वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/देवताप्रत्ययार्थनिर्णयः

विकिस्रोतः तः
← भावप्रत्ययार्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
देवताप्रत्ययार्थनिर्णयः
[[लेखकः :|]]
अभेदैकत्वसङ्ख्यानिर्णयः →

।। अथ देवतादितद्धितप्रत्ययार्थनिर्णयः ।।
त्वतलादितद्धितभावप्रत्ययार्थनिर्णयप्रसङ्गेन स्मृतानामन्येषामपि देवदाद्यर्थकतद्दितप्रत्ययानामर्थान्निरूपयति-साऽस्य देवतेति। ननु प्रथमोपात्तमप्यपत्यार्थकतद्धितमुपेक्ष्य देवतार्थकतद्धितार्थानेर्णयादरे किं बीजमिति चेदुच्यते। तस्यापत्यमित्यत्र प्रत्ययार्थस्यापत्यरूपस्यैकत्वात्, अपत्यरूपप्रत्ययार्थे च प्रकृत्यर्थस्य जन्यजनकभावसंबन्धादिरूपेक्षेदसंबन्धेन प्रकारतायाः सुगमत्वाच्च तत्र संदेहाभावेन न निर्णयापेक्षा। देवतार्थकतद्धिते तु नानापक्षसंभवात्प्रत्ययार्थप्राधान्यस्य प्रकृत्यर्थप्रकारतायाश्च दुरूहत्वेन तदर्थनिर्णय आदृत इति बोध्यम्। देवताविशिष्टं देयमिति। स्वस्वामिभावसंबन्धेन स्वोद्देश्यकत्यागकर्मत्वसंक्न्धेन वा देवताविशिष्टं देयं देवताप्रत्ययार्थ इत्यर्थः। तत्र देयं च संबन्धित्वेनैव प्रत्ययार्थः। अस्येत्यत्र विशेष्यविशेषणभावव्यत्यासेन षष्ठ्यर्थसंबन्धोपसर्जनकेदमर्थस्य प्रधानतयाऽस्येति सर्वनाम्नः संबन्ध्यर्थकत्वादिति भावः। देयमिति मन्त्रस्याप्युपलक्षणम्। आमिक्षादिपदैश्च संबन्धित्वेन बुद्धस्यैव देयस्य विशेषसमर्पणं क्रियते। ततश्चेन्द्राभिन्नदेवतानिष्ठस्वामितानिरूपितस्वतासंबन्धवद्देयमिति वा, इन्द्राभिन्नदेवतोद्दैश्यकत्यागनिरूपितकर्मत्वसंबन्धवद्देयमिति वाऽर्थः। इन्द्राभिन्नदेवतासंबन्धीतिरीत्या सामान्यतो बोधः। देवतात्वं च दिवरेरैश्वर्यकर्मणो देवतेति देवात्तल् इति सूत्रभाष्यान्मन्त्रकरणको यो हविम्त्यागस्तज्जन्यस्वर्गातिरिक्तफलाश्रयत्वेन तदुद्देश्यत्वं मन्त्रस्तुत्यत्वं च अनुक्रमणिकायामप्युक्तं-यस्य वाक्यं स ऋषिर्याऽनेनोच्यते सा देवतेति। अत एव ऐन्द्रो मन्त्र ऐन्द्रं हविरिति द्विविधप्रयोगसिद्धिः। देवतातिष्ठफलं चास्येदं फलं भवत्वितीच्छात्मकपीतिरेवेति बोध्यम्। ननु एन्द्रं वैश्वदेदीत्यादाविन्द्रादीनां देवतत्वाव्यभिचारादिन्द्रादिपदादेव देवतार्थलाभेन देवतार्थपन्तर्भाव्य तद्धितशक्तिवर्णनं किपर्थमित्यत आह--देवतात्वोपस्थापकान्तरेति। इन्द्रादौ देवतात्वाव्यभिचारेऽपि केवलेन्द्रादिपदादिन्द्रत्वादिरूपेणैवेन्द्रादीनामुपस्थितिर्जायते, न देवतात्वरूपेण। देवतार्थे तद्धितशक्तिकल्पने तु देवतार्थ इन्द्रादीनामभेदेनान्वयादिन्द्राद्यभिन्ना देवतेति बोधादिन्द्रादीनामिन्द्रत्वसमानाधिकरणदेवतात्वरूपेणोपस्थितिर्भवति। यथा पृथिव्यादय उपतिष्ठन्ते, न द्रव्यत्वरूपेण। पृथिव्यादिद्रव्यमित्युक्तौ तु पृथिव्यदीनां द्रव्येणाभेदान्वयात्पृथिव्याद्यभिन्नं द्रव्यमिति बोधात्पृथित्यर्थं देवतामन्तर्भाव्य तद्धितशक्तिकल्पनमावश्यकमिति भावः। देवतान्तर्भावेण