वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/भावप्रत्ययार्थनिर्णयः
← निपातार्थनिर्णयः | वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः) भावप्रत्ययार्थनिर्णयः [[लेखकः :|]] |
देवताप्रत्ययार्थनिर्णयः → |
।। अथ भावप्रत्ययार्थनिर्णयः ।।
नामार्थनिरूपणप्रसङ्गेन नामान्तःपातिकृत्तद्धितार्थं निरूपयिष्यन्नादौ भावप्रत्ययार्थकथनमित्याह-भावप्रत्ययेति। त्वतलादिप्रत्ययार्थमित्यर्थः। कृत्तिद्धितसमासेभ्य इति। कृदन्तात्तद्धितान्तात्समासाच्च परः क्रियमाणो भावार्थकः प्रत्ययस्त्वतलादिः संबन्धमभिदधाति। कृष्णसर्पत्वं, गौरखरत्वमित्यादौ जातिविशेषपुरस्कारेणैव बोधानुभवादाह-अन्यत्रेत्यादि। रूढेः, अभिन्नरूपात्, अव्यभिचरितसंबन्धेऽभ्यश्चान्यत्र-रूढ्यादिशब्दान् वर्जयित्वा संबन्ध एव भावप्रत्यय इत्यर्थः। रूढ्यादीनां मध्ये रूढौ जातिविशेषपुरुस्कारेणैव बोध इत्युक्तम्। अभिन्नरूपं यथा-शुक्ल इत्यादा तदस्यास्त्यस्मिन्निति मतुरो `गुणवचनेभ्यो मतृपो लुगिष्टः' इति वचनेन लुप्तत्वात्तद्धितान्तत्वेऽपि घटः शुक्लः-घटाभिन्नः शुक्लरूपवान्, इति प्रतीत्या गुणगुणिनोर्भेदसंबन्धस्य न्यग्भावात् शुक्लत्वमित्यादौ गुणस्यैव प्रकारत्वं न संबन्धस्येति। अत्र गुणवाचकस्य गुणिवाचकस्य च शुक्लशब्दस्य रूपमभिन्नम्। अव्यभिचरितसंबन्धं यथा-सतो भावः सत्ता, अत्र जातादेव भावप्रत्ययः। सत्सत्तयोः संबन्धः कदापि न व्यभिचरति, सत उत्पत्तिप्रभृतिःआ विनाशात् संबन्धस्य विद्यमानत्वादव्यभिचरितसंबन्धमिति भावः। इत्येवं कृत्तद्धितसमासेति वचनस्यार्थः। इदं च वचनं वार्तिककारीयमित्येवं मीमांसकानां भ्रमं निराकुर्वन्नाह-टीकायामिति। तदर्थमाह-भर्तृहरिणेत्यादि। इवं च हरिवचने वार्तिकत्वभ्रमो मीमांसकानामिति भावः। भावप्रत्ययमात्रेति। मात्रशब्दः कृत्स्नार्थकः। भावविहितयावत्तद्धितप्रत्ययेत्यर्थः। तेन ष्यञ्वुञादेः प्रत्ययस्यापि संबन्धरूपभावबोधकत्वात्तत्संग्रहः सिध्यति। हरिवाक्यार्थपाह-अयमर्थ इत्यादिना। अयमिति। वक्ष्यमाण इत्यर्थः। अर्थ इति। तात्पर्यर्थ इत्यर्थः। राजपुरुषः, औपगवः, पाचकः, इत्यादौ यद्यपि केवलः संबन्धा नाभिधेयस्तथापि समासादौ शक्तिः कल्प्यमाना विग्रहवाक्यप्रविष्टषष्ठ्याद्यर्थान्तर्मावेणव कल्प्यते। अत एव वृत्तिविग्रहयोः समानार्थत्वप्रवादः संगच्छते। राजादिसंबन्धेति। राजादिनिरूपितसंबन्धवति पुरुषादौ राजपुरुषादिसमासस्य शक्तिरित्यर्थः। इत्युक्तमिति। समासे खलु भिन्नैव शक्तिरिति समासशक्तिनिरूपणावसर इत्यर्थः। तथा चेति। राजादिसंबन्धविशिष्टे समासशक्तिकल्पनप्रकारेण चेत्यर्थः। तदुत्तरभावप्रत्यय इति। राजपुरुषत्वं, औपगवत्वं, पक्तृत्वं' इत्यादौ स्वस्वामिभावः, अपत्यापत्यवत्संबन्धः(जन्यजनकभावः)क्रियाकारकसंबन्ध इति बोधादेतेभ्यः परो भावप्रत्ययस्त्वादिः संबन्धं वदति बोधयतीत्यर्थः। उत्तरपदार्थे पूर्वपदार्थसंबन्दस्यैव प्रकारत्वेन भानादिति भावः। एतदपीति। भावप्रत्ययस्य त्वादेः संबन्धबोधकत्वमपीत्यर्थः। `भेदेः संसर्ग उभयं चेति वाच्यव्यवस्तितेः'(कारिका 30)इत्युक्तभेदपक्षे न संभवतीति। तत्पक्षे राजपुरुषादिसमासजन्यबोधे संबन्धस्य प्रकारतयाऽभानाद् राजपुरुषत्वमित्यत्र त्वप्रत्ययस्य भेद एवार्थः। भेदपक्षे राजपुरुष इत्यत्राराजकीयभिन्नः पुरुष इति बोधादुत्तरपदार्थे पुरुषे भेदस्य प्रकारतया भासमानात्वादिति भावः। एवं चेति। पक्षभेदेन समासादिवृत्तौ संसर्गस्य वाच्यत्वे चेत्यर्थः। स्वस्वामिभावसंबन्ध इति। संसर्गपक्षे राजपुरुष इत्यादौ राजादिनिष्ठस्वामितानिरूपितस्वतावान् पुरुष इति बोधादिति भावः। उपग्वपत्यसंबन्ध इति। उपगुतदपत्ययोर्जन्यजनकभावात्मकः संबन्ध इत्यर्थः। इत्यन्वयबोध इति। इति शाब्दबोध इत्यर्थः। समास इति कृच्छद्धितान्तेऽपि विशिष्टशक्त्यङ्गीकारेण पृथगुपस्थित्यभावेन पृथगुपस्थितिविषययोरर्थयोः संसर्गस्यैवान्वयत्वेन वृत्तौ अन्वयाभावात् `इत्यन्वय बोधः' इत्युक्तेः सुतरामसंभवादिति भावः। तथा च संसर्गपक्षे यथा राजपुरुषेति समुदायो राजनिरूपितसंबन्धवत्पुरुषे शक्त इत्येवं समासादिवृत्तौ विशिष्टशक्तिरङ्गीक्रियते तद्वद् राजपुरुषत्वमित्यस्यापि वृत्तित्वाद्राजपुरुषत्वमिति समुदायो राजपुरुषस्य भावः-नाम-स्वस्वामिबावसंबन्ध इत्यर्थे शक्त इत्येवं विशिष्टशक्त्यङ्गीकाराद् राजपुरुषत्वरूपवृत्तिनिष्ठशक्त्यैव राजपुरुषत्वमिति वृत्तिघटकत्वप्रत्ययस्य स्वस्वामिभावसंबन्धबोधकत्वं सिद्धमिति कृत्वा कृत्तद्धितसमासेभ्य इति वचनं वार्तिककारीयमपूर्वमिति न भ्रमितव्यमिति तात्पर्यम्। अव्यभिचरितसंबन्धे त्विति अपत्यापत्यवसंबन्धस्याव्यभिचरितसंबन्धत्वे त्वित्यर्थः। औपगवस्य भाव औपगवत्वम्। अत्र औपगवशब्दात् `तस्य भावस्त्वतलौ' इति भावे त्वप्रत्ययः। भावश्च प्रकृतिजन्यबोध प्रकारो भाव इति कौमुद्यामुक्तं भट्टोजीदीक्षितैः। प्रत्यासत्त्या त्वतलादेः प्रत्ययस्य या प्रकृतिः-त्वादिप्रत्ययविधानावाधिभूतः शब्दः, तादृशशब्दजन्यो यो बोधस्तत्र प्रकारतया-विशेषणतया प्रतीयमानोऽर्थो भाव इति तदर्थः। तत्र औपगव इत्यत्रोपगुशब्दादपत्येऽर्थे `तस्यापत्यम्' इति अण्प्रत्ययः। उपगोरपत्यस्य च जन्यजनकभावः संबन्धः। उपगुर्जनकः, अपत्यं च जन्यम्। जन्ये जन्यता, जनके जनकता चेत्ययमेव जन्यजनकभावः। जन्यजनकयोर्भाव इति व्युत्पत्तेः। अयं जन्यजनकभाव एवापत्यापत्यवत्संबम्ध इत्युच्यते। अपत्यापत्यवतोः संबन्धोऽपत्यता, अपत्यवत्ता चेत्यर्थः। तत्र जन्यतास्थानीयाऽपत्यता, जनकतास्थानीयाऽपत्यवत्ता। तथा चौपमव इत्यत्रोपगुनिष्ठापत्यवत्तानिरूपितापत्यतावदिति बोधादपत्यापत्यवत्संबन्धस्य विशेषणतया तत्र भानादपत्यापत्यवत्संबन्ध एवौपगवत्वमित्यत्र त्वप्रत्ययार्थ इति भावः। अपत्यापत्यवत्संबन्धस्य-अव्यभिचरितसंबन्धत्वं, यथा सत्सत्तयोः संबन्धः कदापि न व्यभिचरितो भवति तथाऽपत्यापत्यवतोरपि संबन्धः कदापि न व्यभिचरति। सत उत्पत्तिप्रभृति-आविनाशात् संबन्धस्य विद्यमानत्वादपत्यस्योत्पत्तिप्रभृति-आविनाशादपत्यत्वसंबन्धस्यातिप