सामग्री पर जाएँ

वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/निपातार्थनिर्णयः

विकिस्रोतः तः
← नञर्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
निपातार्थनिर्णयः
[[लेखकः :|]]
भावप्रत्ययार्थनिर्णयः →


।। अथ निपातार्थनिर्णयः ।।
निपातविशेषनञर्थनिरूपणप्रसङ्गेन तदितरसकलनिपातानामर्थं निरूपयन्‌प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तमिति सूचयन् भूमकामारचयति-प्रादयो द्योतका इत्यादि। द्योतकत्वरूपशक्तियुक्ताः। द्योतकत्वं च प्रायेण स्वसमभिव्याहृतपदगतशक्त्युन्नायकत्वम्। वैषम्ये बीजाभावादिति। उपसर्गत्वेन द्योतकत्वं, चादित्वेन च वाचकत्वमित्येवंभेदकरणे प्रमाणाभावात्। प्रादिचाद्युभयवृत्तिनिपातत्वेन हेतुना प्रादीनामिव चादीनामपि द्योतकत्वकल्पनस्यैव लाघवेन युक्तत्वाच्चेति भावः। इत्याद्याशयं मनसिकृत्य निपातानां द्योतकत्वं समर्थन्नाह-द्योतकाः प्रादयो येनेति। येन हेतुना प्रादयो द्योतका इष्यन्ते तेनैव हेतुना चादयो निपाता अपि द्योतका इत्यङ्गीकार्यम्। येन हेतुना प्रादयो द्योतकास्तमेव हेतुं विशदयन्नाह-अयं भाव इति। ईश्वरमनुमवतीत्यादाविति। आदिपदात्प्रजयतीत्यादेः परिग्रहः। अनुभवादिरित्यादिपदेन प्रकृष्टजयादेः संग्रहः। अनुभवतीत्यादौ योऽयमनुभवादिरर्थः प्रतीयते स किं तादृशप्रयोगघटकीभूतधातोरर्थः? नेत्याह-आपत्तेरिति। यदि सोऽनुभवादिर्धातोः शक्यः स्यात्तर्हि उपसर्गरहिते भवतीत्यादावपि अनुभवाद्यर्थः प्रतीयेत, नैव तु प्रतीयत इति स नैव धातोः शक्योऽर्थ इत्यर्थः। नन्वन्वयव्यतिरेकाभ्यामुपसर्गवाच्यः सोऽस्त्वित्याशङ्क्य परिहरति-नोपसर्गार्थ इति। तथआ सतीति। अनुभवतीत्यादौ प्रतीयमानस्यानुभवाद्यर्थस्योपसर्गवाच्यत्वे सतीत्यर्थः। अनन्वयापत्तेरिति। अनुभवतीत्यत्र लडर्थकर्तृको वर्तमानकालिकोऽनुभवानुकूलो व्यापार इत्यनुभवसिद्धसार्वजनिकबोधेऽनुभवार्थस्योपसर्गवाच्यत्वेन धातुवाच्यत्वाभावात्तस्य लडर्थकर्तर्यन्वयो न स्यात्। तत्र हेतुमाह-प्रत्ययानामिति। स्वप्रकृत्यर्थेनान्वितो यः स्वार्थस्तद्बोधकत्वं प्रत्ययानामिति नियमात्। प्रकृतेऽनुभवरूपार्थस्य धात्ववाच्येत्वेन तिङर्थकर्तृकोऽनुभवानुकूलव्यापार इत्येवमन्वयासंभवादित्यर्थः। ननु प्रत्ययानां स्वप्रकृतितत्समभिव्याहृतान्यत<*उपसर्गवाच्यार्थस्य धात्वर्थेऽन्वयं कृत्वा विशिष्टस्य प्रत्ययार्थेऽन्वयात्प्रत्ययार्थस्यानु भवान्वितत्वम्। नामार्थधात्वर्थयोः साक्षाद्रभेदेन नान्वय इति व्युत्पत्तिस्तु निपातातिरिक्तविषयेति भावः।>रार्थान्वितस्वार्थबोधकत्वमित्येव नियमः कल्प्यतां तथा च चानुभवतीत्यत्र तिङ्प्रत्ययप्रकृतिभूतभूधातुसमभिव्याहृतानूपसर्गवाच्यानुभवरूपार्थान्वितव्यापारान्वितकर्तृरूपार्थबोधकत्वातिङस्तिङर्थकर्तृकोऽनुभवानुकूलो व्यापार इत्यन्वयोपपत्तेः प्रकृते न दोष इत्याशयेन दोपान्तरमाह-अनुगच्छतीत्यादाविति। अत्रानुभवरूपार्थवाचकत्वेनाभिमतस्यानोः प्रयोगसत्त्वात्तदनुरोधेन संयोगानुकूलव्यापारविशेषवाचकस्यापि गमिधातोर्व्यापारसामान्यदाचित्वाङ्गीकारेण तिङर्थकर्तृकोऽनुभवानुकूलव्यापार इत्यनुभवार्थप्रतीत्यापत्तेरिति भावः। वस्तुतस्तु उत्तरदेशसंयोगावरुद्धे व्यापारविशेषेऽनूपसर्गवाच्यानुभवार्थस्य बोधेनान्वयासंभवान्नानुभवार्थप्रतितिसंभव इति गमधातोर्व्यापारसामान्यवाचित्वस्वीकारस्याप्रामाणिकत्वमिति भावः। तस्मात्प्रत्ययानां प्रकृत्यर्थेत्यादिव्युत्पत्तौ तत्समभिव्याहृतेतिनिवेशस्य गौरवादप्रामाणिकत्वाच्चानुभवार्थस्यानूपसर्गवाच्यत्वेन धातुवाच्यत्वाभावात्तस्य तिङर्थकर्तर्यन्वयो न स्यादित्येव प्रागुक्तं दूषणं बोध्यम्। तथा च नामार्थधात्वर्थयोरिति व्युत्पत्तिरपि निपातेतरविषयन्वेन न संकोच्या भवतीति भावः। अनूपसर्गविशिष्टतद्धातुवाच्य इतिचेत्तदपि नेत्याह-न विशिष्टार्थ इति। गौरवादिति। विशिष्टस्योभयरूपत्वेन विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वे(वाचकत्वकल्पने)गौरवादित्यर्थः। ननु प्रजयतीत्यत्र जयो धातुवाच्यः, प्रकर्षः प्रोपसर्गवाच्य इति न शक्ततावच्छेदकगौरवमिति चेत्-उच्यते-प्रकर्षस्य नामार्थतया धात्वर्थजयेनान्वयो न स्यात्, नामार्थधात्वर्थयोः साक्षाद्भेदेन नान्वय इति व्युत्पत्तेः। नामार्थेत्यत्र नामनि निपातातिरिक्तेति विशेषणनिवेशे तुगौरवमप्रामाणिकत्वं चेति भावः। उपसंहरन्नाह-तथा चेति। निरुक्तरीत्या धातोरुपसर्गस्य चानुभववाचकत्वासंभवे चेत्यर्थः। स्वसिद्धान्तमाह-दातोरेवेति। भ्वादितत्तद्धातोरेवेत्यर्थः। एवशब्देनोपसर्गव्यावृत्तिः। ननु वृत्तिं विना कथमनुभवार्थप्रतीतिरत आह-विद्यमानत्वादिवाचकस्यास्तु लक्षणेति। विद्यमानत्वेत्यादिषष्ठ्यन्तं धातोर्हेतुगर्भं विशेषणम्। यतो धातुर्विद्यमानत्वादिवाचकः-घटो भवतीत्यादौ विद्यमानत्वाद्यर्थप्रतीतेः, अतो धातोरेव शक्यसंबन्धरूपा लक्षणा संभवति, केवलस्योपसर्गस्याप्रयोगात्कस्याप्यर्थस्य वाचकत्वाभावेन शक्यसंबन्धरूपा लक्षणोपसर्गस्य न संभवतीत्यर्थः। विद्यमानत्वादीत्यादिशब्देनोत्पत्तेः संग्रहः। उपसर्गप्रयोगस्य प्रयोजनमाह-उपसर्गस्त्विति। धातोस्तादृशेऽर्थे लक्षणावृत्तिस्वीकारे तात्पर्यग्राहक इत्यर्थः। तात्पर्यत्वं च धातोरनुभवादिरूपलाक्षणिकार्थप्रतितिर्भवत्वितीच्छयोच्चरितत्वम्। नन्वेवं प्रकारेणोपसर्गाणां तात्पर्यग्राहकत्वं लभ्यते, न द्योतकत्वमिति द्योतकत्वप्रवादो न संगच्छत इत्यत आह-तथा च तात्पर्यग्रांहकत्वमेवेत्यादि। तादृशद्योतकत्वं च वाचकत्वेन त्वदभिमतेषु चादिनिपातेष्वप्यस्तीत्याह-तच्चेति। न केवलप्रतिज्ञया काचिदर्थसिद्धिरिति प्रतिज्ञातमर्थं चादिषु योजयित्वा दर्शयति-चैत्रमिवेत्यादि। इवशब्दसमभिव्याहारे चैत्रपदं लक्षणया चेत्रसदृशपरं, इवशब्दस्तु चैत्रपदस्य चेत्रसदृशे लक्षणायां तात्पर्यग्राहकः। चैत्रनिरूपितसादृश्यविशिष्टं पश्यतीत्यर्थः। तथा च ययैव युक्त्या प्रादयो द्योतकास्तयैव युक्त्वा चादयोऽपि द्योतका भवेयुरिति नैयायिककृतं वैषम्यमयुक्तमिति सूचयन्नाह-सुवचत्वादिति। सादृश्यविशिष्टं चैत्रपदलक्ष्यं, इवशब्दस्तात्पर्यग्राहक इत्यर्थस्य सुखेन वक्तं शक्यत्वादित्यर्थः। तत्रद्योतकत्वे। युक्त्यन्तरमाह-उपास्येते इति। हरिहराभिन्नलडर्थकर्मनिष्ठोपासनानुकूलो व्यापार इति बोधः। अत्र हि प्रतीयमानस्योपासनरूपार्थस्यापसर्गवाच्यत्वं, उपसर्गविशिष्टधातुवाच्यत्वं, उत धातुमात्रवाच्यत्वं वेति त्रिधा विकल्प्य नाऽऽद्य इत्याह-तथा सतीति। उपासनरूपार्थस्योपसर्गवाच्यत्वे सतीत्यर्थः। स्वार्थेत्यादि। स्वं-धातुः, तदर्थस्तद्वाच्यं यत्फलं तेन विभिन्नाधिकरणको यो व्यापारस्तद्वाचित्वं सकर्मकत्वमिति तदर्थः। तथा च आस् धातोरुपासनरूपफलवाचकत्वाभावेन सकर्मकत्वाभावात्ततः कर्मणि लकारो न स्यात् न द्वितीय इत्याह-गौरवादिति। उपसर्गविशिष्टधातुवाच्यत्वे विशिष्टानुपूर्व्याः शक्ततावच्छेदकत्वकस्पने गौरवादित्यर्थः। किं च विशिष्टस्य भ्वादिगणे पाठाभावादद्धातुसंज्ञानापत्तिः। पाठः कल्प्यत इति चेत्-उपसर्गविशिष्टस्य द्विर्वचनाद्यापत्तिरिति बोध्यम्। यदि उपासनरूपार्थस्य धातुमात्रवाच्यत्वमिति तृतीयं कल्पमङ्गीकरोषि तर्हि उपोपसर्गसमभिव्याहारे प्रतीयमानो योऽर्थ उपासनरूपस्तत्र आस् धातोर्लक्षणेति समागतं द्योतकत्वं, उपोपसर्गस्य तात्पर्यग्राहकत्वकल्पनादिति भावः। ननु धातोः सकर्मकत्वाभावऽपि उपास्यत इत्यत्र भावे लकारोऽस्त्वित्याशयेनाऽऽह--दृश्य इत्यत्र कर्मणीति शेष इति। भावे लकारे उपास्येते हरिहरौ, इति प्रयोगो न स्यात्। तथा चैतत्प्रयोगसिद्ध्यर्थमुपोपसृष्टस्याऽऽसूधातोः सकर्मकत्वमवश्यमेष्टव्यं निरुक्तरीत्येति भावः।। 42 ।।