तद्धितशक्तिकल्पेन मीमांसकसंमतिमाह- अत-एवेति। देवताद्धितस्य देवतासंबन्धि देयमित्यर्थकत्वादेवेत्यर्थः। आमिक्षां देवतायुक्तामिति तन्त्रवार्तिककारोक्तिरियम्। वैश्वदेव्याभिक्षेत्यत्र विश्वदेवा देवता अस्येति सर्वनामार्थे `साऽस्य देवता' इति पाणिनिसूत्रेणाण्‌प्रत्यये टिडढाणञितिसूत्रेण ङीपि वैश्वदेवशब्दः सिद्धः। तत्र सर्वनाम्नामुत्सर्गत उपस्थितविशेषणवाचित्वात्तदर्थे विहितस्य तद्धितस्यापि विशेषणवाचित्वम्। तथा च एषः-वैश्वदेवीत्यत्रत्यस्तद्धितप्रत्ययो देवतायुक्तमिक्षारूपं विशेषमप्यर्थं प्रतिपादयत्येवेत्यर्थः। वदत्येवेति क्रियासंगतैवकारेणात्यन्तायोगव्यच्छेदात्कदाचिदपि विशेषार्थं न प्रतिपादयतीति न, इत्यर्थात्प्रकृतार्थदाढ्‌र्यरूपे विशेषो लभ्यते। यद्यपि सा देवताऽस्येति विशिष्टः प्रत्ययार्थस्तथापि तत्र देवताया अस्येति सर्वनामार्थे विशेषणत्वेन प्रतितेस्तद्धितार्थे प्राधान्यं सर्वनामार्थस्यैव। यद्वा सेति प्रथमासमर्थादस्येत्यर्थेऽणादयः स्युः, यत्प्रथमासमर्थं सा चेद्देवता स्यादिति संबन्धे प्रकृतिनिर्देशार्थो देवताशब्दः। प्रत्ययार्थस्त्वस्येत्येवेति प्राचीनमतानुसारेणेदम्। आमिक्षापदेति। तस्यैव-तद्धितप्रत्ययस्यैव। विषयार्पणभिति। आमिक्षारूपो विषयविशेषः समर्प्यत इत्यर्थः। वैश्वदेवीशब्दोपात्तः कोऽसौ विशेष इति जिझासायामामिक्षापदसांनिध्यादामिक्षारूपो विशेषइत्यवगम्यत इति भावः। परं स विशेषोऽमुक इति न नियतः। नियतविशेषार्थप्रतिपत्तिस्तु तस्मात्तद्धितप्रत्ययादेव जायते। तत्राऽऽमिक्षापदसंनिधानं सहकारितयोपयुज्यते। तथा च, तद्धितात्सामान्यार्थस्यैव प्रतितिः, विशेषप्रतीतिस्तु केवलमामिक्षापदादेवेत्येवं न भ्रमितव्यम्। आपिक्षापदं हि स्वयं विनशेषमर्थं ब्रुवदपि तद्धितार्थेऽनियतविशेषरूपे नियतत्वं संपादयतीति तात्पर्यम्। केवलादिति। सोमादिपदसंनिधानरहितादग्निशब्दात्परतः समुच्चरन्-पादुर्भवन् देवतावाची तद्धितप्रत्ययः, अन्ययुक्ताग्नीति-सोमादियुक्ताग्निदेवतोद्देश्यकं देयं प्रतिपादपितुं न क्षमते। सोमादिसापेक्षस्य देवतात्वे, सापेक्षमसमर्थवदिति वचनादसामर्थ्येन `आग्नेयोऽष्टाकपालः' इत्यादौ तद्धितबृत्तिरेव न स्यादिति भावः। नान्ययुक्ताग्निदेवत्यमित्यादिना केवलाग्निदेवत्यं प्रतिपादयितुं क्षम इति सूचितम्। ततश्च देवताविशिष्टदेयं देवतातद्धितार्थ इति तन्त्रवार्तिककारादिमीमांसकानामपि संमतमित्याशयं मनसिकृत्याऽऽह-प्रत्ययार्थस्यैकदेशेति। अभेदश्चात्र संसर्ग इति। प्रकृत्यर्थेति। देवताविशिष्टदेयरूपस्य तद्धितप्रत्ययार्थस्यैकदेशे देवतारूपे, प्रकृत्यर्थ इन्द्रादिप्रकृत्यर्थः सहस्राक्षादिरूपो विशेषणमित्यर्थः। देवतापदार्थनिष्ठविशेष्यतानिरूपितविशेषणतावानिन्द्रादिप्रकृत्यर्थ इति विशेषणमिन्द्रादिः, विशेष्यश्च देवतापदार्थ इति भावः। तच्च विशेषणं केन संबन्धनेत्याह-अभेदश्चात्रेति। प्रकृत्यर्थो देवतायामभेदसंबन्धेन विशेषणमित्यर्थः। नन्वग्न्यादे