान्यमात्रामप्रयोगस्य वाधितत्वेन विवक्षितो यो धर्मस्तदप्रयोग इति सूत्रार्थपर्यवसानात्।
विशेषणं विशेष्येण बहुलम् ।। 56 ।।
विशेषणं समानाधिकरणेन विशेष्येण समस्यते। नीलमुत्पलं नीलोत्पलम्। विशेषणं च प्रकारमात्रं न तु व्यावर्तकमेवेत्याग्रहः। प्रमेयवह्निरित्यादिप्रयोगात्। अत एव विशेषणविशेष्यतावच्छेदकयोरन्यतरस्यान्यतरव्यभिचारित्वेऽयं समासो न तु परस्परव्यभिचारित्वानियमः। नीलोत्पलमित्यादौ तथात्वेऽपि उक्तस्थले तदभावाच्। एवं विशेषणतावच्चेदकस्य विशेष्यतावच्छेदकव्यभिचारेऽयं समास इत्यपि न नियमः।
अत एव कैलासाद्रितटीषुघूर्जदिजटालङ्कारचन्द्राङ्कुरेति मुरारिः। स्वच्छन्दमिन्दुमपि सुन्दरि भन्दराद्रिरिति श्रीहर्षः। यस्तर्कतन्त्रशतपत्रसहस्ररश्मिरिति वर्धमानः। शब्दशास्त्रसहकारपादपादिति हरदत्तः। अत्र विशेष्यत्वविशेषणत्वयोः ससम्बन्धिकतयाऽन्यतरस्याक्षेपलभ्यत्वेऽप्युभयोपादानं स्षष्टार्थमितिकैयटः। न च प्रथमानिर्दिष्टत्वेन उपसर्जनसंज्ञासिद्ध्यर्थं विशेषणमित्यस्य पूर्वनिपातनियमार्थमावश्यकतया विशेष्यपदोपादानमेव तथेति वाच्यम्। सुबित्यनुवृत्त्यैव तत्सिद्धेः। अयं च विशेषः। विशेषणविशेष्यभावे कामचारो यत्रोभौ गुणशब्दौ वा क्रियाशब्दौ वा गुणक्रियाशब्दौ वा तद्विषयः। द्रव्यशब्दस्य तु गुणक्रियाशब्दौ प्रति विशेष्यत्वमेव। विशेष्यग्रहणेन प्रसिद्ध्यनुरोधलाभात्। तेन खञ्जकाणः काणखञ्जः पाठकपाचकः पाचककपाठकः खञ्जपाठकः। पाठककाणः इत्यादावेवोभयथा पूर्वनिपातः। कृष्णतिला नीलोत्पलं पाचकब्रह्मण इत्यादौ तु द्रव्यस्यैव विशेष्यत्वमिति नियमः। गुणस्य द्रव्यपरिच्छेदद्वारेकक्रियान्वयित्वेन तदपेक्षया वाक्यार्थे द्रव्यस्य प्राधान्यात्।
अत एव श्वेतं छागभालभेतेति चोदनायां विशिष्टालाभे गुणान्तरावच्छिन्नच्छाग एवालभ्यते। न तु श्वेतावच्छिन्नद्रव्यान्तरमिति भाष्यकाराः। एवमुत्पलनीलामिति भवत्येवेति प्रलयितं निर्मूलात्वादुपेक्ष्यम्। विशेषणविशेष्यभवि इच्छाया एव नियामकत्वेऽपि भाष्यकारेण तादृशसमासस्यासाधुत्वोक्तेः। न्यासकारादिभिः साक्षादेवोक्तत्वाच्च। लीलावत्युपायव्याख्यातारोऽप्येवमेवेति दिक्।
बहुलग्रहणं किम्। तक्षकः सर्पः। रामो जामदग्न्यः। अर्जुनः कार्तिवीर्य इत्यादौ माभूत्। कृष्णसर्पः लोहितशालिरित्यादौ च नित्यं स्यात् कार्तवीर्यार्जुन इत्यादौ तु भवत्येव समासः। प्रयोगदर्शनात्। एवं सामान्यविशेषभावस्थले सामान्यस्य विशेष्यत्वं विशेषस्य विशेषणत्वामेतिं तद्व्यवस्था। सामान्यस्य निर्विशेष न सामान्यमिति न्यायेन विशेषाकाङ्क्षायास्त्रावश्यकत्वात्।
पूर्वापरप्रथमचरमजधनयसमानमध्यमध्यमवीराश्च ।। 57 ।।