तत्-द्योतकत्वम्। चादिष्वपीति। नैयायिकमते वाचकत्वेनाभिमतेषु चादिष्वपीत्यर्थः। तुल्यं-सममित्याह-तथाऽन्यत्र निपात इति। अन्यत्रेति। प्रादिभ्योऽन्यस्मिन्निपातेऽपि कर्मणि लकारो दृश्यत इत्याह-साक्षादिति। इन्द्रियजन्यप्रतीतिविषयताशालिप्रत्यक्षानुकूलो व्यापारोऽर्थः। अलंक्रियत इति। शोंभानूकूलो व्यापारविशेषः। ऊरीति। स्वीकृत्यनुकूलो व्यापारः। अत्रापीति। साक्षात्क्रियते इत्याद्युक्तेपूदाहरणेष्वपीत्यर्थः। तत्तदर्थ इति। प्रत्यक्षाद्यर्थे, इत्यर्थः। कर्मणीति। साक्षात्कारादिरूपफलाश्रय इत्यर्थः। तत्तदर्थोति। प्रत्यक्षा(साक्षात्कारा)द्यनुकूलव्यापारार्थबोधकत्वमित्यर्थः। साक्षात्प्रभृतिनिपातसमभिवायाहारे प्रतीयमानो योऽर्थस्तत्र धातोर्लक्षणयेति भावः। तत्फलमाह-लकारेति। कर्मणि लकारसिद्ध्या इत्यर्थः। तथा चोपसर्गवच्चादिनिपातानामपि द्योतकत्वं युक्तमित्याशयः। यदि तु निपातसमभिव्याहारे प्रतीयमानेऽर्थे धातोः शक्तिः, धातूनामनेकार्थत्वात्, निपातस्तु स्वसमभिव्याहृतपदगतशक्त्युन्नायकः, शक्त्युन्नायकत्वं तु शक्त्युद्बोधकत्वं, शक्त्युद्बोधकत्वमेव च द्योतकत्वमित्याश्रीयते तर्हि `तत्तदर्थवाचकत्वं' इति यथाश्रुतमेव साध्विति मन्तव्यम्। साक्षात्काराद्यर्थे कृधातोः सकर्मकत्वकल्पनं व्यर्थमित्याक्षिपति-यद्यपीति। सकर्मकत्वमस्त्येवेति। घटः क्रियत इत्यादौ कर्मणि लकारस्य दृष्टत्वादिति भावः। एष्वर्थोष्विति। साक्षात्काराद्यर्थेषु सकर्मकता न स्यादित्यर्थः। क्वचिदर्थे कृञः सकर्मकत्वमर्थान्तरे सकर्मकत्वाश्रयणेऽकिंचित्करमित्याह-अन्यथेति। यत्किंचिदर्थे कृञः सकर्मकत्वे स्तिते तदाश्रित्यार्थान्तरेऽपि तस्य सकर्मकत्वाभ्युपगम इत्यर्थः। वायुर्विकुरुत इति। घटं करोतीत्यत्र कृधातोः सकर्मकत्वस्य दृष्टत्वाद्वायुर्विकारमापद्यत इत्यर्थप्रतीतेर्विकारस्य तदनुकूलव्यपारस्य च वायुरेक एवाऽऽश्रय इत्यकर्मकस्थलेऽपि तस्य सकर्मकतापत्तिः स्यात्। तथा च `अकर्मकाच्च' इत्युक्तमात्मनेपदं न स्यात्। किं च वायुना विक्रियत इति भावे लकारो न स्यात्। अपि च साक्षात्कारादेर्धात्वर्थत्वाभावेन गुर्वादेः कर्मत्वमव न स्यात्, धात्वर्थफलाश्रयस्यैव कर्मत्वादिति भावः। ततश्च सकर्मकत्वानुपपत्त्या कृञः साक्षात्काराद्यर्थे लक्षणा शक्तिर्वाऽम्युपगन्तव्येत्याशयः। नैयायिकमतमनुवदति-अथेत्यादिना। प्रत्यक्षतुल्ययोरिति। अत्र सप्तम्या वाचकत्वेन प्रत्यक्षतुल्ययोर्वाचकः साक्षाच्छब्द इति शक्तिग्राहकः कोशः। अत एव कोशे वाचकानामेव पाठ इति प्रसिद्धिः संगच्छते। यद्यपि उपनिपातस्योपासनार्थे शक्तिग्राहकः कोशो न दृश्यते तथाऽपि `उच्चावचेष्वर्थेषु निपतन्तीति निपाता इति निरुक्तोक्तेरुपनिपातस्याप्युपासनार्थवाचकत्वं कल्प्यते। तदनुकूल इति। उपासनासाक्षात्काराद्युनुकूलव्यापार एव धात्वर्थ इत्यर्थः। फलं तु निपातार्थ एवेति भावः। तथा च साक्षात्क्रियते गुरुरित्यादौ गुर्बभिन्नाश्रयनिष्ठो या विषयतासंबन्धेन साक्षात्कारस्तदुत्पत्त्यनुकूलो व्यापार इत्यादिर्बोधः। ननु धातोः फलावाचकत्वे स्वार्थफलव्यधिकरणेति पूर्वोक्तरीत्या सकर्मकत्वं न स्यादत आह-स्वस्वयुक्तनिपातेत्यादि। स्वं-धातुः, स च तद्युक्तनिपातश्च `एतयोरन्यतरस्यार्थभूतं यत्फलं तद्व्यधिकरणव्यापारवाचकत्वं सकर्मकत्वमित्यर्थः। अयुक्ताविति। यथा प्रादयो द्योतका इति दृष्टान्तः, तथा चादयोऽपीति दार्ष्टान्तिकोऽर्थः। दृष्टान्ते उपास्यते गुरुः, दार्ष्टान्तिके-साक्षात्क्रियते शिवः, इत्यत्र चोपासनासाक्षात्कारयोर्निपातवाच्यत्वं, तदनुकूलव्यापारमात्रस्य च धातुवाच्यत्वं, स्वसमभिव्याहृतनिपातार्थभूतं यदुपासनासाक्षात्काररूपं फलं तद्व्यधिकरणव्यापारवाचकत्वादास्‌धातोः कृधातोश्च सकर्मकत्वम्। एवं चोभयत्रापि निपातस्य द्योतकतां विनैव निपातार्थभूतोपासनासाक्षात्काररूपफलाश्रयत्वेन गुर्वादेः कर्मत्वनिर्वाहाद्‌दृष्टान्तिकावयुक्ताविति भावः नेदं साधकमिति। ततश्च उपास्यते गुरुरित्यादौ गुर्वादेर्लकारेणोपासनादिकर्मत्वेनाभिधानं, साधकं-धातोर्विशिष्टार्थवाचकत्वस्य, निपातानां द्योतकत्वस्य च साधकं नेत्यर्थः। इति चेदुच्यते तन्नेत्याह-नामार्थधात्वर्थयोरिति। नामार्थश्च धात्वर्थश्च तयोः साक्षाद्भेदसंबन्धेनान्वयो नेति व्युत्पत्तेः-प्रक-तस्थले नामार्थस्योपासनादिरूपस्य फलस्य धात्वर्थे व्यापरे।डनुकूलतारूपभेदसंबन्धेनान्वय एव न स्यात्, दूरे तु गुर्वादेरुपासनादिकर्मत्वेन लकारेणाभिधानादिकं, साक्षात्प्रत्यक्षतुल्ययोरित्यादिकोशादिकं तु द्योत्यार्थमादायोपपन्नमिति भावः। अन्यथा-नामार्थधात्वर्थयोः साक्षाद्भेदेनान्वयाभ्युपगमे। तण्डुलः पचतीति। तण्डुल इत्यत्र कर्मत्वाविवक्षया प्रातिपदिकार्थमात्रविवक्षणे प्रथमा। एतादृशः प्रयोगस्तण्डुलं पचतीत्यर्थेऽशुद्ध एव। अत्र नामार्थस्य तण्डुलस्य भेदसंबन्धेन=कर्मतासंबन्धेन धात्वर्थे पाकक्रियायामन्वयः स्यात्। कर्मत्वस्य संसर्गतया भानसंभावत्। तथा च कर्मतासंबन्धबोधकद्वितीयाया अभावेऽपि तण्डुलकर्मको विक्लित्त्यनुकूलो व्यापार इत्यनिष्टबोध आपद्येत, निरूक्तवाक्यान्निरूक्तबोधस्यानुभवविरुद्धत्वादिति भावः। नामार्थधात्वर्थयोरिति व्युत्पत्तौ नामानि निपातातिरिक्तेति विशेषणनिवेशे तु निपातार्थधात्वर्थयोरन्वयासंभवरूपापत्तिनेत्यत आह--किं चेति। इतिवदिति। प्रकर्षनिश्चयशब्दयोस्तत्तदर्थवाचकत्वाद्यथा तत्र भूयस्त्वादिविशेषणान्वयो भवति तद्विदित्यर्थः। इत्यपि स्यादिति। प्रादिनिपातानां प्रकर्षाद्यर्थवाचकत्वे तत्र भूयस्त्वाद्यन्वयेन भूयान् प्रेत्यादिरपि प्रयोगः, नाम प्राद्युपसर्गार्थस्य विशेष्यता स्यादित्यनिष्टापत्तिः। तादृशप्रयोगात्तादृशार्थाप्रतीतेरिति भावः। अस्मन्मत इति। निपातानां द्योतकत्वमेवेति वादिनां वैयाकरणानां मत इत्यर्थः। न तदन्वय इति। भूयस्त्वादिविशेषणान्वयो नेत्यर्थः। प्रादीनामनर्थकत्वात्-वाचकत्वाभावादिति यावत्। अतः प्रादीनां द्योतकता सिध्यतीति भावः। साधकान्तरमिति। प्रादिनिपातानां द्योतकत्वमेवेत्येतद्विषयेऽन्यत्साधकमित्यर्थः। शोभनः समुच्चय इति। समुच्चयशब्दस्य समुच्चयार्थवाचकत्वात्तत्र यथा शोभनरूपविशेषणान्वयो भवत्येवं निपातानां वाचकत्वे सति च शब्दोपस्थाप्येऽर्थे शोभनान्वय आपद्येत। ततश्च शोभनश्च इति प्रयोगः, नाम चोपस्थाप्यार्थस्य विशेष्यतया मानं स्यादित्यर्थः। तुल्यसमाधेयत्वादिति। सेयमापत्तिस्तुल्येन-पादितुल्येन निरर्थकत्वहेतुना समाधातुं शक्या। यथा प्राद्युपसर्गसमभिव्याहारे प्रतीयमानो योऽरथस्तत्रार्थे धातोर्लक्षणा, प्राद्युपसर्गास्तु द्योतकाः, तथा चादिनिपातसमभिव्याहारे प्रतीयमानेऽर्थे धातोर्लक्षणा, चादिनिपातास्तु द्योतक्राः, इत्यभ्युपगमेन चादिनिपातानामनर्थकत्वान्न तत्र शोभनादिविशेषणान्वय इत्यर्थः। एवं च शोभनः समुच्चय इत्यत्र समुच्चयशब्दवाच्यार्थस्य विशेष्यतया भानवत् शोभनश्चेत्यत्र विशेष्यतया भानापत्तिप्रदर्शनमयुक्तमेव। चादिनिपातानामनर्थकत्वेन तत्र शोभनादिविशेषणान्वय एव नेति कुतो विशेषणतानिरूपितविशेष्यतेति