प्रकृत्यर्थस्य प्रत्ययार्थदेवतायां नाभेदेन नापि भेदेनान्वयः संभवति, पदार्थः पदार्थेनान्वेति नतु पदार्थैकदेशेनेति न्यायादित्याशङ्कते-ननु देवताया इति। अभेदेनाप्यन्वय इति। भेदेनान्वयो न संभवति, तस्य बाधितत्वादिति सूवनायापिशब्द उपात्तः। तथा चाग्न्यादेर्देवतायां कथमप्यन्वय एव नास्तीत्यत आह-देवतायां प्रदेये चेति। खण्डश इति। पृथक्‌शक्तिरित्यर्थः। शक्तिद्वयमिति यावत्। ततश्च देवतायाः पदार्थैकदेशतैव नास्तीत्यर्थः। एवं चाग्न्यादेः प्रत्ययार्थदेवतायामभेदेनान्वये न किंचिदपि बाधकमिति भावः।। 52 ।।
ननु अग्न्यादेर्देवस्याग्न्यादिशब्दादेव लाभान्न देवतायां तद्धितस्य शक्तिः पल्पनीया गौरवादित्याशङ्कते नन्वगन्यादिदेवस्येति। प्रकृत्यैव लाभादिति। प3कृतभूताग्न्यादिपदेनैवाग्न्यादिदेवस्योपस्थितेः। अग्न्यादेर्देवत्वाव्यभिचारादिति भावः। ननु प्रकृतिभूताग्न्यादिपदादग्नित्वादिनाऽग्न्यादेरुपस्थितावपि देवतात्वेनाग्न्यादेरुपस्थितये देवतायां तद्धितस्य शक्तिः कल्प्यत इत्यत आह-प्रकृतेलंक्षणयैवेति। प्रकृतिभूताग्न्यादिशब्दोऽग्न्यादिदेवतायां लाक्षणिक इत्यर्थः। अजहल्लक्षणयाऽग्नित्वादिसमानाधिकरणदेवतात्वविशिष्टाग्न्यादिदेवताबोधक इति यावत्। द्योतकत्वनय इति। वाचकत्ववादिमते प्रकर्षस्योपसर्गार्थत्वेन तद्विशिष्टे धातोर्लक्षणाया अनङ्गीकारेण दृष्टान्तासंभव इत्युक्तं द्योतकत्वेति। प्रकृष्टजयप्रत्ययवदिति। अयं भावः-प्रजयतीत्यत्र प्रकृष्टजयोऽनुभूयते। स च न धात्वर्थः। तथा सति जयतीत्यत्रापि प्रकृष्टजयपतीत्यापत्तेः। नाप्युपसर्गार्थः। तथा सति प्रहरतीत्यत्रापि प्रकृष्टजयप्रत्ययापत्तेः। नापि च विशिष्टार्थः। तथआ सति विशिष्‍स्योभयरूपत्वेनोभयत्र शक्तिकल्पनायां गौरवापत्तेः। तस्माज्जये क्लॄप्तशक्तेर्धातोरेव लक्षमया प्रकृष्टजयबोधकत्वम्। उपसर्गस्तु तात्पर्यग्राहकः। एतावतैव चोपसर्गाणां द्योतकत्वमिति व्यवहारः। एवं च यथा लक्षणया जिधातोः प्रकृष्टजयपतीतिर्भवति तद्वत्प्रकृतस्थलेऽपि लक्षअमया प्रकृतिभूताग्न्यादिशब्देभ्य एवाग्न्यादिदेवतोपस्थितिः संभवेदित्याशयवानाह-प्रदेय एव वा शक्तिरिति। प्रदेये द्रव्य एव तद्धितस्य शक्तिः, प्रकृतेस्तु देवतायां निरूढा लक्षणाऽस्तु, अथवा देवताशब्दः प्रकृतिनिर्देशार्थः, सेति प्रथमासमर्थादस्येत्यर्थेऽणादयः स्युः, यत्प्रथमासमर्थं सा चेद्देवता स्यादित्यर्थात्। अमी सर्वे पक्षा मीमांसकादिग्रन्थेषु स्थिता इति योजना। प्रदेय एवेत्येवकारेण देवतायां तद्धितशक्तिर्व्यत्वर्त्यते। स्ववृत्तिदेवतात्वनिरूपकत्वसंबन्धेन प्रकृत्यर्थस्य प्रत्ययार्थ देयेऽन्वयो भविष्यपतीत्यर्थः। निरूढेत्यनेनानादितात्पर्यवती लक्षणेत्युक्तं भवति। ननु समभिव्याहतदध्यादिपदादेव देयद्रव्यस्य लाभे सिद्धे पुनस्तत्र तद्धितशक्तिकल्पनमनन्यलक्ष्यः शब्दार्थ इति न्यायविरुद्धमित्याक्षिपति-न चैन्द्रं दधीत्यादाविति। लाभादिति। समभव्याहृतदध्यादिपदान्तराल्लाभादित्यर्थः। तत्र शक्तिरिति। तत्र-देये द्रव्ये शक्तिः कुतः कल्प्यते, देयद्रव्ये शक्तिर्न कल्पनीया, द्रव्यस्यान्यलभ्यत्वात्। किंतु देवतायामेव तद्धितशक्तिः कल्पनीया, नतु देवताविशिष्टे देयद्रव्य इत्याक्षेपकाभिप्रायः। द्रव्ये शक्तिकल्पनाभावेऽपि दध्यादिपदलभ्ये द्रव्ये तद्धितप्रत्ययलभ्यदेवतायाः स्वनिष्ठदेवतात्वनिरूपकत्वादिसंबन्धेनान्वयादिन्द्रादिदेवतानिष्ठदेवतात्वनिरूपकं दध्यादित्यर्थाद्देवताविशिष्टं देयमित्यर्थलाभः संभवति। अत्र पक्षे प्रकृत्यर्थस्य प्रत्ययार्थैकदेशान्वयरूपो दोषोऽपि नास्तीत्यपरमिदमनुकूलमिति चेत्तन्न युक्तमित्याह-पदान्तराश्रवणेऽपीति। यत्र दध्यादिपदान्तरं न श्रूयते तत्रापि देवतातद्धितान्तात्तत्प्रतीतेः-द्रव्यप्रतीतेरनुभवसिद्धत्वादित्यर्थः। तथा च दध्यादिपदान्तराश्रवणस्थले जायमानद्रव्यप्रतीतेरन्यथ नुपपत्त्या तद्धितस्य देयद्रव्ये शक्तिकल्पनमावश्यकमिति भावः। देयद्रव्ये तद्धितशक्तिकल्पने साधकान्तरमाह-सामानाधिकरण्याच्चेति। तद्धितस्य देवतामात्रार्थकत्वे, `इन्द्राभिन्नदेवता' इत्यर्थकस्यैन्द्रपदस्य दध्यादिपदेन सामानाधिकरण्यं न स्यात्। यत ऐन्द्रदध्नोः सामानाधिकरण्येन-अभेदेनान्वयो भवति ततस्तदनुरोधेन तद्धितस्य द्रव्ये शक्तिरावश्यकीति बोध्यम्। किंच देवतादध्नोर्नामार्थयोर्निरूपकत्वादिभेदसंबन्धेनान्वयस्तु सुतारं दुर्वचः। नामार्थयोरभेदान्वय इति व्युत्पत्तिविरोधात्। ततश्च देयद्रव्ये तद्धितशक्तिकस्पनात्मकः पाशस्तवापि गले पततीति भावः। ननु देवताविशिष्टद्रव्ये प्रकृतेर्निरूढा लक्षणैवास्तु, किं प्रदेये तद्धितशक्तिकल्पनेनेति चेन्न। तथा सति प्रदेयस्य प्रकृत्यर्थत्वं तद्धितस्य तु तद्‌द्योतकत्वमर्थात्पर्यवसन्नमिति कृत्वा प्रदेयस्य प्रकृत्यर्थनिरूपितविशेष्यत्वानापत्तेः। द्योत्यार्थस्य प्रकारतया भाननियमात्। अत एव `स्त्रियाम्'(पाoसूo4-1-3)इति सूत्रे भाष्येऽजाखट्‌वेत्यादौ टाबादिबोध्यस्त्रीत्वस्य प्रत्ययार्थत्वेन प्राधान्यादसत्त्वरूपत्वेन च तस्य तत्र वचनानुपपत्तिमाशङ्क्य स्रीत्वस्य द्योत्यतया स्त्रीत्वविशिष्टा अजेत्येवं स्त्रीत्वस्य प्रकारतया भानान्न तद्गतसंख्याबोधकं वचनं, किंतु विशेष्यभूताजाव्यक्तिगतसंख्याबोधकं वचनमिति नानुपपत्तिरिति समाहितम्। यदी च द्योत्यत्वेऽपि विशेष्यतया भानं स्यात्तर्हि समाधानासंगतिः स्पष्टेवेत्यनुसंधायाऽऽह-अन्यथेति। सामानाधिकरण्यानुरोधात्प्रदेये तद्धितस्य शक्त्यनङ्गीकारे, इत्यर्थः। न स्यादिति। अस्य वैयाकरणमत इत्यादिः। वैयाकरणा हि पचति देवदत्तः, पच्यते तण्डुल इत्यत्राऽऽख्यातस्य कर्तृकर्मवाचकत्वे स्वीकृते सति आख्यातवाच्ययोः कर्तृकर्मणोर्देवदत्ततण्डुलाभ्यां सह सामानाधिकरण्येनानवयो भवतीति तदनुरोधेनाऽऽख्यातप्रत्ययस्य कर्तृकर्मवाचकत्वमङ्गीकुर्वते। सामानाधिकरण्यं च प्रकारद्वयविशिष्टैकवस्तुबोधकत्वम्। आख्यातस्य कर्तुकर्मवाचित्वे सति तादृशाख्यातप्रत्ययात्कर्तृत्वेन