विद्यमानत्वादव्यभिचरितसंबन्धत्वमिति भावः। योत्रं च चरणैः सहेति वचनेनापत्यत्वस्य जातित्वबोधनाज्जातिजातिमतोर्भेदसंबन्धस्य तिरोधानाज्जातिरेव तत्र प्रकार इति सैव त्वादिप्रत्ययार्थ इति तात्पर्यम्। अर्थान्तरवृत्तिरिति। अन्योऽर्थोऽर्थान्तरम्। अर्थान्तरे वृत्तिः-शक्तिर्यस्येत्यर्थः। अपत्यार्थादन्यस्मिन्नर्थे दीव्यतीत्यादौ शक्तस्तद्धित उदाहर्तव्य इत्यर्थः। यथा-अक्षशब्दाद्दीव्यतीत्यर्थे ठकि इकादेशेचाऽऽक्षिक इत्यत्राक्षकरणकदेवनक्रियावानिति बोधाद्देवनक्रियायाः क्रियाकारकभावसंबन्धस्य ठगर्थे कर्तरि प्रकारतया भासमानत्वादाक्षिकत्वमित्यत्र सैव देवनक्रिया त्वप्रत्ययार्थः। गौरखरः कृष्णसर्प इत्यादौ समासत्वादिसत्त्वादत्तंदुत्तरभावप्रत्ययेन संबन्धाभिधानं प्रसक्तं तन्निराकुर्वन्नाह-अन्यत्रेत्यादि। रूढिरुक्तोति। दामोदरत्वमित्यादौ जातिविशषपुरुस्कारेण बोधानुभवादित्यर्थकग्रन्थेनेत्यर्थः। द्वितीयमित्यस्याभिन्नरूपोदाहरणमित्यर्थः। तद्धितान्तत्वेऽपीत्यपिशब्देन तदुत्तरभावप्रत्ययेन संबन्धाभिधार्न प्रसक्तमिति ध्वनितम्। अभेदप्रत्ययादीति। सोऽयमिति लोकनिरूढेनाभेदप्रत्ययेन षष्ठ्यर्थविहितमतुप्प्रत्ययोक्तस्य गुणगुणिनोर्भेदसंबन्धस्य तिरोधानान्न शुक्लत्वमित्यादौ संबन्धे भावप्रत्ययः, किं तु गुण एवं। मतुरो लुग्विधानं तु घटस्य शुक्ल इति गुणगुणिनोर्भेदव्यवहारस्यापि विध्यमानत्वाद् घटः शुक्लवानित्यनिष्टप्रयोगनिवृत्यर्थं बोध्यम्। एवं सत्तेत्यादिजातावपि ज्ञेयम्। सतो भाव इति। अस्धातोः शतृप्रत्ययेन निष्पन्नत्सत्शब्दात् सत्तावानिति बोधानुभवाच्छतृप्रत्ययार्थकर्तरि सत्तायाः प्रकारतया भासमानत्वात्तदुत्तरभावप्रत्ययेनापि सैवाभिधीयते। जाताबिति। अयं ब्राह्मण इत्यादौ अयंपदवाच्यदेहपिण्डस्य ग्राह्यणपदवाच्यस्य जातिविशेषस्य चाभेदेनैव बोधानुभवाज्जातिजातिमतोर्भेदसंबन्धस्य तिरोधानाद् ब्राह्मणत्वमित्यादौ न संबन्धे भावप्रत्ययः, किं तु जातिविशेष एवेत्यर्थः। पटस्य शुक्ल इति गुणगुणिर्नोर्भेदव्यवहारवज्जात्यभिप्रायेण अस्य ब्राह्मणः(एतद्देहसंबन्धी जातिविशेषः) इति प्रयोगाभावान्न कदापि जातिजातिमतोर्भेदव्यवहार इति अभेदेनैव बोधाद् ब्राह्मणव्यक्तौ प्रकारतया भासमानाया जातेरेव तदुत्तरभावप्रत्ययार्थत्वमिति भावः।। 49 ।।
त्वतलादिभावप्रत्ययार्थविषयकं मीमांसकमतं चिखण्डिषयाऽऽदावनुवदति-दण्डीत्यादावित्यादिना। प्रकृत्यर्थविशिष्टेति। संयोगादिसंबन्धेन वस्तुतो दण्डादिविशिष्टं यद्द्रव्यं तन्मात्रवाचकतया तद्धितस्य-इन्यादेरित्यर्थः। इन्यादेस्तद्धितस्य दण्डादिविशिष्टद्रव्यमात्रवाचकतयेति पदयोजनेति भावः। अत्र मात्रपदेन संयोगादिसंबन्धस्य व्यावृत्तिः। इन्यादेस्तद्धितस्य द्रव्यवाचकत्वमेव, न संयोगादिसंबन्धवाचकत्वमित्यर्थः। अयं भावः-दण्डीत्यादौ संयोगादिः संसर्गमर्यादया भासत इति न तत्र शक्तिः, किंतु प्रकृतेर्दण्डे, आश्रये चेन्यादेः प्रत्ययस्य शक्तिरिति। संयोगादिसंबन्धस्य वाच्यत्वाभावादेव पाचक इत्यादावपि न क्रियाकारक भावात्मकः संबन्धो वाच्यः। तदुक्तं भट्टैः-पाकं तु पचिरेवाऽऽह कर्तारं प्रत्ययोऽप्यकः। पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचित्।। इति। एवं च दण्डीत्यादौ प्रकृतिजन्यबोधे दण्ढादेः प्रकारतया प्रतीयमानत्वात्तदुत्तरभावप्रत्यस्य स दण्डादिरेवार्थो, न संबन्ध इति वदन्तं मीमांसकं प्रत्यवतिष्ठमान आह-अत्रार्धजरतीयमिति। कारिकास्थात्रपदस्यार्थमाह-भावप्रत्ययेति। त्वतलादिभावप्रत्ययविषय इत्यर्थः। ननु त्वतलादिभावप्रत्ययविषये किं स्यादित्यत आह-अर्धजरतीयमिति। अर्धजरतीयं नाम दोषः स्यादित्यर्थः। जरत्या अर्धमर्धजरती, `अर्धं नपुंसकं, इति समासः। तत्सदृशमर्धजरतीयम्। `समासाच्च तद्विषयात्' इति च्छप्रत्ययः। यथा जरत्या अर्धं कामयतेऽर्धं नेत्ययृक्तं तद्वद् द्वयोर्दामोदरदण्डिशब्दयोः संबन्धावाचकत्वस्य तुल्यत्वेऽपि तदुत्तरभावप्रत्ययेनैकत्रदामोदरत्वमित्यत्र जातेरभिधानं, नाम संबन्धाभिधानं न, परत्र दण्डित्वमित्यत्र तु संबन्धाभिदानमिति स्वीकरणमत्यन्तायुक्तमिति भावः। अर्धजरतीयत्वमेवोपपादयितुमाह-संबन्धानमिधायकत्वेनेति। दामोदर-घटादिशब्दरूपत्वादिप्रत्ययप्रकृतिजन्यबोधे संबन्धस्य प्रकारतया प्रतीयमानत्वाभावेन संबन्धाभिधायकत्वाभावादित्यर्थः। मीमांसकानामित्यस्य `मते' इति शेषः। तदभिधानं न स्यादिति। संबन्धाभिधानं न स्यात्किंतु दण्डादेरेवाभिधानं स्यान्न च तदिष्टमित्यर्थः। यथा दामौदरघटादिप्रकृतिजन्यबोधे संबन्धस्य प्रकारतया भासमानत्वाभावेन घटघटत्वयोः संबन्धस्य संसर्गमर्यादयत्र भानात्तत्र घटवटत्वयोरिव घटपदस्य शक्तिकल्पनाभावेन घटत्वविशिष्टघटमात्रवाचकत्वात् तदुत्तरभावप्रत्ययस्य संबन्धाभिधायकत्वं न भवति तद्वद् दण्डिपाचकेत्यादिप्रकृतिजन्यबोधेऽपि संबन्धस्य प्रकारतया प्रतीयमानत्वाभावेन तदुत्तरभावप्रत्ययस्यापि संबन्धाभिदायकत्वं न स्यादिति भावः। ननु दामोदरस्य भावो दामोदरत्वमित्यादौ भावशब्देन दामोदरादिनिष्ठो धर्मविशेषो गृह्यते इति संबन्धानभिधानं युक्तं, दण्डिनो भावो दण्डित्वमित्यादौ तु भावः संयोगादिरेवेति तत्र त्वप्रत्ययेन संबन्धाभिधाने किं बाधकमित्याशङ्कानिरासाय भावपदार्थं निर्वक्ति-प्रकृतीति। चिकीर्षितत्वतलादिप्रत्ययप्रकृतिजन्यबोधीयप्रकारतावत्त्वे सति प्रकृत्यर्थसमवेतपदार्थत्वं भावत्वमित्यर्थः। विशेषणविशेष्यांशयोर्व्यावर्त्यं मदर्शयितुमाह-अन्यथेति। भावपदार्थपरिष्कारे विशेषणविशेष्योभयदलनिवेशाभाव इत्यर्थः। एकतरस्यैव निवेशे इति यावत्। यद्वा तद्वृत्तिधर्ममात्रस्य भावपदार्थत्वं इत्यर्थः। द्रव्यत्वादेरिति। यदि सत्यन्तं विशेषणांशंविहाय प्रकृत्यर्थसमवेतत्वं भावत्वमित्येवोच्येत तर्हि घटे द्रव्यत्वस्य समवायसंबन्धेन वृत्तित्वाद् घटत्वमित्यत्रत्यत्वप्रत्ययेन द्रव्यत्वस्यैवाभिधानमापद्येतेदत्यर्थः। प्रकृतिजन्यबोधे प्रकारत्वे सतीति विशेषणोपादाने तु द्रव्यत्वस्य प्रकृत्यर्थे घटे समवायेन वृत्तित्वेऽपि प्रकृतिभूतघटपदजन्यबोधे प्रकारत्वाभावेन तस्य भावत्वाभावान्न