एते सुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते। गुणक्रियाशब्दैः सह समासेऽपि पूर्वादीनां पूर्वनिपातनियमार्थं सूत्रम्। पूर्ववैयाकरणः। अपराध्यापकः इत्यादि। यद्यपि दृप्तः सराजन्यकमेकवीर इत्यत्र पूर्वकालैकेति बाधित्वा परत्वादस्यैव प्रवृत्त्या वीरैक इति युक्तम्। तथापि पूर्वविप्रतिषेधो बोध्य इति केचित्। बाहुलकात्तदित्यन्ये।।
श्रेण्यादय कृतादिभिः ।। 59 ।।
श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्। अश्रेणयः श्रेणयः कृताः श्रेणीकृताः। च्व्यन्तस्य तु गतित्वात्कुगतीति नित्यसमासः। श्रेणीकृता इति। एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः श्रेमिः। सिद्धानामेव श्रेणीनां न समासः गुणान्तराधाने तु यदा पृथक्स्थितानां श्रेणीकरणं तदा समासः। `वणिक्पथे पूगकूतानि यत्र'इति माघः। श्रेणी एक पूग कुन्द राशि विशिष्ट निचय निधन इन्द्रदेव मुण्ड भूत श्रवण वदान्य अध्यापक अभिरूपक ब्राह्मण क्षत्रिय पटु पण्डित कुशल चपल निपुण कपण इति श्रेण्यादिः। कृतादिस्त्वाकृतिगणः।
क्तेन नञ्विशिष्टंनानञ् ।। 60 ।।
नञ्मात्राधिकेन क्तान्तेन सहानञ्युक्तं क्तान्तं समस्यते कृतं च तदकृतं च कृताकृतम्। एकस्यैव वस्तुन एकदेशावच्छेदेन कृताकृत्वोक्तिः। पीतापीतम्। उदितानुदितम्। इत्यादि। अत्रानञ् इत्यत्र बहुव्रीहिः। विशेषेयाकाङ्क्षायां तृतीयान्तपदोपस्थाप्यं क्तान्तमेव विशेषणानुरोधात् प्रथमान्तत्वेनसम्बध्यते।
अत्र वार्तिकम्-`अवधारणं नञा चेत् नुडिड्विशिष्टैन न कल्प्येत'। `अथ चेदधिकविवक्षा कार्यं तुल्यप्रकृतिकेनेति'। अस्यार्थः-विशिष्टशब्दः समयोः सम्प्रधारणविवक्षायां अवधारणविशिष्टे आधिक्ये वर्तते, स्वरूपवर्णनमात्रविवक्षायां तु आधिक्यमात्रे। देवदत्तयज्ञदत्तावाढ्यौ अभिरूपौ देवदत्तस्तु यज्ञदत्तात्स्वाध्यायेन विशिष्ट इत्युक्ते स्वाध्यायेनैवाधिक्यम्। गुणान्तराणां तु साम्यं कदाचित्प्रतीयते। कदाचित्तु स्वाध्यायाधिक्यमात्रं गम्यते। गुणान्तराणां त्वविवक्षेत्यनुभवात्।
अत्र च नञ्विशिष्टेति नञ्मात्राधिक्यविवक्ष्यां यथा प्रकृत्यन्तरे न भवति सिद्धं चाभुक्तं चेति। तथा नुडिड्भ्यां विशिष्टेऽपि न स्यात्। क्लिष्टाक्लिशितम्। उदितानुदितमित्यादौ। अथाऽऽधिक्यमात्नं तदर्थो न तु विशेषान्तरव्यावृत्तिः। तदा यथा नुडिडाधिक्ये भवति तथा प्रकृत्यन्तरेऽपि स्यात् सिद्धं चाभुक्तं चेति। ततश्च समानप्रकृतिकेनेति कर्तव्यम्। अतः अर्थान्तरानापादकविकाराधिक्ये भवत्येव। प्रकृत्यन्तरादौ तु न भवति। छातांछावम्। शाछोरन्यतरस्यामित्यात्वम्। त्राणात्रातमित्यादौ त्वसिद्धत्वान्नत्वस्य भेदकत्वाभावः। कृतप्रतिकृतादीनामुपसंख्यानम्। कृतापकृतम्। मुक्तविमुक्तम्। पीतविपीतम्। गतप्रत्यागतम्। भावे क्तः। गमनोत्तरल्पकालीनप्रत्यागमनेन सहचाराद्गतप्रत्यागते। एवं यातानुयातम्। क्रयाक्रयिका। अल्पार्थें कप्रत्ययान्तः स्वभावातस्त्री। अन्येषामपीति दीर्घः। द्वितीयस्याल्पपरत्वात्प्रथमक्रयपदस्यार्थान्महाक्रयपरत्वम्। एवं पुटापुटिका। फलाफलिका। मानोन्मानिकेति। शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्। शाकप्रियः पार्थिवः शाकपार्थिवः। आकृतिगणोऽयम्।।
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।। 61 ।।
एते प्रशस्यैः समस्यन्ते। गुणक्रियाशब्दैः समासे सदादिशब्दानां पूर्वनिपातनियमार्थ आरम्भः। सत्पाठकः। महाराजः। यत्तु पुरुषोत्तम इत्यत्र उत्तमश्चासौ पुरुषश्चेति समासे विशेषणत्वादुत्तमशब्दस्य पूर्वनिपातापत्तिरित्युपायग्रन्थमुपादाय कामचारात्पुरुषशब्दस्य पूर्वनिपातसमर्थनाय प्रवर्तन्ते। तदुपेक्ष्यम्। एतद्विरोधात्। पूजेति किम्। उत्कृष्टो गौः। पङ्कादुद्धृत इत्यर्थः। महोदधिरित्यादौ `विशेषण'मिति समासः। महापापमित्यादौ तु पूज्यमानत्वादनैनैव। उत्तरपदवाच्यतावच्छेदकसमानाधिकरणोत्कर्षस्य प्रशंसार्थत्वात्। स च पापान्तरापेक्षयाऽदिकदुःखजनकत्वमेवेति बोध्यम्।
वृन्दारकनागकुञ्जरैः पूज्यमानम् ।। 62 ।।
व्याघ्रादेराकृतिगणत्वेन, सिद्धे पूज्यमानमेवेति नियमार्थमेतदित्येके। सामान्यप्रयोगेऽपि विध्यर्थमित्यन्ये। वस्तुतः सादृश्ये गम्ये तत्। इदं तु प्राशस्त्यमात्रे गम्ये। गोवृन्दारक इत्यादेः प्राशस्त्यप्रकारकबोधोदयात्। उत्तरपदार्थप्रतियोगिकसादृश्यप्रकारकपूर्वपदार्थविशेष्यकबोधानुदयात्। पूज्यमानमित्यस्य पूजायां गम्यायां समास इत्यर्थः।
कतरकतमौ जातिपरिप्रश्ने ।। 63 ।।
एतौ समर्थेन समस्येते। कतरकठः। कतमकलापः। `गोत्रं च चरणै सहे'ति पारिभाषिकं जातित्वम्। यद्यपि `वा बहूनां जातिपरिप्रश्ने. डतमजि'ति व्युत्पन्नकतमशब्दस्य तन्मात्रविषयत्वात् साहचर्येण कतरशब्दस्यापि तद्विषयकस्य ग्रहणं सिद्धम्। तथापि जातिप्रश्नोपादानं कतमशब्दस्यान्यत्रापि साधुत्वज्ञापनार्थम्। अत एव भवतो भवतां वा कतरः कतमो वा देवदत्तः इति प्रत्युदाहरन्ति।
किं क्षेपे ।। 64 ।।
किंराजा। यो न रक्षति। किमः क्षेपे' इति समासान्तनिषेधः। क्षेपे किम्। को राजा प्रश्नोऽयम्।
पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयिणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ।। 65 ।।