कर्मत्वेन वा यस्या व्यक्तेर्बोधो भवति तस्या एव व्यक्तेर्देवदत्तपदाद् देवदत्तत्वेन, तण्डुलपदाच्च तण्डुलत्वेन बोधो भवति, उभयत्र विशेष्यभूता व्यक्तिरेकैवेति। एवं चाऽऽख्यातस्य कर्तृकर्मार्थे शक्तस्वीकारे सामानाधिकरण्योपपत्तिर्बीजमिति भावः। यदि तु सामानाधिकरण्यानुरोधेन तद्धितस्य प्रदेये शक्तिर्न स्वीक्रियते तर्हि एतत्तुल्यन्यायादाख्यातस्यापि कर्तृकर्मणोः शक्तिर्न सिध्येत्। ततश्च पचति देवदत्त इत्यादावनुभूयमानं सामानाधिकरण्यं दुर्वचं स्यात्, तथा ऐन्द्रं दधीत्यादावपि सर्वानुभवसिद्धं सामानाधिकरण्यं न घटेतेत्याशयः। भावनाया अन्तराऽऽश्रयमवस्थानासंभवादन्यथानुपपत्त्याऽऽक्षेपादिना लक्ष्यमाश्रयमादाय, तथा `साऽस्य देवता' इत्यत्रास्येति षष्ठ्यन्तपदघटकप्रकृत्यर्थं वर्जयित्वा षष्ठ्यर्थसंबन्धे देवतायां चेति मिलित्वा देवतासंबन्धे तद्धितशक्तिकल्पनेन, संबन्धेन चान्यथानुपपत्त्या स्वाश्रयसंबन्धिरूपधर्मिण आक्षेपादाक्षिप्तं धर्मिणमादाय तस्य देवदत्त-दध्यादिभिरभेदेनान्वयान्मीमांसकोक्तसामानाधिकरण्योपपत्तिस्तु सुतरां दुर्वचा। आक्षेपादिना लब्धार्थस्य विशेष्यतया भानाभावाच्छाब्दान्वये मानाभावाच्च। अन्यथा घटमानयेति वाक्यात्समवायसंबन्धेनोपस्थिताकाशस्यापि शाब्दान्वयेनाऽऽकाशमानयेति बोधापत्तेरिति विभावनीयम। एवं वैयाकरणान् प्रति आख्यातस्य कर्तृकर्मवाचकत्वसिद्ध्यभावात्मिकामापत्तिमुक्तत्वा मीमांसकान् प्रत्याह-मीमांसकानां पुनरिति। प्रत्ययस्य-साऽस्य देवतेत्यर्थे विहितस्य तद्धितपत्ययस्य। देवतात्वमेवेति। देवतात्वविशिष्टदेवतायां तद्धितशक्तिकल्पनापेक्षया लाघवाद् देवतात्व एव तद्धितशक्तिकल्पनमुचित। एवकारेण देवताया व्यावृत्तिः। द्रव्यं तु पदान्तराल्लभ्यत एवेत्युक्तत्वात्। देवतात्वस्य स्वनिरूपकत्वसंबन्धेन द्रव्येऽन्वयो भविष्यतीत्यभिप्रायः। तथा चेन्द्रवृत्तिदेवतात्वनरूपकं हविरिति बोधः। कर्तृवद्वाच्यत्वं माऽस्त्विति। यथा मीमांसकमत आख्यातस्य कर्ता न वाच्येऽपितु भावनैव वाच्या लाघवात्। आश्रयस्य देवदत्तादिपदान्तराल्लाभसंभवात्। पदान्तरलभ्याश्रये भावनात्मककर्तृत्वस्यान्वयेनैव कर्तृत्वविशिष्टत्वमाश्रये बुध्येतेति भावः। तद्वत्प्रकृतस्थले प्रदेये समभिव्याहृतपदान्तरलभ्ये तद्धितार्थदेवतात्वस्यान्वयेनैव देवतात्वविशिष्टत्वस्य प्रदेये लाभसंभवात्तद्धितप्रत्ययस्य प्रदेये शक्तिर्न सिध्येदिति भावः। ननु तद्धितस्य प्रदेये शक्त्यभाव इष्ट एवेति चेन्न। `जामिक्षां देवतायुक्तां वदत्येवष तद्धितः' इति वचनेन मीमांसकैः प्रदेये तद्धितशक्त्यङ्गीकारस्य स्पष्टमेवोक्तत्वात्। ततश्चात्र चेत्सामानाधिकरण्यानुरोधेन प्रदेये तद्धितस्य शक्तिः कल्प्यते तर्हि आख्यातेऽपि कर्तृवाचकत्वं स्याद्देवदत्तः पचतीत्यत्र कर्तृदेवदत्तयोरनुभूयमानसामानादिकरण्यानुरोधादिति द्रष्टव्यम्। नन्वग्न्यादिपदेन शक्त्यैवाग्न्यादिदेवताया लाभे सिद्धे किं लक्षणयेत्यत