घटपदोत्तरत्वप्रत्ययेन द्रव्यत्वमभिधीयते, किंतु तादृशं घटत्वमेवेति तदेव तदुत्तरत्वप्रत्ययेनादिधीयत इति भावः। अत्र सर्वत्र समवेतत्वं न समवायसंबन्धेन वर्तमानत्वं घटत्वत्वमभावत्वमित्यादौ घटत्वत्वादेरसमवेतत्वेन त्वादिप्रत्ययवाच्यत्वानुपपत्तेः, किंतु येन केनचित्संबन्धेन तत्र वर्तमानत्वमिति बोध्यम्। ननु घटे घटत्वस्येव द्रव्यत्वस्यापि समवेतत्वाद् घटपदाद घटत्वप्रकारकबोधस्येव द्रव्यत्वप्रकारकबोधस्यापि संभव इति चेन्न। अगृहीतवृत्तिकपुरुषस्यागृहीतवृत्तिकपदादर्थबोधादर्शनात् `तद्धर्मावच्छिन्नविषयकशाब्दबोधं प्रति तद्धर्मावच्छिन्ननिरूपितशक्तिज्ञानं कारणमित्येवं कार्यकारणभावोऽवश्यं वाच्यः। यथा पटत्वधर्मावच्छिन्नपटविषयकशाब्दबोधं प्रति पटत्वधर्मावच्छिन्नपटनिरूपिता या पटपदनिष्ठा शक्तिः, तस्या ज्ञानं कारणं, कार्यं तु पटत्वधर्मावच्छिन्नपटविषयकः शाब्दबोधः। येन पुरुषेण, पटपदस्य पटत्वावच्छिन्ने शक्तिरिति पटपदनिष्ठा शक्तिर्ज्ञाता, तस्यैव पुरुषस्य पटपदात्पटत्वावच्छिन्नविषयकबोधो जायते। अर्थाद् यस्य पदस्य यद्धर्मवच्चिन्ने शक्तिः, तत्पदात्तद्धर्मप्रकारको बोध इति पट इत्युक्ते पटपदात् पटत्वधर्मप3कारको बोधो जायत इति यावत्। ननु यथा पटे पटत्वस्य विद्यमानत्वात्पटपदात्पटत्वप्रकारको बोधो जायते, एवं पटे, पटो द्रव्यमिति अभेदेन व्यवहाराद् द्रव्यत्वस्यापि सत्त्वेन पटपदाद् द्रव्यत्वनिष्ठप्रकारतानिरूपितविशेष्यतावान् पट इत्येवं द्रव्यत्वप्रकारकोऽपि बोधः स्यादिति चेन्न। तद्धर्मप्रकारक इत्यस् शक्यतावच्छेदकप्रकारक इत्यर्थात्। शक्यतावच्छेदकं चात्र पटत्वमेव, न द्रव्यत्वम्। अन्यूनानतिरिक्तवृत्तिधर्मस्यैव शक्यतावच्छेदकत्वात्। पटत्वं च पटपदवाच्येषु सर्वेषु पटैषू विद्यत इति न न्यूनवृत्ति, नापि पटापेक्षयाऽतिरिक्तघटादिवृत्तीति तदेवात्र शक्यतावच्छेदकं, द्रव्यत्वं तु अतिरिक्तघटादिवृत्तित्वान्न शक्यतावच्छेदकं भवितुमर्हति। येन धर्मेणावच्छिन्ने शक्तिः स धर्मः शक्यतावच्छेदकः। पटत्वधर्मेणावच्छिन्ने पटे पटपदस्य शक्तिरिति पटत्वं शक्यतावच्छेदकम्। स च धर्मश्चतुष्टयी शब्दानां प्रवृत्तिरिति भाष्योक्तपक्षे क्वचिज्जातिः, गुणः, क्रिया, यदृच्छा(संज्ञा)शब्दश्चेति बोध्यम्। ननु प़टवृत्तिद्रव्यत्वधर्मेणावच्छिन्ने पटे पटपदस्य शक्तिः कल्पिता चेद्द्रव्यत्वमपि पटपदशक्यतावच्छेदकं भवितुमर्हतीति चेन्न। अन्यूनानतिरिक्तवृत्तिनैव धर्मेणावच्छिन्ने तत्तत्पदशक्तेः कल्पनीयत्वात्। नन्वत्रैव किं प्रमाणमितिचेत्समर्थसूत्रस्थं भाष्यमेव प्रमाणमिति गृहाण। इत्थं हि तद्भाष्यम्-`न हि गुड इत्युक्ते मधुरत्वं प्रकारतया गम्यते' इति। हि-यतः, गुड इत्युक्ते मधुरत्वं प्रकारतया न गम्यते इति तदर्थः। गुडेऽव्यभिचरिततया मधुरत्वस्य विद्यमानत्वेऽपि तस्य प्रकारतयाऽभानाद् गुडपदशक्यतावच्छेदकत्वं नास्तीति सूचितम्। मधुरत्वस्य गुडतदतिरिक्तमध्वादिववृत्तित्वादिति भावः। ननु किं तर्हि गुडपदशक्यतावच्छेदकमिति चेद्-गुडत्वमिति ब्रूमः। यश्च धर्मस्तदेकदेशमात्रवृत्तिर्भवति न स शक्यतावच्छेदको भवति। यथा पीतगोत्वम्। पीतगोत्वं हि पीतगव्यामेव न नीलादिसर्वगवीष्विति न तच्छक्यतावच्छेदकं भवति। न्यूनवृत्तित्वात्। योऽपि धर्मस्तदूवृत्तिः संस्तदरिरिक्तवृत्तिरपि भवति सोऽपि न शक्यतावच्छेदको भविदुमर्हति। यता शृङ्गित्वम्। शृङ्गित्वं हि सर्वगवीषु विद्यमानं सदपि तदतिपिक्तमहिष्यादावपि वर्तत इति न तच्छक्यतावच्छेदकं भवति। अतिरिक्तवृत्तित्वात्। यो हि धर्मो न न्यूनवृत्तिर्नापि तदतिरिक्तवृत्तिः स एव शक्यतावच्छेदको भवितुमर्हति। यथा सास्नावत्त्वे सति शृङ्गित्वम्। गुडत्वं हि सर्वेष्वेव गुडेष्वेव विद्यत इति कृत्वा न तन्न्यूनवृत्ति, नापि तदतिरिक्तवृत्तीति तदेव गुडपदशक्यतावच्छेदकं भवति। अन्यूनानतिरिक्तवृत्तित्वादित्यर्थः। गुडातिरिक्तवृत्तिमधुरत्वस्य शक्यतावच्छेदकत्वं प्रतिषेधता भगवताऽन्यूनातिरिक्तवृत्तिगुडत्वस्यैव गुडपदशक्यतावच्छेदकत्वमित्यपि सूचितमिति भावः। एवं घटपटादिषु सर्वत्र बोध्यम्। अत एव गुडशब्देन गुडत्वजात्यवच्छिन्नो गुडपदवाच्य इत्येव बोधो जातिप्रकारकः,। शक्यतावच्छेवक्वं च शक्यनिष्ठा या विशेष्यता, तन्निरूपितप्रकारताश्रयतया भासमानत्वम्। घटादिपदशक्तिग्रहे च घटत्वादेरेव शक्यतावच्छेदकत्वं, न द्रव्यत्वादेः। यथा च घटो द्रव्यमित्यादौ सामानाधिकरण्येनान्वयबोधेऽपि न घटादिपदेभ्यो द्रव्यत्वादिप्रकारको बोधः, नापि द्रव्यादिपदाच्च घटत्वादिप्रकारको बोध इत्याद्युक्तं लघुमञ्जूषायां संगच्छते। एवं च घटादिपदे प्रकृत्यर्थवृत्तित्वे सति प्रकृतिजन्यबोधे प्रकारतया भासमानत्वेन घटत्वादेरेव तस्य भाव इति भावशब्दार्थत्वाद् घटत्वादिरवे तदुत्तरत्वप्रत्ययेनाभिधीयते, न द्रव्यत्वादीत्यवधेयमिति भावः। अथ यदि प्रकृत्यर्थसमवेत्वमिति विशेष्यांशं विहाय प्रकृतिजन्यबोधे प्रकारत्वमित्येवोच्येत तर्हि दण्डित्वमित्यादावनिष्टापत्तिमाह-दण्डादेश्चेति। दण्डनिष्ठप्रकारतानिरूपितविशेष्यतावानिति शाब्दबोधात् दण्डिपदजन्यशाब्दबोधे दण्डस्य प्रकारत्वेन दण्डित्वमित्यादौ त्वप्रत्ययेन दण्डादेरभिधानमापद्येतेत्यर्थः। ननु दण्डिपदजन्यशाब्दोबोधे दण्डदण्डिनोरिव तयोः संबन्धस्यापि भानात्तस्य च प्रकारत्वात्त्वप्रत्ययेन संबन्धाभिधानमनायासतः सिध्यतीत्यत आह-न च तन्मत इति। मीमांसकमते दण्डदण्डिनोः संबन्धस्य संसर्गमर्यादयैव भानान्न संबन्धांशे शक्तिः कल्प्यते, किंतु प्रकृतेर्दण्डे शक्तिः, आश्रये च त्वप्रयस्य शक्तिरिति दण्डाश्रयः पुरुष इति बोधाद् दण्डः प्रकारः पुरुषश्च विशेष्य इति दण्डिपदजन्यबोधे संबन्धस्य भानमेव नास्तीति दूरे तस्य प्रकारता। तथा च दण्डित्वमित्यादौ त्वप्रत्ययेन संबन्धाभिधानं सुतरां दुर्लभमित्याशयवानाह-संबन्धः प्रकार इति। न चेत्यस्य संबन्धात्संबन्धः प्रकारो नैव संभवति, येन तस्य त्वतलादिप्रत्ययवाच्यत्वं स्यादित्यर्थः। इदानीं दण्डित्वमित्यादौ त्वतलादिप्रत्ययस्य संबन्धाभिधायकत्वे मीमांसकोक्तां