पोटा स्त्रीपूंसलक्षणेत्यमरः। शास्त्रीत्वीवशिष्टे नपुंसकेऽस्य शक्तिरिति केचित्। स्तनश्मश्वादियुक्ता स्त्री तथेत्यमर्याख्यातारः। गृष्टिरेकवारप्रसूता गौः। धेनुरचिरप्रसूता। वशा वन्ध्या। वेहद्गर्भघ्नी। वष्कयिणी तरुमवत्सा। इभपोटा इभयुवतिः। अग्निस्तोकः। उदश्वित्कतिषयम्। गोगृष्टिरित्यादि। `हयद्विषदूष्कयिणीपयः सुत'मिति श्रीहर्षः। कठप्रवक्तेत्यादि। न च कठधूर्त इत्यत्र `कुत्सितानि कुत्सनै'रित्यनेन गतार्थत्वम्। प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः। अत्र तु धर्मिणः कुत्स्यमानत्वात्। धूर्तबकोबालमत्स्यानामिति तु प्रमाद इत्याहुः। त्रैविद्यतपस्विनोऽपि धूर्तबका एवेति चेदिति कुसुमाञ्जलिप्रयोगे तु बकशब्दस्य तत्सदृशलक्षणायां निर्धारणसप्तम्या समासो बोध्यः।
प्रशंसावचनैश्च ।। 66 ।।
वचनग्रहणं यौगिकानां प्रशस्तादीनां विशेषार्थकानां च शुचिप्रभृतीनां स्वार्थभिन्ने प्रयोगात्प्रशंसागमकानां व्याघ्रादिपदानां स्वार्थभिन्ने प्रयोगात्प्रशंसागमकानां व्याघ्रादिपदानां च निरासेन प्रशेसामात्ररूढशब्दपरिग्रहार्थम्। मतल्लिकामचर्चिका प्रकाण्डमुद्धतल्लजौ। प्रशस्तवाचकान्यमूनीत्यमरः। एते च नियतलिङ्गाः। अरिर्मधौरैक्षत गोमतल्लिकामिति माघः। एवं गोमचर्चिकेत्यादि। प्रशस्ता गौरित्यर्थः। मतल्लिका प्रशस्ता स्युः प्रकाण्डस्थलमित्तय इति गणरत्नमहोदधिकारोक्तेः `तस्यैकनागस्य कपोलभित्त्यो'रिति भित्तिशब्दः प्रशंसार्थ इति रघुव्याख्यातारः। प्रशंसावचनपोटायुवतीत्येकयोगसम्भवाद्योगद्वयफलं चिन्त्यमिति केचित्।
युवा खलतिपलितवलिनजरतीभिः ।। 67 ।।
जरद्भिरिति पाठान्तरम्। आद्यपाठे युवशब्दस्य भिन्नलिङ्गत्वाज्जरतीशब्दसामानाधिकरण्यानुपपत्त्या प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति परिभाषा युवतिशब्दस्य स्त्रीलिङ्गान्तत्वोपपादकत्वेन ज्ञाप्यते। नचैवमपि अर्थभेदात्सामानाधिकरण्यस्यारोपेणैव वाच्यत्वात्पूर्वमेव तदस्त्विति वाच्यम्। सर्वत्र तदनौचित्येन लक्ष्यानुरोधेन च परिभाषाज्ञापनस्य युक्तत्वात्। श्रमणादिषु स्त्रीलिङ्गानामेव बहूनां पाठात् `कुमारः श्रमणादिभि'रित्यस्य वा ज्ञापकत्वात्। नच तत्राक्षेपसम्भवात्को विशेष इति वाच्यम्। अश्वादिभ्यः फञ्विधौ `पुंसि जात'इति गणसूत्रे पुंसीत्युक्तेरेव ज्ञापकत्वसम्भवात्। अन्यथा पुल्लिङ्गजातशब्दनिर्द्देशे लिङ्गान्तरविशिष्टस्य ग्रहणानुपपत्त्यैव तद्वैयर्थ्यात्। वस्तुत एकादेशस्य पूर्वान्तत्वेन ग्रहणात् पुंसीत्यस्य तद्व्यावर्तकतया सार्थक्यात्पूर्वोक्तमेव युक्तमित्याहुः।
कृत्यतुल्याख्या अजात्या ।। 68 ।।