आह-देवतात्वेनेति। अग्न्यादीनां देवतात्परूपेणोपस्थित्यर्थं लक्षणाश्रयणमित्यर्थः। गङ्गायास्तीरसंबन्धाव्यबिचारेऽपि लक्षणां विना तीरपदारथानुपस्थितिद्ग्न्यादीनां देवतात्वाव्यभिचारेऽपि विना लक्षणामग्न्यादिपदाद्देवतापदार्थोपस्थितिर्न स्यादित्यावश्यकी लक्षणेति भावः। सा च लक्षणा न प्रयोजनवतीत्याह-निरूढेति निरूढायाः स्वरूपं निर्वक्ति-अनुपपत्तीति। अन्वयाद्यनुपपत्तिज्ञानशून्यत्वं, अनादितात्पर्यवत्त्वं वा, तत्त्वं-निरूडास्वमित्यर्थः।। 54 ।।
देवतातद्धितार्थनिरूपणप्रसङ्गेन स्मृतान्यतद्धितार्थविषयेऽप्युक्तरीतिरेवानुसर्वत्येत्याह-क्रीडायां णस्तदस्यास्तीति। इत्यत्रेति। तदस्यां प्रहरणमिति निरिक्तसूत्रविहितणप्रत्ययान्तदाण्डादिशब्द इत्यर्थः। प्रहरणविशिष्टा क्रीडेति। क्रीडायां प्रहरणवैशिष्ट्यं चाऽऽश्रयाश्रयिभावसंबन्धेन, क्रीडा-आश्रयः, प्रहरणं चाऽऽश्रयतीति भावः। अस्य `अर्थः' इत्यत्रान्वयः। अर्थ इति। प्रहरणविशिष्टा क्रीडा दाण्डेत्यत्रत्यणप्रत्ययार्थ इत्यर्थः। तत्र प्रकृत्यर्थस्य दण्डस्य प्रहरणविशिष्टक्रीडात्मकणप्रत्ययार्थैकदेशे प्रहरणेऽभेदेनान्वयः। दण्डाभिन्नप्रहरणाश्रयः क्रीडेत्यर्थः। पदार्थेः पदार्थेनान्वेति नतु पदार्थैकदेशेनेति न्यायविरोधादेकदेशान्वयमसहमान आह-प्राहरणक्रीडे इति। प्रहरणे क्रीडायां च खण्डशः शक्तिर्णप्रत्ययस्येत्यर्थः। ततश्च नैकदेशान्वयदोषप्रसक्तिरिति भावः। अत्र पक्षेऽभेदेन दण्डान्वितप्रहरणस्य क्रीडायामाश्रयत्वसंबन्धेनान्वयः। उभयत्र पृथक्‌शक्तिकल्पने गौरवं मत्वा लाघवानुरोधेनाऽऽह-क्रीडामात्रमिति। मात्रपदेन प्रहरणस्य णप्रत्ययार्थत्वं नास्तीत्युक्तम्। दण्डादिपदेन शक्त्यैव दण्डादिप्रहरणस्य लाभसंभवादिति भावः। प्रहरणं प्रहारसाधनम्। प्रह्रियतेऽनेनेति करणघञा प्रहरणशब्दस्य निष्पन्नत्वात्। ननु दण्डत्वेन प्रहरणलाभेऽषि प्रहरणत्वेन तल्लाभार्थं प्रहरणे णप्रत्ययशक्तिरिस्त्विति चेत्-दण्डादिपदस्य दण्डादिप्रहरणे निरूढा लक्षणा स्वीक्रियताम्। अस्मिन् पक्षे प्रकृत्यर्थस्य दण्डादिप्रहरणस्य स्वनिष्ठप्रहरणत्वनिरूपकत्वादिसंबन्धेन क्रीडायामन्वयाद्दण्डादिप्रहरणविशिष्टा क्रीडेत्यर्थात्क्रीडायां प्रहरणवैशिष्ट्यलाभः। अत्रेदं बोध्यम्-यदा प्रहरणे क्रीडायां च णप्रत्ययस्य पृथक्शक्तिकल्पनं तदा यद्यपि हरिपदादुपस्थितयोरश्वसूर्ययोः परस्परमाधाराधेयभावेना न्वयवारणाय तत्पदजन्य-तद्धर्मावच्छिन्नविषयकान्वयबोधं प्रति अपरपदजन्यपदार्थोपस्थितिः कारणमित्येवं कार्यकारणभाव आवश्यकः। तेनैकपदोपस्थाप्ययोरर्थयोः परस्परमन्वयबोधोऽव्युत्पन्न इति णप्रत्ययोपस्थाप्ययोः प्रहरणक्रीडयोरर्थयोः परस्परमन्वयो(प्रहरणविशिष्टक्रीडेत्येवं)दुर्वचस्तथापि व्युत्पत्तिवैचित्र्यादेकपदोपस्थाप्ययोरप्यर्थयोः परस्परमन्वयो भवति। यथा प्राचीनमते फलव्यापारयोर्धातोः पृथक्‌शक्तावपि फलस्यानुकूलतासंबन्धेन व्यापारेऽन्वयो व्यापारस्य च जन्यत्वसंबन्धेन फलेऽन्वयो भवति