युक्तिमनुवदति-यत्त्विति। यदेति। अत्र-दण्डित्वमित्यादौ। स्वसमवेतः-प्रकृतिजन्यबोधविशेष्यसमवेतः। वाच्यः-प्रकृतिजन्यबोधप्रकार इति यावत्। नास्ति गुणोऽपरः-शुक्लत्वमित्यादौ शुक्लादिगुणवन्न संभवति। तदेति। गत्यन्तराभावात्-दण्डादेः प्रकृतिजन्यबोधे प्रकारत्वेऽपि घटे घटत्वस्येव प्रकृत्यर्थासमवेतत्वेन तस्य भावपदार्थत्वासंभवात्। संबन्धो वाच्य इति। प्रकृतिजन्यबोधाप्रकारोऽपि स्वसमवेतः संबन्धस्त्वादिप्रत्ययवाच्य आश्रित इत्यर्थः। यत्र तत्रेत्यर्थे यदातदाशब्दयोः पर्यवसानं बोध्यम्। यत्र प्रकृतिजन्यबोधविशेष्यनिष्ठः प्रकृतिजन्यबोधप्रकारश्च गुणो न संभवति, तत्र प्रकृतिजन्यबोधाप्रकारोऽपि प्रकृतिजन्योबोधविशेष्यनिष्ठः संबन्धस्त्वादिप्रत्ययवाच्यत्वेनाऽऽश्रयणीय इति मीमांसकोक्त वचनस्य तात्पर्यम्। तथा च दण्डित्वमित्यादौ त्वतलादिप्रत्ययेन संबन्धस्यैवाभिधानं, न दण्डादेरिति मीमांसकोक्तं न युक्तमिति दूषयति-तन्नेति। संबन्धिवाचकत्वेनेति। यद्यपि दण्डोऽस्त्यस्य, गावः सन्यस्येति दण्ड्यादिशब्दविग्रहेऽपि अस्येत्यादौ प्रत्ययार्थसंबन्धप्राधान्येन विवरणदर्शनात्संसर्गः प्रधानमिति सबन्धे एव तदम्यास्त्यस्मिन्निति मतुबादयो विधीयन्ते। उक्तं चारुणाधिकरणवार्तिके-`अस्यात्रेति च संबन्धे मत्वर्थीयः प्रवर्तते' इति। तथापि दण्डी पुरुषः, गोमांश्चैत्र इत्येवं सामानादिकरण्यस्य अनुपपत्तिप्रतिसंधानं विनैव शब्दादेव प्रतीतेस्तदनुसारेण द्रव्यवाचित्वं मतुबादीनामस्थेयम्। उक्तं च मीमांसकैः-सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते। नहि संबन्धवाच्यत्वं संभवत्यतिगौरवात्।। इति। यौगिकैरिति। योगाय प्रभवति यौगिकः। योगाद्यच्च(पा.सू.5-102)इति ठञ्प्रत्ययः। प्रकृतिप्रत्यययोगलभ्यार्थवाचकः शब्दः। प्रकृतिप्रत्ययेत्युपलक्षणं यौगिकशब्दघटकार्थवाचकपूर्वोत्तरभागयोः तेन समासस्यापि यौगिकशब्दत्वं सिद्धम्। अत एव-योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम्। समासस्तद्धितान्तं च कृदन्तं चेति तत्त्रिधा।। इत्यभियुक्तोक्तिः संगच्छते। यौगिकैः शब्दैः सर्वत्र प्राधान्येन द्रव्यमेवाभिधीयत इति पूर्वार्धार्थः। उत्तरार्धार्थमाह--नहीत्यादिना। अयं भावः-यदि गावः सन्ति यस्येत्यादौ विग्रहे यस्येत्यादौ प्रत्ययार्थसंबन्धस्य प्राधान्यदर्शनात्तदनुसारेण मदुबादीनां संबन्धवाचित्वमेव स्यान्न द्रव्यवाचित्वं तर्हि अनुयोगिप्रतियोगिरूपसंबन्धिद्वयाश्रितसंबन्धस्यान्यतरासत्त्वे उपपादयितुमशक्यत्वाद् गोमानित्यादावेकस्य गोरूपसंबन्धिनः संबन्धश्चाप्यभिधातव्य इति शक्तिद्बयकल्पनापत्त्याऽतिगौरवं स्यादिति। नन्वेवं यदि मतुबादेः संबन्धयभिधायकत्वं स्वीक्रियते तर्हि गोमानित्यादौ संबन्धप्रतीतिर्न स्यात्। गोपदेन प्रतियोगिरूपः संबन्ध्युक्तो मतुपा चानुयोगिरूपः संबन्ध्यभिहितः, संबन्धस्तु न केनाप्यभिहितः। यदि च मतुपा संबन्धोऽभिधीयते तर्ह्येव गोमत्प्रातिपदिकादुत्पन्नस्त्वतलादिर्भावप्रत्ययः संबन्धमभिधातुमर्हति नान्यथा। प्रतीयते च सर्वत्र संबन्धः पाचकत्वं पाठकत्वमित्यादिष्विति चेन्न। अवश्यभिधातव्यसंबन्धिनैवाऽऽक्षेपात्संबन्धबोधस्योपपन्नत्वात्। उक्तं च-संबन्धिनैव संबन्धः प्रत्येतुं यदि शक्यते। पुनस्तस्याभिधाशक्तिं कः श्रुतेः परिकल्पयेतू। इति। संबन्धमन्तरा संबन्धीतति व्यवहारानुपपत्त्या पीनत्वान्यथानुपत्त्या रात्रिभोजनमिव संबन्धः कल्प्यत इति मतुपः संबन्धिनीव संबन्धेऽपि शक्तिर्न कल्पनीया गौरवभीतेरिति भावः। किंच यौगिकैः शब्दैः सर्वत्र प्राधान्येन द्रव्याभिधानादेवारुणाधिकरणप्रवृत्तिरूपपद्यते। अन्यथा पिङ्गाक्ष्येकहायनीशब्दाभ्यामपि प्राधान्येन संबन्धस्यैवाभिधाने आरुम्यगुणवत्पिङ्गत्वाक्षित्वैकत्वहायनत्वस्यापि अमूर्तत्वात्क्रीणातौ करणत्वासंभवेनक्रीणातिकरणत्वस्यैवैतद्वाक्यादलाभादारूण्यस्य वाक्यभेदशङ्काया एवासंभवेन पूर्वपक्षानुत्थानेन तादृशाधिकरणप्रवृत्त्यनुपपत्तिरेव स्यादिति बोध्यम्। एवं चेनादेर्भावप्रत्ययस्य संबन्धिवाचकत्वात्संबन्धिनैव संबन्धः प्रत्येतुं यदि शक्यते, इत्युक्तयुक्तयनुसारेम संबन्धप्रतीतेरुपपत्तौ सत्यां गत्यन्तराभावादित्युक्तहेतोरेवाभावादिति भावः। प्रपञ्चितमिति। अयं भावः-दण्डीत्यादौ संबन्धस्यावाच्यत्वे दण्डित्वमित्यत्रापि संबन्धस्य वाच्यत्वं न स्यात्। न चानुभवानुरोधेन त्वादेः संबन्धे शक्तिः कल्प्यत इति वाच्यम्। शक्त्यन्तरकल्पनापेक्षया इन्यादीनांक्लृप्तशक्तौ धर्मिवत्संबन्धविषयकत्वं कल्पनीयं-नाम यथा वैयाकरणैः-दण्डनिरूपितसंबन्धवान् पुरुष इति बोधानुभवात्संबन्धवद्द्रव्यवाचित्वमिन्यादीनामाश्रितं तथा मीमांसकैरपि संबन्धवद्द्रव्यवाचित्वमित्यादीनामाश्रयणीयं, न केवलद्रव्यवाचित्वम्। तथा च दण्डीतिप्रकृतिजन्यबोधे संबन्धस्य प्रकारत्वात्स एव तदुत्तरभावप्रत्ययेनाभिधीयेतेत्येवंकल्पनया दण्डित्वमित्यादौ त्वादेः संबन्धाभिधायकत्वोपपत्तौ सत्यां संबन्धे त्वादेः पृथक्शक्यन्तरकल्पनं गुरुभूतम्। अन्ये तु इन्यादेः संबन्धावाचकत्वेऽपि दण्ड्यादिशब्दस्य दण्डसंबन्धज्ञानादेव प्रवृत्तिरिति संबन्धस्यैव शब्दप्रवृत्तिनिमित्ततया त्वादेः संबन्धाभिधायकत्वं संभवति। तस्य भाव इति सूत्रे शब्दप्रवृत्तिनिमित्तस्यैव भावपदार्थत्वमिति वदन्तीत्यादि विस्तरेण निरूपितं वैयाकरणभूषण इति भावः। शङ्कते-नन्विति। तवापीति। वैयाकरणस्यापि तवेत्यर्थः इदं वैपम्यमिति। दामोदरत्वं घटत्वमित्यादौ संबन्धो न वाच्यः, दण्डित्वमित्यादौ तु वाच्य इत्येवं वैषम्यमित्यर्थः। कथमिति। केन प्रकारेणोपपादयितुं शक्यमत आह-सिद्धान्ते त्विति। तस्य भाव इति सूत्रेण भावे त्वतलादयो विधीयन्ते। भावपदार्थश्च प्रकृतिजन्यबोधे यः प्रकारः सः। कश्च प्रकृतिजन्यबोधे प्रकार इति जिज्ञासायां तत्र पक्षद्वयमुक्तं तदनुसारेण भावपदार्थं निश्चित्य तत्र तत्र त्वतलादयो विधातव्या इति भावः।। 50 ।।