भावः। ततश्च भूयान् प्र, शोभनश्च, इत्यादिप्रयोगापत्तिर्नेति तात्पर्यम्। नन्वभेदसंबन्धेन नामार्थप्रकारकबोधे जननीये निपातातिरिक्तशब्दजन्योपस्थितिः कारणमित्येवं कार्यकारणभावोऽभ्युपगम्यते। अत्र नामार्थप्रकारकबोधः कार्यम्। तत्कारणं च निपातातिरिक्तशब्दजन्योपस्थितिः। भूयान् प्रकर्षः, शोभनः समुच्चय इत्यत्र निपातभिन्नशब्दजन्वोपस्थितेः सत्त्वाद्‌भूयस्त्वविशिष्टाभिन्नः प्रकर्षः, शोभनाभिन्नः समुच्चय इत्यर्थप्रतीतेरभेदेन शोभनादिनामार्थप्रकारकः शाब्दबोधो जायत इति युक्तम्। भूयान् प्र, शोभनश्चेत्यत्र तु निपातजन्याया एवोपस्थितेः सत्त्वेन कारणाभावान्नाभेदेन नामार्थप्रकारकः शाब्दबोध-कार्यं जायत इति निपातानां वाचकत्वेऽपि न काचित्क्षतिरित्यत आह--अपि चेति। वाचकत्व इति। निपातानां वाचकत्वाभ्युपगम इत्यर्थः। असंभव इति। घटश्चेत्यत्र कम्बुग्रीवादिमान् घटपदार्थः। चार्थः समुच्चयः। न ह्येतयोर्घटाभिन्नः समुच्चय इत्यभेदेनान्वयः संभवति। किं तु घटप्रतियोगिकः समुच्चय इति भेदेनान्वयो वाच्यः। स तु दुर्लभः। समानविभक्तिकनामार्थयोरभेदान्वय इति व्युत्पत्तेः। नामार्थयोर्भेदेनान्वयबोधं प्रति एकपदोत्तरविभक्तिविरुद्धविभक्तिमत्पदजन्योपस्थितेः कारणत्वात्प्रकृते तदभावेनं नामार्थयोर्भेदसंबन्धेनान्वयासंभव इत्यर्थः। ततश्च घटश्चेत्वादिवाक्यं मूलं स्यादिति भावः। अन्यथेति। विना यष्ठ्यादिकं नामार्थयोर्भेदनान्वयाभ्युपगम इत्यर्थः। राजा पुरुष इति। समानविभक्तिकाभ्यामपि राजसंबन्धी पुरुष इति भेदेनान्वयबोध आपद्येतेत्यर्थः। वैयाकरणमते निपातानां द्योतकत्वेन निपातसमभिव्याहारे तत्तत्प्रातिपदिकस्यैव निपातार्थविशिष्‍स्वार्थबोधकतया एकपदोपस्थाप्यत्वेनान्वयाभावादेव न घटश्चेत्यादौ भेदेनान्वयरूपो दोषः। घटश्चेत्यादौ घटपदमेव घटसमुच्चयरूपार्थबोधकमिति भावः। सारे `विना षष्ठ्यादिकं' इत्युक्तिस्तु षष्ठ्यादिसत्त्वे तदर्थद्वारा नामार्थयोरपि भेदेना न्वयो भवत्येवेति बोधनाय। अत एव राज्ञः पुरुष इत्गत्र राजनिष्ठस्वामितानिरूपितस्वावान् पुरुष इति स्वस्वामिभावरूपभेदेनान्वयप्रतीतिः संगच्छते। षष्ठ्या दिकमित्यादिपदेन तदर्थकद्वितीयादेः संग्रहः। नन्वेवं घटस्य समुच्चय इतिवद्‌घटस्य चेति स्यादित्याह-आदीति। निपातानां वाचकत्वे नामार्थयोर्विभिन्नविभक्तिकयोर्भेदेनान्वय धवखदिरयोः समुच्चय इतिवद्, धवस्य च, खदिरस्य च, इत्येव स्यात्, अन्यथाऽन्वयायोगात्। न तु धवश्च खदिरश्चेत्यर्थः। घटः पटश्चास्तीत्यत्र घटस्यास्तिक्रियायामन्वयः। अत एव तिङसामानाधिकरण्यात्तत्र प्रथमा। घटः, समुच्चयवान् पटोऽस्तीति बोधः। समुच्चयस्य प्रतियोग्याकाङ्क्षायां संनिहितत्वाद् घटस्य प्रतियोगित्वं, पटे तु चार्थसमुच्चयस्य भेदेनान्वयः, न तु पटस्य समुच्चय इति निपातानां वाचकत्वेऽपि कथं धवस्य च खदिरस्य चेति षष्ठ्यापादनम्। नामार्थयोरिति व्युत्पत्तिस्तु निपातातिरिक्तविषया। अतः समुच्चयस्यानुयोगितासंबन्धेन पटेऽन्वयो नानुपपन्नः, इति मञ्जूषायां निरूपितम्।। 43 ।।
शङ्कते-नन्विति। भेदेनान्वयबोध इति। राजा पुरुषः, इत्यतो राजसंबन्धी पुरुष इत्येवं भेदान्वयबोधवारणाय प्रातिपदिकार्थयोर्भेदेनान्वयबोधे एकपदोत्तरविभक्तिविरुद्धविभक्तिमत्पदजन्योपस्थितिर्हेतुरिति यः कार्यकारणभावः कलृप्तः स निपातातिरिक्तस्थल एवेत्याश्रयणेन धवखदिरयोः समुच्चय इतिवद्धवस्य च खदिरस्य चेत्येव स्यान्नतु धवश्च खदिरश्चेति यो दोष उक्तः स परिहृतो भवतीत्याशङ्क्याऽऽह-पदार्थः सदृशाऽन्वेतीति। `सदृशा' इति। वाचा निशेतिवदावन्तमिति भ्रमनिरासायाऽऽह-सदृशेनेति। विभिन्नविभक्तिकस्यापि प्रातिपदिकत्वादिना येन केनचिद्धर्मेण सादृश्यात्तेनाप्यभेदान्वय आपद्येतेत्यत आह--समानाधिकरणेनेति। विभिन्नविभक्तिरहितपदजन्योपस्थितिकेनार्थेनेत्यर्थः। समानविभक्तिकपदजन्योपस्तितिविषयत्वेन सादृश्यं विवक्षितमिति भावः। अन्वेति-अभेदेनान्वेतीत्यर्थः। असमानाधिकरणेति। विरुद्धविभक्तिमत्पदजन्योपस्थितिकेनेत्यर्थः। कदा चेति। कदाऽपीत्यर्थः। नेति। अभेदेन नान्वेतीत्यर्थः। समानाविभक्तिकनामार्थयोरिति पूर्वोक्तनियमादेवेत्यर्थः। समानविभक्तिकत्वं च स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम्। साजात्यं च विभक्तिविभाजकतावच्छेदकप्रथमात्वद्वितीयात्वादिना ग्राह्यम्। स्वं-विशेषणवाचकनीलपदं, तत्प्रकृतिका या विभक्तिः-द्वितीया-अम्, तत्सजातीया या विभक्तिः, सैवाम्‌विभक्तिस्तादृशाम्‌विभक्तिमत्त्वं घटमिति द्वितीयान्ते वर्तत इति कृत्वा नीलं घटं पश्येत्यत्र नीलघटपदयोः समानमिभक्तिकत्वमिति लक्षणसमन्वयः। यज्जातीयविभक्त्यन्तपदोप थाप्योऽर्थः, तज्जातीयविभक्त्यन्तपदोपस्थाप्येनार्थेनाभेदेनैवान्वेतीति, पदार्थः सदृशाऽन्वेतीत्यस्यार्थः। तद्भिन्नजातीयविभक्त्यन्तपदोपस्थाप्येनार्थेन कदाऽप्यभेदेन नान्वेतीति, विभागेन कदा च नेत्यस्यार्थः। ननु निपातानां वाचकत्वे प्रातिपदिकार्थयोर्भेदेनान्वयबोध यः कार्यकारणभाव उक्तः स निपातातिरिक्तविषयत्वेन संकोच्यते। तथा च चाद्यर्थसमुच्चयादेर्निपातार्थत्वेन तेन सह पदार्थान्तरस्य भेदेनान्वयो नानुपपन्न इत्याशयेनाऽऽह-अयमर्थ इति। राज्ञः पुरुष इत्यत्राभेदेनान्वयबोधवारणाय समानाधिकरणप्रातिपदिकार्थयोरभेदान्वय इति नियमोऽवश्यमाश्रयणीयः। सामानाधिकरण्यं च एकपदोत्तरविभक्तिविरुद्धविभक्तिरहितत्वे सति एकार्थाभिधायकत्वम्। राज्ञः सुतस्य धनमित्यत्र राजसुतशब्दोयविरुद्धविभक्तिरहितत्वेऽपि नाभेदेनान्वयः। एकत्र षष्ठ्या जन्यत्वार्थत्वेनापरत्र स्वत्वार्थत्वेनैकार्थाभिदायकत्वाभावात्। ततश्च घटश्चेत्यत्र घटधप्रातिपदिकोपस्थाप्ययोरर्थयोर्घटप्रतियोगिकः समुच्चय इत्येवं भेदसंबन्धेनान्वयो वक्तमशक्यः। यदि तु निरुक्तव्युत्पत्तिघटकप्रातिपदिके निपातातिरिक्तेति निवेश्येत, निपातातिरिक्ते ये प्रातिपदिके तदर्थयोरभेदान्वय इत्यर्थान्निपातस्थले घटश्चेत्यादौ भेदेनान्वये बाधकाभाव इत्युच्यते चेन्निपातातिरिक्तेतिनिवेशे प्रमाणं नास्ति, गौरवं च भवेदित्याशयवानाह-निपातेतरसंकोच इत्यादि। ननु घटश्चेत्यत्र भेदेनान्वयानुपपत्तिरेव निपातातिरिक्तेति निवेशे प्रमाणं भवेदित्यत आह-गौरवं चेति। प्रमाणसिद्धं गौरवं न दोषायेति चेन्निपातानां द्योतकत्वाभ्युपगमेऽन्वय एव नास्तीत्यन्वयानुपपत्तेर्दूरापास्तत्वादित्याह-अस्माकमिति। निपातानां द्योतकत्ववादिनामस्माकं वैयाकरणानामित्यर्थः। द्योतकत्वादिति। निपातसमभिव्याहारे स्वसमभिव्याहृतघटादिप्रातिपदिकस्यैव लक्षणया प्रातिपदिकार्थविशिष्टचाद्यर्थसमुच्यादिप्रतिपादकत्वमित्यर्थे चादिनिषातानां तात्पर्यग्राहकत्वादित्यर्थः। अन्वय एव नास्तीति। निपातसमभिव्याहारे समभिव्याहृतप्रातिपदिकस्यैव स्वार्थविशिष्टचाद्यर्थप्रतिपादकत्वेन चाद्यर्थसमुच्चयादेः समभिव्याहृतप्रातिपदिकेनैव लब्धत्वात्पृथगुपस्थित्यभावेनान्वय एव नास्तीत्यर्थः। पृथगुपस्थितयोरेव संसर्गस्यान्वयरूपत्वादिति भावः। नायं दोष इति। घटश्चेत्यत्र भेदेनान्वयानुप्रपत्तिरूपो दोषः, घटस्य च खदिरस्य चेत्येव स्यादित्युक्तो दोषश्च न भवतीत्यर्थः। निरुक्तव्युत्मत्तेः पृथगुपस्थित प्रातिपदिकार्थविषयत्वात्। प्रकृते धटश्चेत्यत्र, घटस्य च खदिरस्य चेत्यत्र च घटपदेनैव घटसमुच्चयस्य, खदिरपदेनैव खदिरसमुच्चवस्योपस्थानादिति भावः अत एवेति। प्रातिपदिकार्थयोरभेदान्वयबोदकव्युपत्तौ निपातातिरिक्तेत्यस्यानिवेशादेवेत्यर्थः। तत्प्रतियोगिके लाक्षणिकमिति। घटपदस्य कम्बुग्रीवादिमानर्थः। नास्तीति नञश्चाभावोऽर्थः। घटपतियोगिकोऽभाव इति भेदसंबन्धेन शाब्दबोदानुभवाद् घटस्य घटत्वावच्छिन्नप3तियोगिताकत्वरूपभेदसंबन्धेन नञर्थेऽभावेऽन्वयोऽभीष्टः। स च दुर्लभः। प्रातिपदिकार्थयोरभेदेनान्वय इति व्युत्पत्तेः। अतो नैयायिकैक्घटपदस्य घटप्रतियोगिक इत्यर्थे लक्षणा क्रियते। ततश्च घटनञ्‌पदार्थयोरभेदान्वय उपपन्नः। यदि त्वभेदान्वयबोधकव्युत्पत्तौ निपातातिरिक्तेतिविशेषणस्य प्रवेशः स्यार्त्तीह विनैव लक्षणां घटनञ्‌पदार्थयोः प्रातिपदिकनिपातोपस्ताप्ययोः पतियोगिताकत्वरूपभेदसंबन्धेनान्वये बाधकाभावाल्लक्षणानुसरणं विफलमेव स्यात्। एवं चोक्तव्युत्पत्तौ निपातातिरिक्तेति विशेषणस्याप्रवेशो नैयायिकैरप्यङ्गीकृत इति भावः।। 44 ।।