व्युत्पत्तिवैचित्र्यात्तद्वत्प्रकृतेऽपि ज्ञेयमिति। कारिकायां-एषैव दिगित्यस्य देवतातद्धितार्थे या रितिः प्रोक्ता सैव रीतिर्णप्रत्ययार्थविषयेऽनुसर्तव्येत्यर्थः। आदिपदसंग्राह्यं प्रदर्शयति-सोऽस्य निवास इत्यादि। अत्र निवसत्यस्मिन्निति वसधातोर्घञा निष्पन्नो निवासशब्दोऽधिकरणसाधनो बोध्यः। अस्येत्यत्र यद्यपि प्रकृतिभूतेदम्शब्दोपात्तार्थोपसर्जनकः षष्ठ्यर्थः संबन्धो विशेष्यतया प्रतीयत इति तस्यैव प्रत्ययार्थत्वं प्राप्नोति तथापि `आमिक्षां देवतायुक्तां वदत्येवैष तद्धतः' इति न्यायेन षष्ठ्यर्थसंबन्धोपसर्जनकः प्रकृत्यर्थः प्रधानतयाऽऽश्रीयते। तथा च संबन्धवान् प्रकृत्यर्थ इति रीत्याऽस्येति षष्ठ्यन्तस्य संबन्धीत्यर्थः पर्यवस्यति। अत एव साऽस्येत्यत्रेदभ्शब्दोपात्तं देयद्रव्यं देवताप्रत्ययार्थ इत्युक्तं पुरस्तात्। एवं च निवासः संबन्धी च, सोऽस्येत्यादिसूत्रविहितनिवासप्रत्ययार्थः। अत्रापि(1)निवासविशिष्टः संबन्धी प्रत्ययार्थः। संबन्धिनि निवासाधिकरणवैशिष्ट्यं चाऽऽधाराधेयभावादिसंबन्धेन बोध्यम्(2)निवासः संबन्धी च पृथक्‌प्रत्ययार्थः,(3)-केवलः संबन्धी वा प्रत्ययार्थ इति पूर्ववत्पक्षत्रयं बोध्यम्। स्त्रुघ्नो निवासाधिकरणभूतोऽस्येति स्रौघ्नो देवदत्तः। अत्र प्रथमे पक्षे स्रुघ्नस्य प्रकृत्यर्थस्य निवासाधिकरणविशिष्टसंबधिरूपप्रत्ययार्थैकदेशे निवासाधिकरणेऽभेदेनान्वयः, निवासाधिकरणस्य चाऽऽधेयतासंबन्धेन संबन्धिन्यन्वयः। एवं च स्रुघ्नाभिन्ननिवासाधिकरणनिरूपिताधेयतावत्संबन्ध्यभिन्नो देवदत्त इति बोधः। द्वितीयपक्षेऽभेदेन स्रुघ्नान्वितस्य निवासाधिकरणस्य संबन्धिनि पूर्ववदेवान्वयः। तृतीयपक्षे स्रुघ्नपदस्य स्रुघ्ननिवासाधिकरणे लक्षणा बोध्या। अन्यत्सर्वं पूर्ववदेवावगन्तव्यम्। स्रुघ्नाभिन्ननिवासाधिकरणसंबन्धीति पक्षत्रयसाधारणः शाब्दबोधः। निवासश्च प्रत्यासत्त्योपस्थितप्रत्ययार्थसंबन्धिकर्तृक एव ग्राह्यः। साऽस्मिन्पौर्णमासीतिति। सेति प्रथमान्तात्पौर्णमासी अस्मिन्नित्यर्थेऽणादिः प्रत्ययो भवति, प्रकृतिप्रत्ययसमुदायश्चेसंज्ञा-रूढो भवतीत्यर्थः। पुष्येण युक्ता पौषी, पौषी पौर्णमासी अस्मिन्निति पौषो मास इत्युदाहरणम्। पौर्णमासी, रूढः संबन्धी च प्रत्ययार्थः। पौर्णमासीविशिष्टः संबन्धी प्रत्ययार्थः, पौर्णमासी, संबन्धी च पृथगर्थः, केवलं संबन्धी च प्रत्ययार्थ इति पक्षत्रयमूह्यम्। अत्र पौष्यादिशब्दो `नक्षत्रेण युक्तः काल-' इति सूत्रविहिताणन्तप्रकृतिकङीवन्तः। तत्र पुष्यादिशब्दः स्वार्थतत्तन्नक्षत्रयुक्तवन्द्रपरः। अन्यथा सर्वेषां नक्षत्राणां सर्वदा सत्त्वेन सर्वदैवाद्य चैत्रमहरित्यादिप्रयोगापत्तेः। अत्र युक्त एव प्रत्ययार्थः, नतु कालोऽपि लाघवेन वस्तुसत एव तस्य प्रत्ययोत्पत्तिनिमित्तत्वौचित्यात्। अहरादिपदेन तल्लाभसंभवाच्च। तथा च पुष्युक्तचन्द्रयुक्तेति पौषीशब्दजन्यबोधः। पौष्यादिशब्दोत्तरतद्धितप्रत्ययस्य