यदुक्तं प्रकृतिजन्यबोधे प्रकार इत्यत्र पक्षद्वयमिति तद्दर्शयितुमाह-तौ पक्षाविति। प्रयोगोपाधिमाश्रित्येति। प्रयोगे-उपाधिमिति। घटपटादिशब्दस्य प्रयोग कर्तव्ये य उपाधि-पन्निमित्तं प्रवृत्तिनिमित्तमित्यर्थः। स चो पाधिः कीदृश इत्याह-प्रकृत्यर्थ इति। त्वादिप्रत्ययप्रकृत्यर्थे-त्वादिप्रत्ययप्रकृतिजन्यबोधे, प्रकारतामित्यस्य प्रकारतामापन्नमिति शेषः। आश्रित्येति। प्रकारतया भासमानं शब्दप्रवृत्तिनिमित्तरूपं धर्मं त्वादिप्रत्ययशक्यतयाऽऽश्रित्येत्यर्थः। जायन्त इति। त्वादिप्रत्ययप्रकृतिजन्यबोधे प्रकारतया भासमाने शब्दप्रवृत्तिनिमित्तरूपे धर्मे त्वतलादयो विधीयन्त इति यावत्। ननु प्रकृतिजन्यबोधे प्रकारतामापन्नमित्युक्त्यैवोपाधेः संग्रहे सिद्धे पार्थक्येन तदुपादानां किमर्थमत आह-प्रकृतिजन्यबोधे प्रकार इति। स च प्रकारः प्रकृत्यर्थवृत्तिरसाधारणो धर्मः। तस्मिन्नसाधारण्यं च स्वेतरावृत्तित्वे सति निखिलस्ववृत्तित्वेन गृह्यते स्वपदेन च घटपटादिव्यक्तिर्ग्राह्या, तथा च घटेतरावृत्तित्वे सति सकलघटवृत्तित्वादघटत्वं घटनिष्ठोऽसाधारणधर्मः। सत्यन्तविशेषणोपादानान्न द्रव्यत्वादेर्घटवृत्त्यसाधारणधर्मत्वं, पृथिव्यादावपि द्रव्यत्वस्य सत्त्वात्। विशष्योपादानाच्च तद्व्यक्तित्वादेर्न घटासाधारणधर्मत्वं, तद्व्यक्तित्वस्य तत्तद्व्यक्तिमात्रवृत्तित्वेन सकलघटवृत्तित्वाभावात्। तेनासाधारणरूपेण धर्मस्त्वादिभावप्रत्ययवाच्य इत्यर्थः। यद्धर्मस्य ज्ञानाद्यस्मिन्नर्थे यः शब्दः प्रयुज्यते स धर्मस्तच्छब्दप्रवृत्तौ निमित्तम्। शब्दप्रवृत्तिनिमित्तरूपो धर्मश्च क्वचिज्जातिः, क्वचिद्गुणः, क्वचित्क्रियेति। तत्र घटत्वदामोदरत्वादौ जातिस्त्वाद्यर्थः। शुक्लादयः शब्दा गुणे गुणिनि च शक्ताः। तत्र गुणपरेषु शुक्लादिशब्देषु तद्गता जातिः प्रवृत्तिनिमित्तमिति तादृशशुक्लत्वमित्यादौ गुणगता जातिस्त्वाद्यर्थः। गुणिपरेषु शुक्लादिशब्देषु गुणः प्रवृत्तिनिमित्तमिति तादृशशुक्लत्वमित्यादौ गुणगता जातिस्त्वाद्यर्थः। गुणिपरेषु शुक्लादिशब्देषु गुणः प्रवृत्तिनिमित्तमिति तादृशशुक्लत्वमित्यादौ गुणस्त्वाद्यर्थः। पाचक इत्यादेः पाकक्रियासंबन्धवत्कर्तरि शक्तिः। क्रिया पचेः शक्या, अकस्य कर्ता शक्यः। संबन्धो विशिष्टशक्यः। संबन्धश्च क्रियाकारकभावः। स एव च तत्र प्रृत्तिनिमित्तमिति पाचकत्वमित्यादौ संबन्धस्त्वाद्यर्थः। तथा च क्रियाप्रवृत्तिनिमित्तकः शब्दः क्रियाशब्द इत्यस्य क्रियासंबन्धप्रवृत्तिनिमित्तकः शब्द इत्यर्थो बोधयः। नन्वेवं जातिप्रवृत्तिनिमित्तकशब्देषु जातिसंबन्धवतीषु व्यक्तिषु शक्तिः, कल्प्यतां, एवं गुणप्रवृत्तिनिमित्तकशब्देष्वपि गुणसंबन्धवद्घटादा शक्तिः, कल्प्यताम्। ततश्च जातिशब्देषु गुणशब्देषु च संबन्धस्यैव प्रवृत्तिनिमित्तत्वाद् घटत्वं शुक्लत्वमित्यादावपि संबन्ध एव त्वाद्यर्थोऽस्त्विति चेन्न। प्रवृत्तिनिमित्तं च यज्ज्ञानाच्छब्दप्रवृत्तिस्तत्। तस्य भाव इति सूत्रे भावशब्देन शब्दप्रवृत्तिनिमित्तमेव गृह्यते, शब्दप्रवृत्तिश्च क्वचिद्धर्मस्वरूपज्ञानात्क्वचित्संबन्धज्ञानादिति स्पष्टं कैयटे, इति लघुमञ्जूषायामुक्तम्। तत्र अयं ब्राह्मणः, घटः शुक्ल इत्यादौ लोकनिरूढेन सोऽयमित्यभेदप्रत्ययेन जातिजातिमतोर्गुणगुणिनोर्वा भेदसंबन्धस्य तिरोधानान्न तत्र संबन्धः प्रवृत्तिनिमित्तं संभवितुमर्हतीति ततस्त्वादिना न संबन्धस्याभिधानम्। किंतु शब्दप्रवृत्तिनिमित्तभूते धर्मे जातौ गुणे च तत्र भावप्रत्ययः। क्रियया तु कृदन्ते भेदस्यैव नियमेन प्रतितेस्तत्संबन्धज्ञानादेव शब्दप्रवृत्तिरिति तत्रैव भावप्रत्ययः। क्रियाकारकयोर्भेदाभेदाविति मते तिङन्ते तु युष्मद्युपदे समानाधिकरणे, इत्युत्तेर्भेदतिरोधानम्। अत्र च शब्दशक्तिस्वभाव एव बीजम्। अत एव कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनेत्युक्त्वा पाचकत्वमित्युदाहृतं हरिणा। क्रियाप्रवृत्तिनिमित्त इत्यस्य क्रियासंबन्धप्रवृत्तिनिमित्तक इत्यर्थ इत्युक्तं प्राक्। जातिगुणक्रियायदृच्छेति चतुष्टयी शब्दानां प्रवृत्तिरित्यत्र क्रियापदं संबन्धप्रवृत्तिनिमित्तकशब्दोपलक्षणमिति न न्यूनता। यदृच्छाशब्दा डित्थादयः क्वादयो भादयश्च। तत्र डित्थादिषु एकद्रव्योपनिवेशसंज्ञाभूतेषु व्यक्तिरेव वाच्या। आनन्त्यव्यभिचारयोरभावात्। प्रातिपदिकमात्रादर्थबोधाभावेन सुबन्ताच्च संख्यादेरेव प्रकारतया भानेन न ततो निर्विकल्पकम्। न च डित्थत्वमित्यादौ प्रकृतिजन्यबोधे प्रकाराबावात्प्रत्ययार्थाभावेन त्वाद्यनुपपत्तिरेति वाच्यम्। व्यक्तेरेव प्रकारताविशेष्यतारूपविषयताद्वयेन भानेन प्रकारत्वावच्छिन्नाया व्यक्तेरेव प्रकारताविशेष्यतारूपविषयताद्वयेन भानेन प्रकारत्वावच्छिन्नाया व्यक्तेरेव त्वाद्यर्थत्वात्। यद्वा तत्र प्रकृतिः शब्दपरा विशेष्यभूतोऽर्थ एव त्वाद्यर्थः। डित्थशब्दवाच्य इति डित्थत्वमित्यस्यार्थः। तथा च डित्थडित्थत्वपदयोः पर्यायता भवति। यत्तु बालयुवाद्यवस्थाभेदेन शरीरभेदात्तद्वृत्तिर्डित्थत्वादिजातिः, सैव प्रमाणाभावात्। आकाशे तु पटाकाशमठाकाशादीति लोके भेदव्यवहारेम तत्रौपाधिकभेदसिद्धिः। एतच्च तस्य भाव इति सूत्रे भाष्ये स्पष्टम्। क्वादिपदानां कादीनामेकत्वमते पञ्चवर्णव्यक्तिषु, तेषामेनकत्वमते पञ्चजातीयवर्णव्यक्तिषु वा शक्तिः। अन्त्ये जातय उपलक्षणम्। तत्राप्यानन्त्याद्यभावेन भावप्रत्यय इति कुत्वकुशब्दयोः पर्यायतैव। भादिपदानां तुयूष्णः, राज्ञ इत्यादौ यूषनूराजन्नित्यादिशक्यव्यक्त्यानन्त्येन शक्यतावच्छेदकापेक्षणाद् भादिपदमेव शक्यतावच्छेदकं, तदेव च तदुत्तरत्वाद्यर्थः। एतदभिप्रायेणैव वृद्धिरादैच सूत्रे भाष्य उक्तं-कुत्वं कस्मान्न भवति चोः कुः पदस्येति। भत्वात्। कथं भसंज्ञेति। अनेन कुत्वकुपदयोर्भत्वभसंज्ञापदयोः पर्यायता स्पष्टमेवोक्ता। एवं च `तवापीदं कथं वैषम्यं' इत्येतादृशो य आक्षेपो वैयाकरणोपरि मीमांसकैरुक्तस्तस्येदमुत्तरम्-तस्य भाव इति सूत्रे भावपदेन प्रकृतिजन्यबोधे प्रकारतया भासमानः शब्दप्रवृत्तिनिमित्तरूपो धर्मो गृह्यते। शब्दप्रवृत्तिश्च क्वचिद्धर्मस्वरूपज्ञानात्क्वचित्संबन्धज्ञानादिति घटत्वदामोदरत्वादौ संबन्धानवगमेन शब्दप्रवृत्तिनिमित्तात्मके