कृत्यप्रत्ययान्तास्तुल्यार्थाश्चाजात्यर्थेन समस्यन्ते। भोज्योष्णम्। भोज्यलवणम्। तुल्यश्वेतः। सदृशश्वेतः। अजात्येति किम्। भोज्य ओदनः। न च विशेषणसमासः। प्रतिषेधसामर्थ्यात्। `तस्य सत्कृत्यशालिन' इति भट्टिप्रयोगे सन्महदित्यस्मात्परत्वादेतत् प्राप्तावपि षष्ठीसमास इत्याहुः।
वर्णो वर्णेन ।। 69 ।।
रूपविशेषवाचकशब्दस्तादृसेन समस्यते। कृष्णसारङ्गः। चित्रस्य कृष्णासम्भिन्नस्यापि सम्भवात्कृष्णेति। अव्याप्यवृत्तिनानारूपसमाहारश्चित्रमिति पक्षे कृष्णस्यापि तत्र सत्त्वात्। चित्रस्यातिरिक्तत्वमते तु अवयवनिष्ठकृष्णत्वेनैव तत्प्रतीत्युपपत्त्या तत्र लक्षणा।
नन्विह तत्कृत्वादेव सिद्धम्। एवं `वर्णो वर्णेष्विति पूर्वपदप्रकृतिस्वरोऽपि न विधेयः। `तत्परुषे तुल्यार्थतृतीये'त्यनेनैव सिद्धेः। मैवम्। शुकबभ्रुः कृष्णशुक्ल इत्यादौ तदभावात्। अत एव स्वरसूत्रमपि उभाभ्यां वाच्यम्। कृष्णसारङ्ग इत्यत्र तत्पुरुषेतुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरवारणार्थम्। तथा च स्वरसूत्रे वर्णोऽनेते इत्येवास्तु। नचैवं तृतीया तत्कृतेनेति यत्र तृतीयान्तस्य वर्णेन सामास्तत्रापि स्यादिति वाच्यम्। प्रतिपदोक्तवर्णसमासस्यैव ग्रहणात्।
केचित्तु विशेषणसमासेनैवोपपत्त्या इदं सूत्रं मास्तु। स्वरसूत्रं यथाश्रुतमेवास्त्वित्याहुः। `मत्वर्थीयचिकीर्षायां न कर्मधारय'इति वक्तव्यम्। तेन वीरपुरुषवान् ग्राम इत्यादि न स्यात्। किन्तु प्रथमत एव सम्बन्धविवक्षायां वीरपुरुष इति बहुव्रीहिरेव। न्यायलभ्यं चैतदिति भाष्यम्। कर्मधारयोत्तरं हि मतवर्थीये क्रियमाणे वर्तिपदार्थप्राधान्यमाश्रित्य कर्मधारयः। ततस्तत्पदार्थानामन्यत्र गुणभावमाश्रित्य मत्वर्थीय इति प्रतिपत्तिगौरवम्। पूर्वमेवान्यपदार्थविवक्षायां तु वर्तिपदार्थानां प्रथमतो गुणभाव एवाश्रीययते इति स्वपदार्थप्राधान्याश्रयणाल्लाघवमिति कैयटः।
केचित्तु बहुव्रीहौ समस्यमानपदद्वयेनैवान्यपदार्थबुद्धिः, कर्मधारये तु मत्वर्थीयसापेक्षेणैवेति शब्दे लाघवम्। विशेष्यस्य पृथक् प्रयोगस्तूभयत्रापि तुल्यः। नचैवं वृक्षवनस्येत्यादावतिप्रसङ्गः। प्रयोगदर्शनात्प्रकृतविषय एव यथोक्तलाघवस्यानादरणादित्याहुः। नचैवं कृष्मसर्पवान् वल्मीकः लाहितशालिमान् ग्राम इत्यादिकं न स्यादिति वाच्यम्। जातिविशेषस्य कर्मधारयमात्रगम्यत्वात्। सर्वशब्दम्य त्वकारान्तैः कर्मधारय इष्टः। तस्माच्च ठनं बाधित्वा इनिरेवेति वक्तव्यम्। सर्वधनी सर्वबीजी सर्वकेशी।
कुमारः श्रमणादिभिः ।। 70 ।।