चादिनिपातसमभिव्याहृतघटपटाद्यनेकशब्देषु चाद्यर्थसमुच्चयादिवाचकत्वशक्तिकल्पनापेक्षया स्वल्पतरनिपातेष्वेव चाद्यर्थसमुच्चयादिरूपितवाचकत्वशक्तिकल्पनोचिता लाघवादित्याशङ्क्याऽऽह-अपि चेति। काव्यादाविति। रघुवंशे स.4 श्ले. 66 शरैरुस्त्रैरित्यत्रेत्यर्थः। ततः प्रतस्थे कौबरीं भास्वानिवरघुर्दिशमिति श्लोकपूर्वार्धम्। अन्वयो न स्यादिति। निपातानां वाचकत्वाभ्युपगम इत्यर्थः। अन्वयानुपपत्तिरनुपदमेवाग्रे स्फुटीभविष्यति। साधकान्तरमिति। निपातानां द्योतकत्व इति शेषः। शरैरुस्त्रैरिवोदीच्यानिति। उस्त्रसदृशैरिति शराणां विशेषणम्। रससदृशानिति, उदीच्यानां विशेषणम्। इत्यर्थ इति। इति शाब्दबोध इत्यर्थः। अयं चेति। उक्तार्थान्वयबोधश्चेत्यर्थः। संगच्छत इति। निपातरूपस्येवादेरुपसर्गवद्‌द्योतकत्वेनोस्रादिपदस्योस्रसदृशपरतयोस्रसदृशैः शरैरिति शरविशेषणत्वेन तृतीयासंगत्या, रसपदस्य रससदृशपरतया रससदृशानुदीच्यानित्युदीच्यविशेषणतया द्वितीयासंगत्या च निरुक्तः शाब्दबोध उपपद्यत इत्यर्थः। अन्यथेति। निपातानां द्योतकत्वानङ्गीकारेण वाचकत्वाभ्युपगम इत्यर्थः। व्युत्पत्तिविरोध इति। उस्रेरित्यत्र तृतीयाप्रत्ययस्य स्वप्रकृतिभूतोस्रपदार्थान्वितकरणबोधकत्वं प्रत्ययानां प्रकृत्यर्थेत्यादिनियमान्न घटत इत्यर्थः। तदेव विशदयति-तथा हीति। न चोस्रोऽत्र करणमिति। अस्रैरिति करणे तृतीया कृता, किं तु अत्र-उदग्देशीयराजोद्धरणक्रियायां, उस्रपदार्थः करणं न भवति। उस्रपदार्थस्येवार्थे सदृशेऽन्वयन करणीभूतशरविशेषणत्वाभावात्। अपि तु इववाच्यः सदृशोऽर्थः करणम्। तदुच्यते-इवार्थसदृशस्य करणत्वेऽपीति। उस्रसदृशस्याभेदेन शरविशेयणतया उद्धरणक्रियानिरूपितकरणत्वसंभवेऽपीत्यर्थः तस्य-सदृशस्य, करणत्वं सदृशार्थगतकरणत्वमित्यर्थः अनेन उस्नपदोत्तरवर्तितृतीयाप्रत्ययेन, बोधयितुं न शक्यमित्यन्वयः। तत्र हेतमाह-अप्रकृत्यर्थत्वादिति। इवार्थसदृशस्य तृतीयाप्रकृतिभूतोस्रपदार्थत्वाभावादित्यर्थः। तथा चेवार्थे सदृशे उस्रपदोत्तरवर्तितृतीयया करणत्वं प्रतिपादयितुं न शक्यते, प्रत्ययानां प्रकृत्यर्थेत्यादिनियमादिति भावः। इवार्थसदृशस्याभेदेन करणीभूतशरविशेषणतया करणत्वसंभवादिवशब्दात्तृतीयाऽस्त्वित्याशङ्क्याऽऽह-इवशब्दस्येति। असत्तवार्थकतयेति। सत्त्वं द्रव्यं, तच्च लिङ्गसंख्याकारकान्वयि। तद्भिन्नमसत्त्वमद्रव्यम्। अद्रव्यं च लिङ्गसंख्याकारकानन्वयि। तथा च लिङ्गसंख्याकारकानन्वय्यर्थकतयेत्यर्थः। `चादयोऽसत्त्वे' इत्यनेनाद्रव्यार्थकचादीनां निपातसंज्ञाया विहितत्वान्निपातानां लिङ्गसंख्याकारकानन्वयित्वरूपासत्त्वार्थकत्वमिति भावः। तृतीयाया असंभवादिति। कारकानन्वयित्वेनोपस्थिते सदृशरूपे इवार्थे कारकान्वयासंभवेनेवशब्दात्करणत्वार्थकतृतीयाया असंभवादित्यर्थः। ततश्चेवशब्दात्तृतीयाया अभावेन सदृशस्य करणत्वं न लभ्येत उस्त्रपदार्थस्य करणत्वाभावादुस्त्रपदोत्तरतृतीयाया अनर्थकत्वमसाधुत्वं च स्यादित्यर्थः। ननु अव्ययादाप्‌सुपः, इत्यत्र सुप इति प्रत्याहारग्रहणसामर्त्यादव्ययात्सर्वविभक्तिप्राप्तेः सूचितत्वादिवशब्दस्य सदृशधर्म्यर्थकत्वे सत्त्वार्थकतया तत उत्पन्नायास्तृतीयाया लुकि सति इवार्थसदृशस्य करणत्वं बुध्येतेत्याशङ्क्याऽऽह-संभवे वेति। श्रवणप्रसङ्गादिति। इवशब्दार्थस्य सदृशस्य करणकारकत्वेनोद्धरणक्रियायामन्वये सति तादृशेवशब्दस्य कारकानन्वयित्वरूपासत्त्वार्थकताया वक्तुमशक्यत्वेनासत्त्वार्थकतामुपजीव्य विहिताया निपातसंज्ञाया अपवृत्तौ `अव्ययादाप्‌सुपः' इत्यस्याप्रवृत्त्या लुगभावेनेवशब्दोत्तरवर्तितृतीयायाः श्रवणं प्रसज्येतेत्यर्थः। वाशब्दोऽनास्थायाम्। असत्त्वार्थकेवशब्दात्करणतृतीयोत्पत्त्यनुपपत्तिं सूचयति। शब्दशक्तिस्वाबाव्यादिवशब्दोपस्थाप्यस्य सदृशस्याप्यसत्त्वरूपत्वमेव धातूपस्थाप्यव्यापारस्येवेति भावः। `अव्ययादाप्सुपः' इति लुग्विधानसामर्थ्याज्जायमानायास्तृतीयविभक्तेरनर्थकत्वेन तया सदृशगतकरणत्वप्रदर्शनस्य दुर्वचत्वं च। दूषणान्तरमाह-अनन्वयप्रसङ्गाच्चेति। उस्त्रपदार्थस्योद्धरणक्रियानिरूपितकरणत्वाभावेन तत्र तृतीयार्थकरणस्यानन्वयप्रसज्य इत्यर्थः। सुपां च श्रवणमित्यत्र चकारो भिन्नक्रम इत्याह-सुपां श्रवणं चेति। नन्विवशब्दस्य सत्त्वार्थकत्वेऽपि स्वरादिपाठादव्ययत्वेन सुपः श्रवणप्रसङ्गो नेत्यतो मूले चशब्द उपात्तस्तत्संग्राह्यं दर्शयति-चकारदुस्रपदोत्तरेत्यादि। समुच्चीयत इति। तृतीयानन्वयः संगृह्यत इत्यर्थः इत्यादाविः त्यादिपदसंग्राह्यं दर्शयति-वागर्थाविवेत्यादि। वन्दिकर्मत्वाभावादिति। वागर्थयोरिवार्थेन सहान्वयात्संपृक्तावित्यत्रान्वयाभावेन तयोर्वन्दनक्रियानिरूपितकत्मवाभावात्तत्र तदुत्तरकर्मद्वितीयाया अन्वयो न स्यात्। वन्दिक्रियानिरूपितकर्मणा सह वागर्थयोरभेदेनान्वयाभावेनापि कर्मत्वस्य बाधितत्वात्। इवार्थसदृशस्य पार्वतीपरमेश्वररूपकर्मणा सहाभेदान्वयेन कर्मत्वेऽपि वागर्थपदोत्तरवर्तिद्वितीयायाः-इवार्थे यः कर्मत्वान्वयस्तद्बोधकत्वस्यासंभव एव, इवार्थस्य द्वितीयाप्रकृतिभूतवागर्थपदार्थत्वाभावात्। इवार्थस्य द्वितीयाप्रकृत्यर्थत्वाभावात्प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमादिति यावत्। संगृह्य इति। वागर्थपदार्थेन सह तदुत्तरद्वितीयाया अनन्वयः, तादृशद्वितीयायाश्चेवार्थगतकर्मत्वबोधकत्वासंभवश्च संगृह्यत इत्यर्थः। अस्मन्मते तु वागर्थपदस्यैव वागर्थसदृशपरतया इवशब्दस्य तद्‌द्योतकत्वेन च वागर्थसदृशयोरभेदेन पार्वतीपरमेश्वरविशेषणतया वन्दिक्रिया। निरूपितं कर्मत्वं सुसंगतम्। तथा उस्रैरित्यत्रोस्त्रपदस्यैवोस्रसदृशार्थकत्वादुस्रसदृशस्याभेदेन शरविशेषणतयोद्धरणक्रियानिरूपितकरणत्वान्न तृतीयानुपपत्तिः निपातानां वाचकत्वे, सदृश इवशब्दार्थः। उस्रा उपमानं, शरा उपमेयम्उपमानस्य विशेषणतया, उपमेयस्य च विशेष्यतया प्रतीतिरिति स्थितिः। तत्रोपमेयशराणामुद्धरणक्रियायां करणत्वात्तत्र करणकारकवाचिनी तृतीया। उपमानण्त्तु `विभक्तिः पुनरेकैव उपमानोपमेययोः' इति नियमादुपमेयोत्तरविभक्तिसजातीयविभक्तेरेवोचितत्वात्तृतीयैव, सा चाभेदार्थिकेत्याशयेनाऽऽह-विशेषणविभक्तिरभेदार्थेति। नीलं कमलं पश्येत्यादौ नीलाभिन्नकमलकर्मकं दर्शनमिति बोदान्नीलकमलयोरभेदान्वयाद्विशेषणविभक्तेरभेदोऽर्थः, न तु कर्मत्वमित्यर्थः। तथा चवागर्थावित्यत्रत्या द्वितीया, उस्रैरित्यत्रत्या तृतीया चाभेदार्थिका, न