धर्मे जातौ त्वादिभावप्रत्ययः, पाचकत्वदण्डित्वादौ तु संबन्धावगमात्संबन्धे भावप्रत्यय इति भावः। ननु भावपदेन त्वादिप्रत्ययप्रकृतिजन्यबोधे प्रकारतयाभासमानः शब्दप्रवृत्तिनिमित्तरूपो धर्मो गृह्यते चेद् घटत्वत्वमित्यादौ घटत्वस्यापि प्रकारतया भासमानत्वाद् घटत्वपदोत्तरस्यापि त्वप्रत्ययस्य घटत्वमेव वाच्यं स्यादित्याशयेन शङ्कते-नन्वित्यादिना। प्रकारत्वादिति। यद्यपि घटत्वावच्छिन्ने घटे घटपदस्य शक्तिरिति घटपदेनैव शक्यतावच्छेदकं घटत्वमुक्तं भवति, तथापि घटपदेन तद्विशेषणतयोच्यते, घटपदाद् घटत्वप्रकारकघटविशेष्यकबोधानुभवात्। विशेष्यतया बोधार्थं त्वादिभावप्रत्ययेन तदेव शक्यतावच्छेदकमभिधीयते। प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्य प्राधान्यमिति न्यायेन घटत्वमित्यादौ त्वप्रत्ययेन प्राधान्येन तदुच्यत इति युक्तं शक्यतावच्छेदके त्वादिभावप्रत्ययविधानम्। घटत्व शब्दात्त्वादिभावप्रत्ययचिकीर्षायां शक्यतावच्छेदकं घटत्वत्वं वाच्यं, यद्यपि तदघटत्वपदेनैवोक्तं तथापि विशेषणतया तेन तस्योक्तत्वात्प्राधान्येन बोधार्थं पुनस्त्वप्रत्ययेन तदेवाभिदातव्यमिति प्रकृतिजन्यबोथे प्रकारतया भासमानः शक्यतावच्छेदको धर्मो घटत्वत्वमेवेति मन्तव्यम्। परं तु तस्य(घटत्वत्वस्य)शक्यतावच्छेदकत्वं न स्वीक्रियते। संभवति लघौ गुरौ तदभावात्। लघुधर्मेऽवच्छेदकत्वकल्पने संभवति सति गुरुधर्मेऽवच्छेदकत्वकल्पनं न करणीयं गौरवादिति तदर्थः। अत एव प्रमेयवह्न्यभाववानित्यत्र प्रमेयवह्नित्वस्याभावप्रतियोगितावच्छेदकत्वं परित्यज्य प्रमेयवह्नित्वस्य समनियतो वह्नित्वरूपो धर्म एवाभावप्रतियोगितावच्छेदकत्वेनाङ्गीकृतो लघुत्वान्नैयायिकैः। सत्येवं यदि गुरुधर्मे शक्यतावच्छेदकत्वं स्वीक्रियते चेन्न्यायविरुद्धत्वादयुक्तं तदिति घटत्वत्वस्य शक्यतावच्छेदकत्वाभावेन घटत्वपदोत्तरत्वप्रत्ययवाच्यता तस्य न संभवतीति `वाच्यता स्यात्, इत्यनेन वाच्यतापत्तिः स्यात, सा चानिष्टेति सूचितम्। घटत्वत्वस्य शक्यतावच्छेदकत्व कल्पनायां यद्यपि गौरवं भवति तथापि तदिष्टापत्तिग्रस्तमेवेत्याह-धर्ममात्रमितीति। गोत्वगोत्वत्वादि धर्ममात्रं धर्मत्वेन रूपेण त्वादिभावप्रत्ययवाच्यं न तु तत्तद्रूपेण शक्त्यानन्त्यापत्तेः। अन्ये तु गोत्वादिजातिरपि गवादिद्रव्यनिष्ठो धर्मः, नीलादिगुणोऽपि घटादिद्रव्यनिष्ठो धर्मः, तथा पाकादिक्रियाऽपि चैत्रादिद्रव्यनिष्ठो धर्म इति जातिगुमक्रियासु द्रव्यनिष्ठधर्मत्वसाधारण्येनैकशक्तौ संभवन्त्यां जात्यादितिसृषु पृथकशक्तिकल्पने गौरवादस्तु जात्यादिनां धर्मत्वेन रूपेण त्वादिभावप्रत्ययवाच्यता। तथा च न शक्त्यानम्त्यम्। स च द्रव्यनिष्ठो जात्यादिर्धर्मो योग्यद्रव्येतरावृत्तित्वे सति सकलयोग्यद्रव्यवृत्तित्वादसाधारण इत्युच्यते। एवं गोत्वत्वादिधर्मोऽपि परम्परया द्रव्यवृत्तित्वादसाधारण इति घटत्वं घटत्वत्वमित्यादौ घटादिवृत्तिरसाधारणो धर्म इति बोध इति वदन्ति। त्वादिप्रत्ययप्रकृत्यर्थे प्रकारतामापन्नं धर्ममात्रं त्वादिभावप्रत्ययवाच्यमितीष्यत इत्यर्थः। कृत्स्नारथकमात्रशब्देनोभयविधस्यापि शक्यतावच्छेदकधर्मस्य संग्रहः। सच शक्यतावच्छेदको धर्मो गुरुर्लघुर्वा कीदृशोऽप्यस्तु न तत्र वै म्यं कर्तुं शक्यं मावग्रहणसामर्थ्यात्, कम्बुग्रीवादिमान्नास्तीति प्रतीत्या कम्बुग्रीवादिमत्त्वस्याभावप्रतियोगितावच्छेदकत्वस्वीकारेण गुरुधर्मस्याप्यवच्छेदकत्वस्वीकारे बाधकाभावाच्चेति भावः। तदेतदाह-न त्वत्र लघुगुरुविचार इति। वस्तुतस्तु गुरुधर्मेऽवच्छेदकत्वकल्पने गौरवमेव नास्तीत्याह-तत्तव्यक्तीति। राज्जौ सर्पवत्सर्वस्यापि जगतो ब्रह्मण्यारोपेण ब्रह्मसत्तैव सर्वत्रावभासते। सा च ब्रह्मसत्ता गोघटादितत्तद्व्यक्तिविशेषैः परिच्छिन्न सती गौत्व-घटत्व, गोत्वत्व-घटत्वत्वादिरूपेण व्यवहारविषया जायते। तदुक्तं वाक्यपदीये-संबन्धिबेदादिति। गोत्वादिधर्माश्रयाणां गवादिव्यक्तीनां भेदाद् भिद्यमाना-गवेतरावृत्तित्वे सति सकलगोवृत्तित्वेन भिन्नेव प्रतीयमाना गवादिषु विद्यमाना या ब्रह्मसत्ता सैव जातिरित्युच्यते। तस्यां जातिशब्दवाच्यायां सत्तायां सर्वे शब्दा वाचकत्वेन व्यवस्तिता इति तदर्थः। जातिः पदार्थ इति वादिनां मतेऽनुकूलमिदम्। सकलशब्दवाच्या ब्रह्मसत्तैवेत्येतद्विशदयति-तामिति। तत्तद्व्यक्तिविशेषोपरक्तां ब्रह्मसत्तामित्यर्थः। प्रातिपदिकार्थं धात्वर्थं च-क्रियां च प्रचक्षते-कथयन्ति, आकृत्यधिकरणन्यायेनेत्यर्थः। नित्या-उत्पत्तिविनाशादिविकाररहिता, अत एव सैव सत्ता महानात्मेत्युच्यते, त्वतलादयश्च भावप्रत्ययास्तामाहुरिति योजना। एवं च सर्वेषां धर्माणां ब्रह्मसत्तारूपत्वाद् ब्रह्मसत्तायाश्च नित्यत्वान्न तत्र गुरुलघुविचारावसर इति भावः। शब्दप्रवृत्तिनिमित्तरूपधर्मस्य त्वतलादिभावप्रत्ययवाच्यत्वे वार्तिककारसंमतिमाह-उक्तं चेत्यादिना। तस्य भावस्त्वतलाविति सूत्रे वार्तिककारैर्यदुक्तं तदनुवदति-यस्य गुमस्येत्यादिना त्वतलावितीत्यन्तेन। यस्य गुणस्येति। अत्र गुणपदं न रूपरसादिगुणपरं, किंतूपकाकपरिमित्याशयेनाऽऽह-विशेषणतया भासमानमिति। उक्तं च कैयटेन-`गुणशब्देन यावान्, कश्चित्पराश्रयो भेदको जात्यादिः सर्व इह गृह्यते' इति। एवं च प्रकृतस्थले गुणशब्द उपसर्जनभूतार्थवाचक इति यावत्। भावादित्यस्यार्थं व्याचष्टे-आश्रयत्वादिति। द्रव्य इत्यस्यार्थमाह--विशेष्य इति। शब्दनिवेश इति व्याचष्टे-शब्दप्रवृत्तिरिति। यं जात्यादिमुपसर्जनभूतमर्थं पुरस्कृत्य शब्दोऽर्थमभिधातुं प्रवर्तत इत्यर्थः। तस्मिन् वाच्य इति। तादृशे विशेषणीभूते जात्यादावर्थे वाच्ये सतीत्यर्थः। त्वतलाविति। त्वतलादयो भावप्रत्यया भवन्तीति शेषः। ततश्च जात्यादिशब्दानां मध्ये कीदृशः शब्दात्कीदृशेऽर्थे त्वादिर्भावप्रत्ययः पर्यवसितस्तद्दर्शयति-तथा चेति। रूपादीति। आदिना रसगन्धादेर्गुणपरशुक्लादेश्च ग्रहणम्। जाताविति। रूपत्वशुक्लत्वादिजातावित्यर्थः। त्वादिर्भावप्रत्ययो भवतीति शेषः। गुण इति। गुणिपरशुक्लादिभ्यो गुण