अत्र स्त्रीलिङ्गान्त्वेन पठितैः श्रमणादिभिः सह कुमारीशब्दस्य समासः। पुंल्लिङ्गैरध्यापकादिभिस्तूभयथापि। प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात्। कुमारी श्रमणा-कुपार श्रमणा। श्रमणा, प्रब्रजिता, कुलटा, गर्भिणी, तापसी दासी, बन्धकी, अध्यापक, अभिरूपक, पण्डित, पटु, कुशल, चपल; निपुण। उक्तपरिभाषा चानित्या। शक्तिलाङ्गलोपसंख्याने घटीशब्दस्य घटशब्दात्पृथगुपादानसामर्थ्यात्। तेन महतीप्रिय इत्यत्र `आन्महत'इत्यात्वम्, द्विषतीताप इत्यत्र `द्विषत्परयोस्तापेरिति खच् च न भवति। एवं मद्रराज्ञीत्यत्र टजपीत्यवधेयम्।
चतुष्पादो गर्भिण्या ।। 71 ।।
मण्डूकप्लुत्या जातिपदस्यानुवृत्तिरिति केचित्। शब्दान्तरसमभिव्याहारव्यतिरेकेणैव तद्बोधनसमर्था अन्तरङ्गत्वाद् गृह्यन्ते। न तु कालक्ष्पादयः तेषां यौगिकानां शब्दान्तरसंनिधानादेव बोधकत्बादित्यन्ये। चतुष्पाद्वृत्तिजातिवाची सुबन्तो गर्भिणीशब्देन समस्यते। `गोगर्भिणीप्रियनवोलपमालभारि'ति भव भूतिः। `इह महिषविषाणव्यस्तपाषाणपीठस्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्या'इतिमुरारिः। जातिः किम्। कालाक्षीगर्भिणी। कालाक्षीपदस्य आधुनिकसंकेतेनैव गबि वृत्तेः। चतुष्पात् किम्। ब्राह्मणी गर्भिणी।
मयूरव्यंसकादयश्च ।। 72 ।।
एते समुदाया निपात्यन्ते। मयूरश्चामौ व्यंसकश्चेति मयूरव्यंसकः। व्यंसको धूर्तः। एवं मुण्डपर्यन्तानामिति केचित्।
अन्ये तु मयूर इव व्यंसकः। छात्र इव व्यंसकः। काम्बोज इव मुण्डाःइत्युपमितसमासापवादोऽयं समासः। न च वैयर्थ्यम्। `तत्पुरुषे तुल्यार्थतृतीयो'ति पूर्वपदप्रकृतिस्वरवाधनार्थत्वात्। प्रतिपदोक्तोपमानशब्दगर्भितसमासस्यैव तत्र ग्रहणादित्याहुः। छन्दसि पादगृह्य हस्तगृह्य लङ्गूलगृह्य पुनर्दाय `यत्प्राक्षिणः पितरं पादगृह्यः'। अग्निर्होता हस्तागृह्या निनाय। तृतीयमुदाहार्यम्। पुनर्दाय ब्रह्मजायाम्। `पुनश्चनसौछन्दसी'ति गतिसंज्ञा तु वार्तिकोक्ता।
एहिडादयोऽन्यपदार्थे एहीड इति यस्मिन् कर्मणि तदेहीडम्। एहियवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा, अपोहिवाणिजा। प्रेहिवाणिजा। एहि स्वागतमिति यस्यां सा एहिस्वागता। प्रोह करटमिति यस्यां सा प्रोहकरटा। प्रोह्वकटा प्रोहकर्दमा। निपातनात्परस्मैपदम्। उद्धरचूडा। आहरबाला। आहरवसना। आहरवनिता। कृन्तविचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। कृन्धिविचक्षणोति पाठान्तरम्। पात्रादुद्धर उत्सृज देहीति यस्यां उद्धरोत्सृजा। असातत्यार्थं वचनम्। उद्धमविधमा। उत्पचनिपचा। उत्पतनिपता। अन्यपदार्थस्य क्रियायाः स्त्रीत्वाट्टाप्। उदक्च अवाक्च उच्चावचम्। उच्चैश् नीचैश्च उच्चनीचम्। आचितञ्चोपचितञ्च आचोपचम्। आचप्रचम्। निश्चतञ्च प्रचितं च निश्चप्रचम्। न विद्यते किञ्चन यस्य