तु कर्मत्ववाचिनी करणत्ववाचिनी वा। ततशअच विशेषणविभक्तेर्दिवतीयायास्तृतीयायाश्चानन्वयो नेति भाव-। साधुत्वमात्रार्था वेति। अपदं न प्रयुञ्जीतिति भाष्यात्पदसाधुत्वमात्रसंपादिका विशेषणविभक्तिरित्यर्थः। सा च विशेष्यवाचकपदोत्तरविभक्ति सजातीयैव कर्तुमुचिता, विभक्तिः पुरनेकैवेति नियमात्। विशेष्यस्थविभक्तिविरुद्धविभक्तौ क्रियमाणायां तूपमानोपमेययोरभेदान्वयो न स्यात्। अभेदान्वयबोधे विरुद्धविभक्तिराहित्यस्य प्रयोजकत्वात्। अत एव चन्द्र इवि मुखमाह्‌लादकमित्यादौ उपमानभूतचन्द्राभिन्नमाह्‌लादकं मुखमिति। चन्द्रमुखयोरुपमानोपमेययोरभेदेनाम्वयबोधः संगच्छते। अनन्वय एवेति। यदा च विशेषणविभक्तिरबेदार्था, साधुत्वमात्रार्था वा तदाऽपि निपातेवशब्दस्य वाचकत्वे विशेषणविभक्तेरनन्वय एवेत्यर्थः। अनन्वयमेव स्पष्टयति-उस्रसदृशशराणामित्यादिना। उस्राश्च सदृशाश्च शराश्चेति त्रिपदद्वंद्वोऽयम्। उस्रादिपदार्थत्रितयस्येत्यर्थः। समानाधिकरणेति। विरुद्धविभक्तिरहितपदजन्योपस्थितिकतयेत्यर्थः। ननु ज्ञरैरुस्रैरिवेत्यत्रोस्रशरपदयोः समानविभक्तिकत्वेन विरुद्धविभक्त्यनवरुद्धत्वेऽपि कथीमवशब्दस्योस्रशरपदाभ्यां समानविभक्तिकत्वमिति चेच्ध्रुयताम्-इवशब्दार्थः सदृशः। तस्य करणभूतशरैः सहाभेदेनान्वयात्करणत्वात्तृतीया। न चेवशब्दस्य सदृशधर्म्यर्थकत्वे सत्त्वार्थकतया।़सत्त्वरूपताभङ्गादनिपातत्वेन विभक्तिलोपाप्रसक्तेस्तदुत्तरवर्तितृतीयायाः श्रवणापत्तिरित्युक्तमिति वाच्यम्। सत्त्वार्थकत्वेऽपीवादेः स्वरादौ पाठेनाव्ययत्वाद्विभक्तिलोपस्य सुवचत्वेनादोषात्। अत एव दीधितौ पृथिव्यामेव गन्ध इत्यत्र पृथिव्यां गन्धस्तदन्यत्र नेत्यर्थप्रतीतेरन्यार्थकस्यैवशब्दस्य स्वसमभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वमुक्तं, तच्छ्रवणमपि लुका लुप्तत्वान्नेत्युक्तं च संगच्छते। एवं चोस्रसदृशशराणां समानविभक्तित्वेन विरुद्धविभत्यनवरुद्धत्वं निर्बाधमिति भावः। भेदेनान्वयायोगादिति। उस्रपदार्थस्य सदृशपदार्थैकदेशे सादृश्ये प्रतियोगितासंबन्धेनान्वयो न स्यात्। सदृशस्य च स्वनिष्ठसादृश्यानुयोगित्वसंबन्धेन शरेष्वन्वयो न स्यात्। विरुद्धविभक्तिरहितप्रातिपदिकार्थयोरभेदेनैवान्वय इति नियमादिति भावः। ननु यद्यत्र भेदेनान्वयो वक्तुमशक्यस्तर्ह्य भेदेनैवान्वयोऽस्त्वित्याशङ्क्याऽऽह-बाधादभेदेनापि न स इति। तत्राभेदेना प्यन्वयो वक्तुमशक्यः, अभेदान्वयस्य बाधादसंभवादित्यर्थः। बाधमेव दर्शयति-न ह्युस्राभिन्नेत्यादिना। उस्रपदार्थस्य सदृश इवार्थेऽबेदेनान्वये उस्राभिन्नसदृशस्य शरपदार्थेऽभेदस्य बाधः। तदभिन्नाभिन्नस्य तदभिन्नत्वं, तत्-मृत्तिका तदभिन्नं(मृदभिन्नं)-कपलाद्वयं, तदभिन्नः(कपालद्वयाभिन्नः)-घटः, तस्य घटस्य तदभिन्नत्वं(मृदभिन्नत्वमितिवदत्र तत्-उस्रः, तदभिन्नः-सदृशः, तदभिन्नः-शरः, तादृशशरस्य तदभिन्नत्वं(उस्राभिन्नत्वं)घटस्य मृदभिन्नत्वमिव वक्तव्यं, तन्न संभवति। घटे मृदन्वयस्य प्रत्यक्षतोऽनुभूयमानत्वेन मृदभिन्नो घट इति यथा वक्तुं शक्यते, न तथा उस्राभिन्नः शर इति वक्तुं शक्यते, शरे उस्रत्वान्वयस्याननुभवत्। यः सदृश उस्राभिन्नोऽस्ति तादृशसदृशस्य शरे कथमभेदः संभवेत्, न कथमपीत्यर्थः। एवं चोस्राभिन्नसदृशस्य शरेऽभेदान्वयो बाधितः। यदि तु सदृशस्य पूर्वं शरेण सहाभेदेनान्वयं कृत्वा सदृशाभिन्नशरे, उस्रस्याभेदेनान्वयः क्रियते तह्यपि उस्त्रात्वान्वयादर्शनाच्छरे उस्त्राभेदो बाधित एव। तथा चाभेदेनाप्यन्वयो न संभवतीति भावः। ननु सिद्धन्ते उस्त्रसदृशैः शरैरिति सदृशशरयोः कथमभेदान्वय इति चेत्-इवशब्दसमभिव्याहारे उस्रपदस्यैवोस्रसदृशार्थकतया एकपदोपस्थाप्यत्वेनोस्रसदृशयोः परस्परमन्वय एव नास्तीति तदेकदेशस्य सदृशस्य विशेष्यभूतस्य शरैः सहाभेदान्वये बाधकाभावः। राजपुरुषमानयेत्यत्र राजपुरुषपदार्थैकदेशस्य प्रधानस्य पुरुषस्याऽऽनयनक्रियायामन्वयवत् तत्रान्वय आग्रहश्चेत्-उस्रनिरूपितसादृश्यविशिष्ट इत्येवमुस्रसदृशयोर्भेदेनान्वय इति उस्रशरपदयोः समानविभक्तिकयोरेभेदान्वये न किंचिद्बाधकम्। वागर्थाविवेत्यत्रापि वागर्थपदस्यैव वागर्थसदृशार्थकत्वात्तस्य च पार्वतीपरमेश्वररूपकर्मणा सहाभेदान्वयः। सादृश्यं चोपस्थितत्वात्संपृक्तत्वेन बोध्यम्। संपृक्तत्वं च नित्यसंबद्धत्वम्। यथा वागर्थौ नित्यसंबद्धौ तथा नित्यसंबद्धौ पार्वतीपरमेश्वरावित्यर्थः। एवं च नित्यसंबद्धवागर्थसदृशाभिन्नपार्वतीपरमेश्वरकर्मकं वन्दनमिति बोधः। शरैरुस्त्रैरित्यत्रापि उद्धरणक्रियासाधनत्वेन सादृश्यम्। यथोस्त्रा रसोद्धरणक्रियासाधनं, तथा शरा अपि नृपोद्धरणक्रियासाधनम्। तथा चोद्धरणसाधनभूतोरुसादृशाभिन्नशरकरणकं नृपोद्धरणमिति बोधो ज्ञेय-।। 45 ।।
शङ्कते-नन्विति। त्वन्मत इति। निपातानां द्योनकत्वमिति वादिनस्तवमत इत्यर्थः। वैयाकरणमत इति यावत्। लक्षणाव्याप्त्यापत्तिरिति। उत्तरपदार्थप्रधानस्तत्पुरुष इति तत्पुरुषलक्षणस्य लक्ष्यैकदेशे नञ्‌तत्पुरुषे समन्वयाभाव आपद्यत इत्यर्थः। तत्र हेतुमाह--उत्तरपदार्थप्राधान्याभावादिति। प्राधान्यस्य विशेषणनिरूपितत्वेन पूर्वपदस्य नञो निरर्थकत्वे प्राधान्यनिरूपकविशेषणाभावेनोत्तरपदार्थस्य प्राधान्यासंभवादित्यर्थः। उपसर्गस्येति। निपातमात्रस्येत्यर्थः। उपसर्गग्रहणं यावन्निपातोपलक्षणमिति भावः। उप-समीपस्थः स्वसंबन्धी लक्ष्यते ज्ञायतेऽनेनेत्युमलक्षणम्। उपसर्गशब्दः स्ववृत्तिनिपातत्वेन धर्मेण स्वस्य स्वसंबन्धिनश्चादेश्च बोधक इत्यर्थः। अर्थवत्त्वाभावेनेति। द्योतकत्वेनार्थवत्त्वाभावादित्यर्थः। शक्तिलक्षणान्यतरवृत्त्याऽर्थप्रतिपादकत्वरूपमर्थवत्त्वमर्थवत्सूत्र इति भावः। तथा च निरर्थकत्वेन प्रातिपदिकसंज्ञाया अभावान्निपातात्स्वादिविभक्तिर्नोत्पद्येतेत्याशयेनाऽऽह-नञ्‌समासे चेति। अब्राह्मणमित्यादौ नञ्‌समासे, अपरस्य-उत्तरपदार्थस्य, मुख्यता-प्रधानता, विशेष्यतेति यावत्। याऽस्ति, सा द्योत्यं प्रति-नञ्‌द्योत्यार्थनिरूपितैव ज्ञेया। तथा द्योत्यार्थमेव गृहीत्वाऽर्थवत्त्वान्निपातस्य प्रातिपदिकत्वात्ततः सुबुत्पत्तिरित्यर्थः। द्योत्यमर्थमिति। उत्तरपदार्थप्राधान्यं नाम--पूर्वपदार्थनिष्ठविशेषणतानिरूपितविशेष्यतापन्नत्वम्। पूर्वपदार्थशब्देन वाच्यलक्ष्यद्योत्यात्मकस्त्रिविधोऽप्यर्थो गृह्यत इति नोत्तरपदार्थप्रधान्यस्य हानिरिति भावः। अर्थवत्त्वादिति। शक्तिलक्षणयोरिव द्योतकताया अपि वृत्तित्वाभ्युपगमेन तया वृत्त्या द्योतकेऽपि अर्थवत्त्वस्य वक्तुं शक्यत्वान्न प्रातिपदिकसंज्ञानुपपत्तिः। एवं च ज्ञक्तिलक्षणाद्योतकतान्यतमवृत्त्याऽर्थप्रतिपादकत्वरूपमर्थवत्त्वमर्थवत्सूत्रे जिधृक्षितमिति भावः। ननु द्योतकस्य निपातस्य प्रातिपदिकसंज्ञायामपि असत्त्वार्थकतया संख्याकर्मादेरभावान्न ततः सुबुत्पत्तिः। न चेष्टापत्तिः। उद्‌गच्छत्युच्चैरित्यादौ जश्त्वरुत्वाद्यनापत्तेरत आह-वस्तुत इति। ज्ञापकत्सुबुत्पत्तिरिति। द्योतकत्ववादिमते निपातानामनर्थकत्वेन प्रातिपदिकसंज्ञाया अभावेन, स्वराद्यव्ययानां च संख्याकर्मदेरभावेन ततः सुबनुत्पत्तौ लुग्विधानमनर्थकं सदव्ययात्सुबुत्पत्तिं ज्ञापयतीति भावः। तथा चार्थवत्स्‌त्रे शक्तिलक्षणान्यतरवृत्त्याऽर्थबोधकत्वरूपार्थवत्त्वस्य निवेशेऽपि न काचिद्धानिः। ननु स्वरादीनामसत्त्ववचनानां संख्याकर्मादेरभावेऽपि