इत्यर्थः। गुणपरेभ्यस्तु तेभ्यो जाताविति ज्ञेयम्। अण्वादिशब्दा नित्यं गुणिपरा एवेति तेभ्यः परिमाणरूपे गुण एव त्वादिर्भावप्रत्ययः। परिमाणं चतुर्विधं-अणु पहद्दीर्घं ह्रस्वं चेत्यस्याण्वादिवस्तुवृत्ति अणुत्वादि परिमाणं चतुर्विधमित्यर्थो बोध्यः। पाचकादीति। क्रियाशब्देभ्यः क्रियायां, घटादिजातिशब्देभ्यस्तु जातौ त्वादिर्भावप्रत्ययो भवतीति बोध्यम्। रूपादिशब्दानामिति। यतो रूपादिशब्दानां जातिप्रकारकबोधजनकत्वमतस्तेभ्यो जातौभावप्रत्यय इति भावः। पाचकादीति। पाकक्रियाश्रयश्चैत्र इत्येवं क्रियायकारकबोधजनकत्वे क्रियाशब्देभ्यः कियायां भावात्ययः। संसर्गप्रकारकेति। कृदन्ते हि क्रियया नियमेन भेदप्रतीतेः पाचक इत्यादौ पाकक्रियासंबन्धवान् देवदत्त इत्येवं संबन्धप्रकारकबोधानुभवात्क्रियाकारकसंबन्धज्ञानादेव पाचकादिशब्दप्रवृत्तिरिति क्रियाशब्देभ्यः संबन्ध एव भावप्रत्यय इति संसर्गप्रकारकबोधजनकत्ववादिनां मतमिति भावः। सूपपादेति। त्वादिर्भावप्रत्ययो जातावेवेत्यादिनियमाभावादित्यशयः। तत्र-जात्यादिवाचकभावप्रत्ययान्तानां मध्ये। घटत्वत्वादिशब्देषु व्यक्तय एव त्वादिभावप्रत्ययवाच्या इति पक्षान्तरमाह-जातिवाचकानामिति। घटत्वादिशब्दानामित्यर्थः। प्राधान्येन जातिवाचकानामिति यावत्। यद्यपि घटादिशब्दा अपि जातिवाचका एव तथापि न ते प्राधान्येन जातिभाहूः, किंतु प्रकारतयेति भावः। एवं च जातिवाचकानामित्यस्य प्राधान्येन जातिवाचकानां त्वादिभावप्रत्ययानामित्यर्थः। पर्यवस्यति। व्यक्तय एवेति। त्वादिभावप्रत्ययाः शक्ताः। तादृशभावप्रत्ययानां शक्या जातिः। तादृशजातेः शक्यतावच्छेदकं घटत्वत्वादिकं न, किंतूपस्थितत्वात्त्वादिप्रत्ययप्रकृतिवाच्या घटादिव्यक्तय एव शक्यतावच्छेदिका भवन्ति। ब्रह्मसत्तारूपा या घटत्वजातिः सा घटत्वशब्दस्य शक्या, तस्यां शक्यताऽस्ति तादृशशक्यतावच्छेदकं तु घटव्यक्तिरेव। ब्रह्मसत्ताया व्यक्तिरूपोपाधिभिरेव भेद इति सिद्धान्ताच्चेति भावः। ननु शक्यनिष्ठस्यैव शक्यतावच्छेदकत्वं सर्वत्र दृश्यते। यथा शक्या गोव्यक्तिः, तन्निष्ठगोत्वस्य शक्यतावच्छेदकत्वम्। स्वेतरावृत्तित्वे सति सकलस्ववृत्तित्वात्। स्वपदेन गोव्यक्तिग्रहणेन लक्षणसमन्वयः। व्यक्तिनिष्ठा हि जातिः, न तु जातिनिष्ठा व्यक्तय इति कथं जातेरवच्छेदका व्यक्तय इति चेन्न। शक्यनिष्ठस्यैव शक्यतावच्छेदकत्वे प्रमाणाभावेन शक्याधिकरणस्यापि शक्यतावच्छेदकत्वे बाधकाभावात्। तथा च स्वेतरावृत्तित्वे सति सकलस्ववृत्तित्वरूपाधेयतासंबन्धेन व्यक्तीनां जात्यवच्छेदकत्वं सुवचमिति भावः। अत्र स्वपदेन व्यक्तिर्ग्नाह्या। यत्पूर्वं प्राधान्येन जातिवाचिनां घटत्वादिशब्दानां घटत्वत्वादिकं शक्यतावच्छेदक्त्वमुक्तं तदपेक्षयेदं पक्षान्तरमुक्तमिति ध्येयम्। एवं जातिगुणादिचतुर्विधेषु शब्देषु तत्र तत्र त्वाद्यर्थमुक्त्वा शाब्दबोधमाह-तथा चेति। घटत्वमित्यत्र प्रकृत्यर्थस्य घटत्वधर्मस्य स्वेतरासमवेतत्वविशिष्टनिखिलस्वसमवेतत्वसंबन्धेन प्रकारत्वादसादारणधर्मलाभ इत्याशयेनाऽऽह-घटवृत्तिरसाधारणो धर्म इति बोध इति। असाधारणधर्मत्वेन बोधो, नतु जात्यादिनेति भावः। प्रकारतया जातिवाचकघटशब्दाद् घटत्वावच्छिन्नो घट इति बोधात्तत्र घटत्वस्य प्रकारतया भानात्तत्रैव त्वादिर्भावप्रत्ययः, किंतु घटत्वस्य घटत्वात्मकविशेषरूपेण जात्यात्मकसामान्यरूपेण वा न बोधोऽपितु असाधारणधर्मरूपेण बोध इष्यत इत्याशयेनाऽऽहघटवृत्तिरसाधारणो धर्म इति बोध इति। बोध इत्यस्य घटत्वशब्दादिति शेषो बोध्यः। घटत्वशब्दाद् द्वितीयत्वादिभावप्रययचिकीर्षायां प्राधान्येन त्वादिभावप्रत्ययवाच्यघटत्वजातेरवच्छेदकं-घटव्यक्तिरिति तत्रैव द्वितीयभावप्रत्ययः। तथा च घटत्वत्वमित्यस्य घटव्यक्तिरित्यर्थात्प्राधान्येन घटव्यक्तिर्बुध्यत इति ज्ञेयम्। यदुक्तं `सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छुणु' इति तत्र द्वितीयं पक्षं वक्तीत्याशयेनाऽऽह-पक्षान्तरमिति। प्रकृतिजन्यबोधे जातिगुणादिवच्छब्दस्यापि प्रकारतया भासमानत्वात्तत्तच्छब्द एव त्वादिभावप्रत्ययवाच्य इति पक्षान्तरमित्यर्थः। यद्वेति-कारिकास्थयद्वाशब्दो यद्वाशब्दघटितवार्तिकसूच्नायेत्याह-तत्सूचनप्रयोजनकोऽपीति। तस्य-यद्वाशब्दघटितवार्तिकस्य, सूचनं प्रयोजनं यस्य स तथार्थक इत्यर्थः। अपिशब्दो घटादिवृत्तिरसाधारणो धर्मस्त्वादिवाच्य इति पूर्वोक्तपक्षसंग्राहकः। यद्वाशब्दघटितं वार्तिकमनुवदति-यद्वा सर्वे भावा इति। वार्तिकोक्तेरित्युक्त्याऽयं पक्षो वार्तिककारसंमत इति नात्राप्रामाण्यशङ्काऽपि कार्येति सूचितम्। बृहद्भूषणोक्तं वार्तिकव्याख्यानमाह-वन्तीति। वाचकत्वेनेति। वाचकतासंबन्धेनेत्यर्थः। प्रवर्तन्त इत्यस्यार्थेष्विति शेषः। धातूनामनेकार्थत्वाद्भूधातुरत्र प्रवृत्त्यर्थकः। प्रवृत्तिश्चात्र प्रयोगरूपा। तथाचार्थेषु वाचकत्वेन प्रयुज्यन्ते ते भावा इत्यर्थाद्भावशब्दोऽत्र शब्दार्थक इत्याह-भावा शब्दा इति। स्वेनार्थेनेति। स्वस्यार्थे, इत्यर्थः। भवन्तीत्यस्यार्थमाह-प्रवर्तन्त इति। एवं च सर्वे शब्दाः, स्वस्य वाच्यो योऽर्थस्तेन भवन्ति तत्र वाचकत्वेन प्रवर्तन्त इति वाच्योऽर्थः। अर्थप्रत्यायनायैव हि शब्दप्रयोगाच्छब्दप्रवृत्तावर्थस्य करमत्वविवक्षया स्वेनार्थेनेति तृतीयेति भावः। शब्दप्रवृत्तौ निमित्तभूतो योऽर्थः स च द्विविधः। वाच्यः प्रवृत्तिनिमित्तं च। वाच्यं च द्रव्यं शब्दो वा। प्रवृत्तिनिमित्तं त घटपटादिजातिशब्देषु घटत्वादिजातिः, पाचकादिशब्देषु क्तिया, राजपुरुषादिशब्देषु संबन्धः, डित्यादिषु संज्ञेत्यादिसर्वमनुभवानुरोधादवसेयम्। अत इति। यतः शब्दप्रवृत्तौ द्रव्य-शब्द-जात्यादिरूपोऽर्थो निमित्तमस्तीत्यतो हेतोरित्यर्थः। स इति। द्रव्य-शब्द-जात्यादिरूपोऽर्थ इत्यर्थः। तेषामिति। सर्वशब्दानामित्यर्थः। भाव इति। प्रवृत्तिनिमित्तमित्यर्थ इति समुदितोऽर्थः। एवं च जात्यादिवच्छब्दस्यापि शब्दप्रवृत्तौ निमित्तत्वाच्छब्दोऽपि शब्दप्रवृत्तिनिमित्तं भवति। सारे तु स्वेनार्थेनेत्यत्र स्वशब्द आत्मवाची न