सोऽकिञ्चनः। यत्किञ्चनः। स्नात्वाकालकः। समासान्तोदात्तत्वम्. ल्यबभावश्च निपातनात्। अन्तर्भूतक्रियापेक्षं समानकर्तृत्वम्। संपन्न इति प्रतीतेः। पीत्वास्थिरकः। भुक्त्वासुहितः। प्रोष्यपापीयान्। `राघवः प्रोष्य पापीयान् जहीहि तमकिञ्चन्' मिति भट्टिः। उत्पत्यपाकला। उत्पतनं कृत्वा या पाण्डुर्भवति। हस्तिज्वरः पाकलः। तद्विशेषः कूटपाकलः। `कलभं कठोर इवकूटपाकल'इति भवभूतिः। गजं बातात्मको हन्यात्तथा वै कूटपाकल इति गजशास्त्रमिति तव्द्याख्यातारः। निपत्यरोहिणी निपद्यश्यामा अपेहिप्रणसा।
जहि कर्मणा बहुलमाभीक्ष्णे कर्तारं चाभिदधाति। जहीति लोण्मध्वमैकवचनान्तम्। तदाभीक्ष्ण्ये गम्ये कर्मणा सह समस्यते बहुलम्। समासेन कर्तारे च गम्यमाने। जहिजोड इति आभीक्ष्ण्येन य आह स जहिजोडः। जहिस्तम्बः उज्जहिस्तम्बः।
आख्यातमाख्यातेन क्रियासातत्ये आश्रीतपिबतेति यत्र सततमभिधीयते साऽश्रीतपिबता। `अश्रीतपिबतीयन्ती प्रसिता स्मरकर्मणी'ति भट्टिः। पचतभृज्जता ख्यादतमोदता। आहर निवपा। आहरनिः कषा उत्पचनिपचा। भिन्धि लवणमिति यस्यांभिन्धिलवणा। पचलवणा। आकृतिगणोऽयम्। अन्येऽप्यभियुक्तव्यवहारद्बोध्याः। कुतोऽपि यस्य भयं नास्ति मोऽकुतोभयः। कां दिशे गच्छमीति य आह स कान्दिशीकः। पाठसामर्थ्यादीकण्। द्वितीयायाअलुक् च। कान्दिशीको भयद्रुत इत्यमरः। अहोऽहंपुरुष इत्यहंकारवानहोपुरुषस्तस्यभाव आहोपुरुषिका मनोज्ञादित्वाद्भावे वुञ् इति कैयटः। कमलकुशलावधाने भानोरहोपुरुषव्रतमिति श्रीहर्षः। अहं शक्तोऽहं शक्त इति यस्यां साऽहमहमिका। यदृच्छ यदृच्छा। एहि रे याहि रे यस्यां सा एहिरेयाहिरा। पाठादात्बम्। उन्मृड्रिढ अवमृड्रिढ इति यस्यांसा उन्मृजाऽवमृजा। इहेवानयोः साधुत्वम्। अवश्यकार्यम्। अन्यद्वनं वनान्तरम्। अन्तरशब्दो भिन्नार्थः। सचाभेदेन वने विशेषणम्। प्रतियोगित्वमपि पूर्वपदार्थस्यैव भेदे प्रतीयते। वनान्तरं गच्छतीत्यादौ अस्माद्वानाद्भिन्नं वनं गच्छतीति बोधात्। `वनान्तरादुपावृत्तैरि, त्यादौ दर्शनाच्च। तस्मादन्तरशद्बो भिन्नार्थः। वनपदस्य वादरद्वयमन्वयः। तब्द्यक्तित्वावच्छिन्नप्रतियोगितासम्बन्धेन भेदे प्रकारत्वम्। विशेषणतावच्छिन्नभेदप्रकारतानिरूप्यविशेष्यत्वं चेत्यवधेयम्। एवं प्रातिपदिकार्थ एव प्रतिपदिकार्थमात्रम्। मुखमेव चन्द्रो मुखचन्द्रः। रूपकस्थले मयूख्यंसकादित्वात्समास इति आलङ्कारिकाः। अत्र मुखप्रतियोगिकाभेदवातन् चन्द्र इति बोध इति केचित्। मुखनिष्ठाभेदप्रतीयोगी चन्द्र इत्यन्ये। एतद्विवेचनं त्वलङ्कारकौस्तुभे स्पष्टम्।
इति श्रीसिद्धान्तसुधानिधौ द्वितीयस्याध्यायस्थ प्रथमे पादे तृतीयमह्निकम्। पादश्च समाप्तः।