सत्त्ववचनानां स्वस्ति वाचयति, प्रातर्यजते, स्वः पश्यति, स्वः पतितः, इत्यादौ कर्मादिकारकयोगदर्शनेन तत्रार्थे विहितसुपो तुगर्थमव्ययादाविति सुत्रस्याऽऽवश्यकत्वेन ज्ञापकत्वासंभवादाह-निपातस्यानर्थकस्येति। द्योतकतावादिमते प्रकृतवार्तिकेन निपाताबां प्रातिपदिकत्वान्न ततः सुबुत्वत्त्यनुपपत्तिः। वस्तुतस्तु निपातानां द्योत्कतारूपवृत्त्याऽर्थबोधकतेवेनैवार्थवत्त्वात्प्रातिपदिकत्वं सिद्धम्। अत एव वार्तिकमनर्तकपदघटितं संगच्छतेयदि तु सर्वेऽपि निपाता अनर्थकाः स्युस्तर्हि अनर्थकस्येति निपातविशेषणमव्या वर्तकं स्यादिति भावः। अत एव च येषां द्योत्योऽप्यर्थो नास्ति तु हि च स्म ह वै इत्यादेः, तदर्तमिदं वचनमिति सूचनार्थमनर्थकस्येत्युक्तं कैयटे संगच्छते। एवं च निपातानां द्योत्यार्थमादायैवार्थवत्त्वात्सूत्रेणैव प्रातिपदिकसंज्ञा सिध्यतीति निपातस्येत्यादिवार्तिकं प्रत्याख्यायते तदा तु, हि, च स्मेत्यादौ कथं प्रातिपदिकत्वनिर्वाह इत्याशङ्क्याऽऽह-कृत्तद्धितसमासाश्चेत्यादि। निपातार्थवादमुपसंहरति-तस्माद्युक्तमित्यादिना। निपातानां द्योतकत्वे आकृतीति(जै.दअ.1 पा.3 अ.10 सू.35)इत्यधिकरणमीमांसावार्तिककृतां संमति माह-उक्तं चेति। चतुर्विध इति। नामाख्यातेपसर्गनिपातात्मक इत्यर्थः। पद इति। सुबन्ततिङन्तरूप इत्यर्थ-। द्विविधस्य--नामाख्यातभेदेन द्विःप्रकारकस्य। अर्थनिर्णयः क्रियते। नामाख्यातयोरेवार्थनिर्णये हेतुमाह-संशयोत्पत्तेरिति। नामार्थो जातिर्वा, व्यक्तिर्वा, जातिविशिष्टव्यक्तिर्वा? धात्वर्थो-व्यापारमात्रं वा, फलमात्रं वा, फलानुकूलो व्यापारो वेति संदेहोत्पत्तेस्तयोर्निरूपक्रियत इत्यर्थः। तयोरर्थानिरूपणे हेतुमाह-तयोरिति। तयोः-उपसर्गनिपातयोः शक्तिलक्षणान्यतरवृत्त्याऽर्थबोधजनकत्वं नास्तीत्यर्थः। शक्तिलक्षणान्यतरव्यापाराभावं वदता तयोर्द्योतकत्वेनार्थबोधकत्वं सूचितमित्याशयेनाऽऽह-यदर्थद्योतकाविति। तौ-उपसर्गनिपातौ यदर्थेति। यन्नामाख्यातान्यतरविशेषार्थविषयकवृत्तिग्रहजनकौ, स-नामाख्यातात्मकः शब्दो वाचको विचार्यत इत्यर्थः। उपसर्गेणेति। अनेनोपसर्गाणां द्योतकत्वमेवेति सिध्यति। अन्य इति। निर्दिष्टं यद्रूपं तदतिरिक्तरूपविशिष्ट इत्यर्थः। यथा हृञ् हरण इति निर्दिष्ठरूपं हरणत्वं तदतिरिक्तं यद्रूपं-आघातत्वं तद्विशिष्ट आघातार्थो हृधातोः प्रहार इत्यादावुपसर्गबलादन्यः प्रतीतो भवतीत्यर्थः। जयत्वविशिष्टजयो जिधात्वर्थः, प्रजयतीत्यत्र प्रकृष्टजयत्वविशिष्टत्वादन्यः प्रतीयते। नन्वनेन हरिवचनेनोपसर्गस्यैव द्योतकत्वमुच्यते, न निपातानामित्यत आह-निपातोपलक्षणमिति। लक्षणया निपातसंज्ञकपरमित्यर्थः। पदान्तरस्येति। उपलक्षणं बोध्यमित्यर्थः। यथोपसर्गसमभिव्याहारबलाद्धात्वर्थोऽन्यः प्रतीयते तद्वन्निपातसमभिव्याहारबलाच्चन्द्र इव मुखमित्यत्र पदान्तरस्य चन्द्रस्य चन्द्रसदृशरूपोऽन्योऽर्थः प्रतीयत इति भावः।। 46 ।।
  



अथ निपातानां वाचकत्वं समर्थयितुमाह-नन्विति। अन्वयव्यतिरेकाभ्यामिति। चन्द्र इव मुखमित्यादौ निपातसंज्ञकेवादिपदसत्त्वे सादृश्याद्यर्थप्रतीतेरिवाद्यसत्त्वे सादृश्याद्यर्ताप्रतीतेश्च निपातानां घटादिपदवद्वाचकत्वमेव युज्यत इत्यर्थः। ननु निपातानां वाचकत्वे तत्र शक्तिकल्पनाप्रयुक्तं गौरवं स्यादत आह-बोधकतेति। बोधकतारूपा या शक्तिः, तस्या बाधाभावादित्यर्थः। बोधकतेत्युपादानादीश्वरेच्छादिरूपायाः शक्तेर्बाधः सूचितः। तथा च तदर्थबोधकत्वमेव तद्वाचकत्वमिति घटादिपदानामिव निपातानां वाचकत्वमेवेत्यर्थः। ननु इवादिनिपातसमभिव्याहारे समभिव्याहृतपदस्येवादिद्योत्यार्थविशिष्टस्वारथोपस्थापकत्वमसमभिव्याहारे तु केवलस्वार्थोपस्थापकत्वं यद्‌ दृश्यते तदन्वयव्यतिरेकसिद्धम्। तथा हि चन्द्र इव मुखमित्यत्रवशब्दसत्तवे सादृश्यविशिष्टचन्द्रार्थप्रतीतिः, इवशब्दासत्त्वे चन्द्रो मुखमित्यत्र विशिष्टचन्द्राप्रतीतिरिति निपातानां द्योतकत्वसाधनेऽन्वयव्यतिरेकयोरुपयोगान्न तौ वाचकत्वसाधकौ भवत इत्यत आह-किं चेति। उक्तरीत्येति। प3जयतीत्यत्र प्रतीयमानः प्रकृष्टजंयो नोपसर्गवाच्यः। तथआ सति तस्याप्रकृत्यर्थतयाऽऽख्यातार्थेऽनन्वयापत्तेः। प्रत्ययानां प्रकृत्यर्थन्वितस्वार्थबोधकत्वमिति नियमात्। नापि धात्वर्थः। तथा सत्यर्थान्तरस्येवोपसर्गं विनाऽपि जयतीत्यादौ प्रकृषअटजयप्रतीत्यापत्तेः। न चाप्युपसर्गविशिष्टधातुवाच्यः। तथा सति विशिष्टस्योभयरूपत्वेनोभयत्र शक्तिकल्पनायां गौरवात्। तस्माज्जये क्लॄप्तशक्तेर्धातोरेव लक्षणया प्रकृष्टजयोपस्थितौ, अनन्यलभ्यः शब्दार्थ इति न्यायेन न प्रादेः प्रकर्षाद्यर्थकत्वं, तस्य धातोस्तादृशार्थलक्षणायां तात्पर्यग्राहकत्वेनोपयोगादित्युक्तप्रकारेणेत्यर्थः। पचतीति। पचतीत्युक्ते प्रतीयमाना कर्तृविशिष्टभावना न धातुवाच्या। तथा सति पचनं पक्तिः पाक इत्यत्रापि भावनायां कर्तृवैशिष्ट्यप्रतीत्यापत्तेः। न तिङर्थः। तथा सति तिङभावेन पक्त्वा पक्तुमित्यादौ भावनाबोधानापत्तेः। नापि धातुविशिष्टतिङ्वाच्या। विशिष्टे वाचकत्वकल्पनायां गौरवात्। तस्माल्लक्षणया धातोरेव कर्तृविशिष्टभावनाया उपस्थितिसंभवे तिङादेस्तादृशलक्षणायां तात्पर्यग्राहकत्वमेव स्यात्। तिङादेरित्यादिशब्देन कृत्सनादिपरिग्रहः। इत्येवंरूपां निपातानां द्योतकत्वेऽरुचिं मनसिकृत्य निपातानां वाचकत्वमिति पक्षान्तरमाह-निपातानां वाचकत्वमिति। अन्वयव्यतिरेकयोः-तयोः सतोः। अयं भावः-तिङादिप्रयोगसत्त्वे कर्तृकर्माद्यर्थप्रतितिः, तिङादिप्रयोगाभावे कर्त्राद्यर्थप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां यदि कर्त्राद्यर्थवाचकत्वं निश्चीयते तिङादेः, तर्ह्यन्वयव्यतिरेकाभ्यां तिङादीनां वाचकत्ववन्निपातानामपि तत्तदर्थवाचकत्वमस्त्विति। मीमांसकास्तु वाचका एवैते निपाताः, न द्योतका इति वदन्ति। इत्थं हि तैरूक्तं समुच्चयाधिकरणे-केवलवृक्षशब्दात्समुच्चयाप्रतीतेश्चकारश्रवणे तद्बोधाच्चकार एव तद्वाचको, न द्योतकः। किंच द्योतकत्वे पदान्तराणां तत्र शक्तिः कल्प्या, चकारस्य च द्योतकताशक्तिः कल्पनीयेति गौरवं स्यादिति। अत एव मीमांसाद्वयेऽपि नञः पर्युदासे लक्षणेत्युक्तिः संगच्छते। निपातानां वाचकत्वे नञः शक्यार्थसद्भावाच्छक्यार्थसबन्धरूपलक्षणायाः संभवात्पूर्वोक्तमीमांसाद्वयोक्तिः संगता भवति। द्योतकत्वे तु निपातानां शक्यार्थभावाच्छक्यसंबन्धघटितलक्षणाया असंभवान्न सोक्तिः संगता भवेदित्यर्थः। तदिदं मीमांसकमतमयुक्तम्। अनन्यलभ्य एव हि शब्दार्थ इति न्यायेन पदान्तराल्लक्षणयैव समुच्चयाद्यर्थप्रतीतेः पुनस्तत्र शक्तिकल्पनायोगात्। अत एव लक्षणयैव तीरोपस्थितौ सत्यां न पुनस्तत्र गङ्गापदस्य शक्तिः कल्प्यते। अन्यथा गङ्गादिपदानामपि तीरादौ शक्तिः कल्प्या स्यात्। चादिनिपातसमभिव्याहारे वृक्षादिपदाद्विशिष्टार्थप्रतीतिः, तदसमभिव्याहारे पदान्तराद्विशिष्टार्थप्रतीत्यभाव इत्यन्वयव्यतिरेकयोश्चादीनां तात्पयंग्राहकत्वेनोपयोगादन्यथासिद्धतया न तौ निपातानां वाचकत्वसाधकौ भवतः। न च वाचकत्वे पदान्तराणां निपातद्योत्यार्थे शक्तिः, चकारस्य च द्योतकताशक्तिश्चेति शक्तिद्वयकल्पनेति वाच्यम्। पदान्तराणां लक्षणाङ्गीकारान्निपातानां तात्पर्यग्राहकत्वादित्याशयेनाऽऽहृ-न त्विति। समुच्चयाधिकरणे स्थितं परेषां-मीमांसकानां यन्मतं वाचकत्वामात्ररूपं तदेवास्माकं मतमिति