त्वात्मीयवाचीत्याशयेन स्वेन रूपेणेत्युक्तम्। शब्दस्य स्वं रूपं शब्द एव, न त्वर्थः, तस्याऽऽत्मीयत्वात्। तथा च शब्दाः स्वरूपे-शब्दस्वरूपेऽर्थे वाचकत्वेन प्रवर्तन्ते इति व्याख्यातम्। एतदनुरोधेन `स तेषां भावः' इत्यत्र सः-शब्दस्वरूपात्मकोऽर्थः, तेषां--शब्दानाम्, भावः-प्रवृत्तिनिमित्तमित्यर्थ इत्युक्तम्। एतेन सर्वेषां शब्दानां शब्द एव प्रवृत्तिनिमित्तमिति स्पष्टमेवोक्तमिति भावः। ननु शब्दस्य प्रवृत्तिनिमित्तत्वं कथम्? शक्ये प्रकारस्यैव-शक्यार्थनिरूपितविशेषणस्यैव प्रवृत्तिनिमित्तत्वात्। यथा घटपदशक्योऽर्थः कम्बुग्रीवादिमान पदार्थः, तन्निष्ठविशेष्यतानिरूपितप्रकारता घटत्वे वर्तत इति कृत्वा घटत्वस्यैव घटपदप्रवृत्तिनिमित्तत्वादित्याशङ्कां दूरीकर्तुमाह-अयं माव इत्यादि। घटः, पटः शुक्लः, पाचकः, इत्यादौ जातिगुणक्रियाणां घटादिद्रव्यनिरूपितप्रकारतायाः सर्वानुभवसिद्धत्वात्तत्तुल्यन्यायेन शब्दस्यापि द्रव्यनिरूपितप्रकारतां साधयितुमाह-अर्थवादिति। जात्याद्यर्थवदित्यर्थः। यथा जात्यादिरर्थोद्रव्यनिरूपितविशेषणमिति प्रसिद्धमुदाहरणेषु तथा शब्दोऽपि द्रव्यनिरूपितविशेषणमित्यस्य प्रसिद्धमुदाहरणमाह-हरिहरनलेति। शब्देभ्य इति। हर्यादिवशिष्ठान्तशब्देभ्य इत्यर्थः। तत्तद्वाच्यः कश्चिदासीदिति। हर्यादीनाममिन्द्रियागोचरतयोन्द्रियार्थसंनिकर्षाभावेन हरित्वादिविशैषरूपेणानुपस्थित्या हरित्वादिविशेषधर्मावच्छिन्ने शक्तिग्रहाभावेन हरित्वादिधर्मप्रकारकशब्दबोधासंभवात्सामान्यरूपेणैव बोधोऽभ्युपेयः। इदं हरिहरनलादिपदं क्वचिच्छक्तं साधुपदत्वादिति सामान्यतोऽनुमित्यात्मकशक्तिग्रहसत्त्वात्। तत्र सामान्यत उपस्थितेऽर्थे विशेषणाकाङ्क्षायामन्यस्य हरित्वादेरसंभवादुपस्थितशब्दस्यैव विशेषणत्वमङ्गीकृत्य हर्यादिशब्दवाच्यः कश्चिदर्थ आसीदिति शब्दप्रकारकः सामान्यार्थविशेष्यकः शाब्दबोधोऽभ्युपगमनीय इति भावः। अन्यथेति। अर्थे शब्दस्य विशेषणत्वानङ्गीकार इत्यर्थः। ग्रामीणानामिन्द्रियगोचरतया संनिकर्षसत्त्बाद्बनौषधिषु शक्यतावच्छेदकजातिप्रकारकशक्तिग्रहसंभवान्नागरिकानित्युक्तम्। नागरिकाणां प्रायोऽसंनिकर्षेण जातिप्रकारकशक्तिग्राहासंभवाद्विशेषरूपेण वनौषधीनां ज्ञानासंभव इति भावः। नागरिकेत्युक्तिरपि विशेषरूपेणानभिज्ञपरा। तेन कस्यचिन्नागरिकस्य विशेषरूपेण बोधेऽपि न क्षतिः। अबोधकत्वापत्तेरिति। विशेषरूपेण शक्तिग्रहाभावात्काकजङ्घा-आखुपर्णी-अश्वकर्णात्यादीनामोषधिविशेषे रूढानां शब्दानां बोधजनकत्वं न स्यादित्यर्थः। द्रव्ये शब्दस्य प्रकारत्वाभ्युपगमे तु अश्वकर्णीत्यादिशब्दवाच्यः कश्चिदोषधिविशेष इत्येवं सामान्यतोऽर्थबोधजनकत्वं भवत्येवेति भावः। एवमेवेति। एतत्पदवाच्य इत्याकारक एव, पदप्रकारक एवेति यावत्। न तु-तत्तज्जात्यादिरूपेणेति। घटपटत्वादिविशेषरूपेणेत्यर्थः। छब्दप्रकारकबोधाभ्युपगमे यत्फलितं तदाह-तथा चोभयमिति। जात्यादि, शब्दश्चेत्युभयं शक्यमावच्छेदकमित्यर्थः। तत्र शब्दस्य शक्तिसंबन्धेन शक्यतावच्छेदकत्वं, जात्यादेस्तु यथायथं समवायादिसंबन्धेनेति बोध्यम्। यस्य-पुरुषस्य। तथा शक्तिग्रह इति। घटपटत्वादिजात्यादिविशेषरूपेण शक्तिग्रहो जातोऽतीत्यर्थः। तस्य-पुरुषस्य। जात्यादीति। जात्यादिविशेषरूपेणैवार्थोपस्थितिर्जायत इति बोधोऽपि विशेषरूपेणैव भवतीत्यर्थः। पदप्रकारक इति। विशिष्य नापेक्षित इति। घटपटत्वादिविशेषरूपेण नापेक्षित इत्यर्थः। यद्यपि स्वेनार्थेनेत्यत्र स्वशब्दो नाऽऽत्मीयवाची, किंत्वात्मवाचीत्यङ्गीकृत्य सर्वे भावाः सर्वे शब्दाः स्वेन रूपेण=शब्दस्वरूपेणार्थेन प्रवर्तन्त इति सारीयव्याख्यानानुसारेण शब्दस्यैव सर्वशब्दप्रवृत्तिनिमित्तत्वं लभ्यते तथापि घटत्वादिविशेषरूपेण गृहीतशक्तिकपुंसो घटादिपदाद् घटत्वादिप्रकारकबोधस्यानुभवसिद्धस्य सर्वजनीनत्वात्तदपलापस्य कर्तुमशक्यत्वात्प्रसिद्धार्थकशब्दस्थले प्रायः शब्दप्रकारकबोधस्याननुभवाच्च सारीयव्याख्यानानुसरणपक्षेऽपि जात्यादीनां शब्दप्रवृत्तिनिमित्तकत्वमङ्गीकरणीयम्। अप्रसिद्धार्थकशब्दस्थल एव प्रायः शब्दप्रकारकबोधदर्शनादिति भावः। ननु शब्दयकारकः शक्तिग्रहो यदि विशेषरूपेण नापेक्षितस्तर्हि केन रूपेणापेक्षितस्तदाह-किंत्विति। इत्यादिरूप एवेति। एतत्पदवाच्यः कश्चिदर्थ इत्येवंरूपः, एतत्पदवाच्यत्वरूपसामान्यरूपेणापेक्षित इत्यर्थः। विशिष्यागृहीतेति। नलत्वादिविशेषरूपेणगृहीता शक्तिर्येषां ते तथा, तेभ्यो नलादिशब्देभ्य इत्यर्थः। तथैवेति। पदप्रकारक एवेत्यर्थः। नलादिपदवाच्यः कश्चिदर्थ इति सामान्यतो नलादिपदवाच्यत्वेन नलादिपदानां शक्तिग्रहाच्छक्तिग्रहवैलक्षण्याद्बोधवैलक्षण्यमिति भावः। तथा चेति। शब्दस्य प्रकृतिजन्यबोधे प्रकारत्वे चेत्यर्थः। शब्दोऽपीति। अपिशब्दो जात्यादिसमुच्चायकः। त्वप्रत्ययार्थ इति। शब्दो जात्यादि च त्वतलादिभावप्रत्ययवाच्योऽर्थ इत्यर्थः। अन्ये तु येषां मते शब्दः प्रवृत्तिनिमित्तं, तेषां मते शब्दस्त्वादिभावप्रत्ययार्थः। येषां मते जात्यादिरूपोऽर्थः प्रवृत्तिनिमित्तं, तेषां मते जात्यादिस्त्वाद्यर्थ इत्याहुः। परे तु `यद्वा सर्वे भावाः स्वेनार्थेन भवन्तीत्यादिवार्तिकवचनस्यायमर्थः-अत्र स्वशब्द आत्मीयपरः, न त्वात्मपरः। शब्दस्य द्विविधोऽर्थो वाच्यः-घटादिः प्रवृत्तिनिमित्तरूपश्च। तदन्यतराभिधाने त्वादिर्भावप्रत्ययः। तत्रान्त्यो घटत्वमित्यादौ। तत्र प्रकृतिरर्थपरैव। अर्थस्य घटादेः प्रत्ययार्थे जात्यादिरूपेऽन्वयसंभवात्। कृत्वं डित्थत्वमित्यादावाद्यः। तत्र प्रत्ययार्थानुपपत्त्या शब्दपरैव प्रकृतिः, शब्दपरात् क्वादिपदाद् व्यक्तिरूपेऽर्थे त्वादिर्भावप्रत्ययः। एवं च डित्थत्वडित्थशब्दयोः, कुत्वकुशब्दयोः पर्यायता। प्रकृत्यर्थप्रत्ययार्थयोः संबन्धस्त्वाद्यन्तसमुदायशक्य इत्यूचिरे। प्रपञ्चितमिति। बृहद्भूषणे विस्तरेण निरूपितम्।। 51 ।।
इति वैयाकरणभूषणसाव्याख्यायां शांकर्यां त्वादिभावप्रत्ययार्थनिर्णयः।
रङ्गभट्टतनूजेन शंकरेम विनिर्मिते।
सारीयेऽस्मिन्विवरणे पूर्णस्त्वाद्यर्थनिर्णयः।। 9 ।।