न युक्तमित्यर्थः। किं तु केचिद्वाचकाः, केचिच्च द्योतकाः। तदुक्तं वाक्यपदीये-`स वाचको विशेषाणां संभवाद् द्योतकोऽपि वा' इति। एवं चेति। निपातानां वाचकत्वे चेत्यर्थः। निपातातिरिक्तविषय इति। धात्वर्थः, अथ च निपातातिरिक्तप्रातिपदिकार्थः, अनयोर्भेदसंवन्धेनान्वयो, न व्युत्पन्नः-व्युत्पत्तिसिद्धो न भवतीत्यर्थः। अत एव ओदनः पचतीत्यत्र निपातातिरिक्तप्रातिपदिकार्थस्योदनस्य कर्मतासंबन्धेन धात्वर्थे पाकेऽन्वयो न भवतीति ओदनकर्मकः पाक इत्येवं न ततो बोधो जायते। निपातातिरिक्तेतिनिवेशान्निपातार्थधात्वर्थयोर्भदेनान्वयो नाव्युत्पन्न इति प्रजयतीत्यत्र निपातरूपप्रातिपदिकार्थस्य प्रकर्षस्य आश्रयतासंबन्धेन जिधात्वर्थे जयेऽन्वयो भवतीति ततः प्रकृष्टजयप्रतीतिरुपपद्यत इति भावः। समानाधिकरणेति। समानविभक्तिकप्रातिपदिकार्थयोरभेदान्वय इति नियमोऽपि, तथा-निपातातिरिक्तविषय इत्यर्थः। निपातातिरिक्त-समानविभक्तिकनामार्थयोरभेदान्वय इति यावत्। अत एव निपातातिरिक्तप्रातिपदिकार्थयो राजपुरुषयो राज्ञः पुरुष इति वाक्ये नाभेदेनान्वयबोधः। राजपुरुषपदयोः समानविभक्तिकत्वाभावात्। समानविभक्तिकत्वमपि समानार्थकविभक्तिकत्वं बोध्यम्। तेन राज्ञः सुतस्य धनमित्यत्र न राजसुतयोरभेदेनान्वयः। एकत्र जन्यत्वार्थत्वेनापरत्र स्वत्वार्थत्वेन षष्ठ्योर्विभन्नार्थत्वेन समानार्थकत्वाभावात्। घटश्चेत्यादौ तु घटचेतिप्रातिपदिकयोः समानविभक्तिमत्त्वेऽपि समुच्चयस्य निपातार्थत्वेन घटसमुच्चययोर्घटप्रतियोगिकः समुच्चय इत्येवं प्रतियोगितात्मकभेदसंबन्धेनान्वयो भवत्येव। अनुभवसाक्षात्कारादेर्निपातवाच्यत्वेऽपि धातोः सकर्मकत्वसिद्ध्यर्थं `स्व-स्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवाचित्वं सकर्मकत्वं वक्तव्यम्। स्वं-धातुः, स च तद्युक्तनिपातश्च तयोरन्यतरस्यार्थभूतं यत्फलं तद्व्यधिकरणव्यापारवाचकत्वमित्यर्थः। अनुभूयत इत्यादौ धातुयुक्तो निपातोऽन्वादिः, तदर्थभूतं यत्फलं साक्षात्कारानुभवादिकं गुरुशिवादिनिष्ठं, तद्व्यधिकरणदेवदत्तादिनिष्ठव्यापारवाचकत्वेन धातोः सकर्मकत्वाक्षत्या साक्षात्क्रियत इत्यादौ कर्मणि लकारादिः सिध्यति। प्रतिष्ठते इत्यत्र प्रोपसर्गस्याऽऽदिगमनावाचकत्वे तस्य आख्यातार्थेऽन्वयसिद्ध्यर्थं प्रकृतिसमभिव्याहृतनिपातार्थप्रकृत्यर्थान्यतरान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तिः पठनीया। तेन प्रतिष्ठते इत्यत्र `ते' इति तिङर्थकर्तरि प्रकृतिसमभिव्याहृतनिपातार्थस्याऽऽदिगमनस्यान्वयेन कर्तृनिष्ठमादिगमनमिति बोधोऽनुभवसिद्धो निर्वोढुं शक्यो भवति। एवं भेदसंबन्धेन नामार्थप्रकारकशाब्दबोधं प्रति प्रत्ययनिपातान्यतरजन्योपस्थितिः कारणमिति कार्यकारणभावोऽङ्गीकार्यः। अत एव राजा पुरुषः, इत्यत्र राजनिरूपितस्वातासंबन्धवान् पुरुष इत्येवं राजरूपनामार्थप्रकारको भेदसंसर्गकः शाब्दबोधो न भवति। भेदसंबन्धस्य राजपदोत्तरवर्तिप्रत्ययादनुपस्थितेः। भवति च राज्ञः पुरुष इत्यत्र नामार्थप्रकारकी भेदसंसर्गको बोधः। भेदसंसर्गस्य राजपदोत्तरवर्तिषष्ठीप्रत्ययजन्योपस्थितेः सत्त्वात्। घटश्चेत्यत्र घटस्य प्रतियोगितासंबन्धेन समुच्चयेऽन्वयाद् घटप्रतियोगिकः समुच्चय इत्येवं घटरूपनामार्थप्रकारको भेदसंसर्गकः साब्दबोधो भवति। समुच्चयोपस्थितेर्निपातजन्यत्वात्। नामार्थप्रकारकभेदसंसर्गकशब्दाबोधं प्रति निपातजन्योपस्थितेर्हेतुत्वाङ्गीकारादित्यर्थः। न चैवं क्वचिद्‌व्युत्पत्तौ निपातातिरिक्तेति निवेशे, क्वचिद् व्युत्पत्तो निपातपदनिवेशे च गौरवं स्यादिति वाच्यम्। अन्वयव्यतिरेकरूपयुक्त्या निपातानां वाचकत्वे स्थितेऽगत्या गौरवस्य स्वीकरणीयत्वात्। वाचकत्वादेव च `न' इत्येतावन्मात्रोच्चारणादभावप्रतीतिः कस्येति जिज्ञासा च दृश्यतेऽभावशब्द इव। द्योतकत्वे तु पदान्तरसमभिव्याहारं विना द्योतकत्वासंभवः। ननु निपातानां वाचकत्वे केवलानामपि तेषां प्रयोगापत्तिरिति चेन्न। केषांचित् `ते प्राग्धातोः' इत्यनेन नियमनात् केषांचिन्नेत्यादीनां केवलानामपि प्रयोगस्येष्टत्वात्, अन्येषां वाचकत्वेऽपि केवलप्रकृतिप्रत्यययोरप्रयोगवत्केवलानामप्रयोगः। तदुक्तं वाक्यपदीये-प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते। समुच्चयाभिधानेऽपि व्यतिरेको न विद्यते। इति। यद्यपि प्रत्ययवदेषां परत्वं न स्मर्यते तथापि तैर्बोध्यप्रकर्षादेर्विना संबन्धिनमनन्वयात्केवलप्रयोगासंभवः। समुच्चिताभिधायकत्वेऽपि विशेषतस्तयोरुपस्थितिं विना प्रतीतेरपर्यवसानान्नित्यपरतन्त्रतैवेति न प्रयोगः। एवं निपातानां वाचकत्वे यथायथं दोषाभावेऽपि क्वचिद्‌द्योतकत्वमपि स्वीकार्यम्। अन्यथा प्रतिष्ठते इत्यत्र गमनत्त्वरूपेणानुभवसिद्धो बोधो न स्यात्। नामार्थधात्वर्थयोर्भेदनान्वयो न व्युत्पन्न इति व्युत्पत्तेर्निपातेतरत्वेन संकोचेऽपि प्रोपसर्गस्याभावे शक्तौ स्वीकृतायामपि धातोर्गतिनिवृत्त्यर्थकत्वेन गतिनिवृत्तिरूपधात्वर्थस्य प्रतियोगित्वसंबन्धेन प्रोपसर्गवाच्येऽभावेऽन्वयेन गतिनिवृत्तिप्रतियोगिकाभाव इति बोधाद् गमननिवृत्त्यमावत्वरूपेणैव बोधः स्यात्। द्योतकत्वे तु तिष्ठतेर्धातोरेव लक्षणया गतिप्रतिपादकत्वाद् गमनत्वरूपेण बोधोऽनायासेन सिध्यति। नत्वितीति। प्रादयो द्योतकाश्चादयस्तु वाचका इत्येवं यन्नैयायिकैः प्रादिचाद्योर्वैषम्यं कृतं तदपि न युक्तमित्यर्थः। यत्तु कैश्चिदुक्तम्-निपातानां सर्वेषां वाचकत्वे `निपातस्यानर्थकस्य' इति प्रातिपदिकसंज्ञाविधिर्व्यर्थः। अर्थवत्सूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात्। सर्वेषां द्योतकत्वेऽपि `निपातस्य' इत्येतावतैव प्रातिपदिकत्वे सिद्धे `अनर्थकस्य' इत्यंशः सर्वथा व्यर्थ एव। तस्मात्केचिदेवार्थवन्त इति वक्तव्यम्। तथा चोपसर्गा एव द्योतकाश्चादयस्तु वाचका इति। तदयुक्तम्-सर्वथाऽनर्थकानां `तु-हि-च-स्म-ह-वैपादपूरणे, इत्यमरकोशात्, कमीमिद्विति पादपूरणे, इति निरुक्तात्, अधिपरी अनर्थकौ' इति सूत्राच्चावगतानां संग्रहार्थं तद्वचनमिति कैयटादौ स्पष्टत्वात्। के वाचका इत्यत्र विनिगमनाभावाच्चादीनामेव द्योतकत्वं प्रादीनां तु वाचकत्वमिति वैपरीत्यस्यापि वक्तुं शक्यत्वाच्च। वस्तुत एतद्वार्तिकस्य भाष्यकारैः प्रत्याख्यातत्वात्तन्मूलकमेतदश्रद्धेयमेवेति भाति। व्यर्यमिति। द्योतकतापक्षे सर्वेषामेव निपातानां निरर्थकतया व्यावर्त्याभावादिति भावः। प्रत्याख्यातत्वादिति। `अधिपरी अनर्थकौ' इति सूत्रेणानर्थकयोरधिपर्योर्गत्युपसर्गसंज्ञाबाधनार्थं कर्मप्रवचनीयसंज्ञा विधीयते। गत्युपसर्गसंज्ञे च `उपसर्गाः क्रियायोगे' गतिश्च' इति सूत्रद्वयेन क्रियायोग एव विधीयते। तत्राधिपर्योरनर्थकयोः क्रियायोगासंभवाद् गत्युपसर्गसंज्ञयोः प्राप्तिरेव न संभवतीति तद्‌बाधानार्थं कर्मप्रवचनीयसंज्ञाविधानं व्यर्थम्। न च `कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयार्थ कर्मप्रवचनीयसंज्ञाविधानं सार्थकं स्यादिति वाच्यम्। अनर्थकत्वेन कर्मप्रवचनीययुक्तत्वस्य निरूपयितुमशक्यत्वात्। एवं च व्यर्थीभूय कर्मप्रवचनीयसंज्ञाविधानं ज्ञापयति-यदनर्थकानामपि निपातानामर्थवत्त्वं गृहीत्वा तत्प्रयुक्तं कार्यं करणीयमिति। ततश्च क्रियायो संभवाद् गत्युपसर्गसंज्ञे स्यातां ते मा भूतामिति तद्बाधनार्थं कर्मप्रवचनीयसंज्ञाविधानं चरितार्थम्। तेन कुतोऽध्यागच्छतीत्यादौ `गतिर्गतौ' इति निघातो न भवति। अनर्थकानामपि निपातानामर्थवत्त्वप्रयुक्तं कार्यं प्रातिपदिकसंज्ञा भवतीत्यन्त्र फलम्। तथा त निपातस्यानर्थकस्येतिवचनं न कर्तव्यमिति प्रत्याख्यातत्वादित्यर्थः। बहुवचनं मीमांसकेति। मीमांसकानां भाष्यकारादिभेदेन नानात्वाद बहुवचनमिति भावः। मीमांसकमतं प्रदर्शयति-केवलेत्यादिना। मीमांसकमतं निरस्यति-तथा हीत्यादिना न शक्तद्वयकल्पनापीत्यन्तेन। अस्माकमिति। निपातानां वाचकत्वं द्योतकत्वं चेति पक्षद्वयाङ्गीकर्तॄणामित्यर्थः। लक्षणाग्रहेति। यदा च घटादिपदानां समुच्चिताद्यर्थे लक्षणां गृहीत्वा प्रकरणादिवत्तात्पर्यग्राहकश्चादिरित्याश्रीयते तदैव घटादिपदात्समुच्चयाद्यर्थप्रतीतेः समुच्चयादिविशिष्टघटाद्यर्थविषयकशाब्दबोधं प्रति घटादिपदनिरूपितलक्षणाज्ञानं कारणमिति शाब्दबोधलक्षणाज्ञानयोः कार्यकारणभाव आवश्यकः। समभिव्याहृतपदस्य विशिष्टार्थे लक्षणायां गृहीतायां लक्ष्यार्थस्य बोदाल्लक्ष्यार्थबोधे लक्षणाज्ञानं कारणमित्येवं लक्ष्यार्थबोधलक्षणाग्रहयोः कार्यकारणभावोऽवश्यं स्वीकार्य इति यावत्। शक्तिग्रहस्यापीति। वाचकत्वपक्षे वृक्षाद्यर्थविषयकशाब्दबोधे वृक्षादिपदनिष्ठं शक्तिज्ञानं कारणं, समुच्चयाद्यर्थबोधे प्रादिनिपातनिष्ठशक्तिज्ञानं कारणमित्येवं शाब्दबोधशक्तिज्ञानयोः कार्यकारणभावोऽप्यापश्यकः। कल्प्यान्तराभावेनेति। वाचकत्वपक्षे द्योतकत्वपक्षे च क्लृकार्यकारणभावद्वयापेक्षयाऽधिककल्पितव्यविरहेणेत्यर्थः। उभयमपीति। वाचकत्वं द्योतकत्वं चेत्युभयमपि गौरवाभावाद्युज्यत इत्यर्थः। अत एवेति। गौरवाभावेन पक्षद्वयस्यापि युक्तियुक्तत्वादेवेत्यर्थः। स वाचक इति। सः-उपसर्गरूपो निपातो वाचक इत्यर्थः। प्रतिष्ठ इत्यत्र `ष्ठा गतिनिवृत्तौ' इति पाणिनिस्मृतेर्गतिनिवृत्तिवाचकस्तिष्ठतिः, प्रोपसर्गस्तु तदभावबोधकः, तथा चाभावाभावो भावस्वरूप ितिन्यायेन गतिवाचक इति पुञ्जराजेन व्याख्यातत्वात्। दर्शनान्तरेति। नैयायिकरीत्येत्यर्थः। वाचकत्वमेवेति। चादिनिपातानामित्यादिर्बोध्यः। द्योतकत्वमेवेति। अस्योपसर्गाणामित्यादिः। नियम इति। प्रादिचाद्योर्द्योतकत्ववाचकत्वनियमो न युक्त इति सूचयन्नाह-मतमेव न इति। वा-अथवा। परेषां मीमांसकानां यन्मतं सर्वेषां निपातानां वाचकत्वमेवेति तदेव नो मतमित्यर्थः। प्रतिष्ठते इत्यत्र गमनत्वरूपेण बोधस्या भावाभावो भावस्वरूप इति न्यायेनोपपादितत्वादिति भावः।। 47 ।।
पर्यवसितमिति। उपसर्गा द्योतका निपाता वाचका इति नैयायिकमतं न युक्तं वैषम्ये बीजाभावादिति पर्यवसाने सिद्धमित्यर्थः। उपसंहरन्-परिसमापयन्नित्यर्थः। आह-ब्रूते-निपातत्वं परेषामिति। ननु प्रादीनां चादीनां च वाचकत्वे उपसर्गत्वनिपातत्वयोः शक्ततावच्छेदकत्वे गौरवमत आह-निपातत्वं परेषामिति। ननु `चादयोऽसत्त्वे' इत्यत्रासत्त्वे इति प्रसज्यप्रतिषेध इत्याश्रीयमाणेऽसमर्थंसमासो वाक्यभेदश्चेति गौरवमतो लाघवात्पर्युदासमाश्रित्य निपातलक्षणमाह-असत्त्वार्थकत्वे सतीति। असत्त्वार्थकत्वसमानाधिकरणचादिगणपठितत्वं निपातत्वमित्यर्थः। गुणकर्मान्यत्वे सति सत्त्वादित्यादौ गुणकर्मान्यत्वसमानाधिकरणसत्त्वादित्यर्थप्रतीतेः सति सप्तम्याः सामानाधिकरण्यार्थकतायाः क्लॄप्तत्वादिति भावः। नन्वेतल्लक्षणस्य प्रादिष्यव्याप्तिरत आह-शक्तिसंबन्धेनेति। वाच्यवाचकभावात्मकशक्त्याख्यसंबन्धेन निपातपदवत्त्वं-निपातपदाश्रयत्वं,(निपातपदवाच्यत्वं)निपातत्वमित्यर्थः। इदं च निपातत्वं प्रादिचादिसाधारणमिति तदेव वाचकतावच्छेदकं स्वीकार्यं लाघवात्। तथा च नोक्तं गौरवमिति भावः। जातिर्वेति। ननु निपातत्वं जातिर्भवितुं नार्हति। हत्वादिना संकर्यात्। संकरस्य च जातिबाधकत्वाङ्गीकारात्। तथा हि-पृथिवी, आपः, तेजः, वायुः, आकाशश्चेति पञ्चसु भूतत्वं वर्तते। पृ.आ.ते.वा. मनश्चेति पञ्चसु मूर्तत्वं विद्यते। मूर्तत्वं नामापकृष्टपरिमाणवत्त्वम्। परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोरेवत्र समावेशः संकरः। भवति हि भूतत्वं विहाय मनसि वर्तमानस्य मूर्तत्वस्य, मूर्तत्वं विहाय आकाशे वर्तमानस्य भूतत्वस्य च पृथिव्यादिचतुष्टये समावेशः। तस्माद्‌भूतत्वं भूर्तत्वं चेति द्वयमपि न जातिरिति नैयायिकानां सिद्धान्तः। तद्वत्-हसतीत्यादिघटके हशब्दे हत्वं विद्यते, निपातत्वं नास्ति। निपातचशब्दे निपातत्वं विद्यते, हत्वं नास्ति। निपातहशब्दे तु हत्वनिपातत्वयोरेकत्र समावेशान्निपातत्वं न जातिरित्याशयेनाऽऽह-उपधिर्वेति। जात्यतिरिक्तधर्मे उपाधिव्यवहारः प्रायिको नैयायिकानाम्। स चापि द्विविधः सखण्डोपाधिरखण्डोपाधिश्चेति। यस्तावन्निर्वक्तुं शक्यते स सखण्डोपाधिः। यथा-शब्दसमवायिकारणत्वमाकशत्वं प्राच्यादिव्यवहारहेतुत्वं दिग्त्वमित्येवमाकाशत्वादिकम्। यश्च धर्मो निर्वक्तुं न शक्यते सोऽसावखण्डोपाधिः। उक्तं च-अनुयोगितात्व-प्रतियोगितात्व-विषयतात्वादिरिति। तद्वन्निपातत्वस्यासत्त्वार्थकत्वे सति चादिगणपठितत्वरूपं सखण्डत्वमपि संभवति, तथाऽपि निपातत्वस्य सखण्डोपाधेः प्रादिचाद्युभयानुगतत्वाभावादखण्डोपाधित्वमेवाङ्गीकरणीयम्। एवं च परेषां मीमांसकादीनां यादृशं जातिरूपमुपाधिरूपं वा निपातत्वमभिमतं, अस्माकमपि निपातत्वं तादृशमेव जातिरूपमुपाधिरूपं वाऽभिमतमित्यर्थः। तत्र मीमांसकाश्चादीनामिव प्रादीनामपि वाचकत्वमिच्छन्ति। अन्ये वैयाकरणाः प्रादीनामिव चादीनामपि द्योतकत्वमिच्छन्ति। सत्येवमुभयमतेऽपयुपसर्गाणां वाचकत्वे द्योतकत्वे वा कल्पयितव्ये वाचकतावच्छेदकं द्योकतावच्छेदकं वा प्रादिनिष्ठं निपातत्वमेव वाच्यं नोपसर्गत्वमित्यत्र विनिगमद्योतकतावच्छेदकं वा प्रादिनिष्ठं निपातत्वमेव वाच्यं नोपसर्गत्वमित्यत्र विनिगमद्योतकतावच्छेदकं वा प्रादिनिष्ठं निपातत्वमेव वाच्यं नोपसर्गत्वमित्यत्र विनिगमनाविरह इत्याशङ्कामपनुदति-परं त्वित्यादिना। सामान्यधर्म इति। व्यापकधर्म इत्यर्थः। अस्यासति बाधक इत्यादिः। तथा चासति बाधके सामान्य(व्यापक)धर्मस्यावच्छेदकत्वकल्पने प्रमाणानां पक्षपातोऽभिनिवेश---आग्रह इति यावत्। एवं चोपसर्गाणां वाचकतायां द्योतकतायां वाऽङ्गीकृतायां प्रादिचाद्युमयवृत्तित्वेन व्यापकधर्मस्य निपातत्वस्यैव वाचकतावच्छेदकत्वं द्योतकतावच्छेदकत्वं वा मन्तव्यं प्रमाणानां सामान्ये पक्षपात इति न्यायादिति भावः। ततश्च प्रादयो द्योतकाश्चादयो वाचका इत्येवं यत्प्रादिचाद्योर्वैलक्षण्यं नैयायिकैरुक्तं तन्न युक्तमित्यर्थः। व्यापकत्वादिति। जातिरूपस्योपाधिरूपस्य निपातत्वस्य प्रादिचाद्युभयर्वृत्तित्वेन सामान्यधर्मत्वादित्यर्थः। शक्तताया इति। वाचकताया इत्यर्थः। शक्तताया इत्युपलक्षणमिति। समीपस्थस्य स्वसंबन्धिनश्च लक्षणं ज्ञानं यस्मादिति विग्रहः। स्वस्य स्वान्यस्य चाजहत्स्वार्थलक्षणया बोधकं पदमित्यर्थः। यथा काकेभ्यो दधिरक्ष्यतामित्यत्र काकपदं स्वस्य स्वान्यस्य श्वादेश्च बोधकं, तद्वत् शक्ततापदं स्वस्याः शक्ततायाः स्वान्यस्या द्योतकतायाश्चाजहत्स्वार्थया लक्षणया बोधकमिति भावः। एवं च वाचकताया द्योतकताया वाऽवच्छेदकमुभयविधं निपातत्वमिति तात्पर्यम्।। 48 ।।
इति वैयाकरणभूषणसारटीकायां शांकर्यां निपातानां द्योतकत्ववाचकत्वनिर्णयः।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
सीरीयेऽभूद्विवरणे निपातार्थविनिर्मयः।। 8 ।।