तादृशपौणमास्यधिकरणादिरर्थः। तत्तत्पौर्णमास्यां पुष्यादियोगानियमेऽपि पौषी पौर्णमासीत्यादौ तत्तन्नक्षत्रयोगयोग्यतैव विवक्षिता। तत्तन्नक्षत्रयोगाभावेऽपि चैत्री पौर्ममासी, चैत्रो वैशाख इत्यादिप्रयोगाच्च। योग्यता च स्वस्वसमीपनक्षत्रान्यतरयुक्तत्वरूपा। चैत्रादिश्रावणान्तानां मासानां चित्रादिद्वंद्वमध्ये पस्यचिद्योगस्तथाविधब्यवहारे प्रयोजकः, भाद्रपदाश्वयुजोस्तु शतभिषग्रेवत्यादित्रिकान्यतमयोगः, कार्तिकादिमागान्तानां कृत्तिकादिद्वंद्वान्यतरयोगः, फाल्गुनस्य तु प्‌र्वाफल्गुन्यादित्रयान्यतमयोग इति विवेकः। तदुक्तम्-अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः। शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया।। इति। अन्त्योपान्त्यौ-भाद्रपदाश्वयुजौ। भं नक्षत्रम्। चैत्रादिपदस्य शुक्लप्रतिपदिदर्शान्तसमुदाये रूढिः। कृषअणप्रतिपदादिपौर्णमास्यन्तसमुदाये तु न रूढिः, तत्र प्रचुरप्रसिद्ध्यभावात्। पौर्णमासीघटितमासस्य चान्द्रत्वेन तस्य च `चान्द्रः शुक्लादिदर्शान्तः' इत्यादिस्मृतिभ्यः शिष्टाचारबाहुल्याच्च शुक्लादिदर्शान्तस्यैव ग्रहीतुमुचितत्वात्। कृष्णप्रतिपादिपूर्णिमान्ते तु लाक्षणिको व्यवाह इति ज्ञेयम्। तदुस्यास्त्यस्मिन्निति। तदस्यास्तीति तदस्मिन्नस्तीति वा विग्रहेऽस्तिसमानाधिकरणात्प्रथमान्तादस्येति षष्ठ्यर्थे संबन्धिनि, अस्मिन्नित्यधिकरणे चार्थे मतुब्भवतीति तदर्थः। यद्यप्यस्येत्युक्तेः षष्ठ्यर्थसंबन्ध एव मतुव्विधानमिति प्रतीयते तथाऽपि गौमांश्चैत्र इति सामानाधिकरण्यानुरोधात्संबन्धिन्येव मतुब्विधिर्युक्तः। तथा च गोमानित्यादौ गोनिरूपितस्वामित्वसंबन्धवानित्यन्वयबोधः। अत्र संबन्धी प्रत्ययार्थः, संबन्ध आश्रयश्चेत्युभयं वा प्रत्ययार्थः। अत्रास्तीति वर्तमानकालो विवक्षितः। अन्यथा गवादिशब्दः। एवंच वर्तमानसत्तावद्‌गोसंबन्धीति बोधः। गोमानासीदित्यादौ तु गोमत्पदस्य तत्पदव्यवहारविषये लक्षणेति नानुपपत्तिरिति कैयटादौ स्थितम्। भूमनिन्दाप्रशंसासु--इति श्लोकवार्तिके संबन्धसमकक्षतया भूमाद्यर्थानामुपादानात्तेषामपि मतुब्‌वाच्यत्वं यद्यपि प्रतीयते तथाऽपि सूत्राद्बाच्यवृत्त्या भूमाद्यर्थानां मतुबर्थत्वानुपालम्भात्तेषामस्त्यर्थवत्प्रयोगोपाधित्वमेव युक्तम्। प्रयोगोपाधित्वं नाम-वाच्यत्वाभावेऽपि आर्थिकसत्तामात्रेण शब्दप्रयोगे-निमित्तबूतत्वम्। मतुबद्योत्या इति यावत्। तथा च मतुप्रकृतिभूतगवादिशब्दानां भूमाद्यर्थविशिष्टे लक्षणेति भावः। इत्यादिकमिति। आदिपदात्तस्य पूरणेo ईषदसमाप्तौo प्रकारवचने थाल्, तस्यापत्यमित्यादि ग्राह्यम्। पञ्चानां पूरणः पञ्चमः। अत्र तस्य पूरणे, इति विहितस्य डटः-नान्तादसंख्यादेरिति मडागमः। तस्येति संख्येयार्थकसंख्यावाचिनः षष्ठ्यन्ताप्रकृत्यर्थसंख्यायाः पूरणे वाच्ये डट् स्यादित्यर्थः। पूर्यतेऽनेनेति पूरणोऽवयवः स प्रत्ययार्थः। प्रकृत्यर्थस्य स्वनिष्ठपञ्चत्वसंख्यापूरकत्वसंबन्धेन प्रत्ययार्थेऽन्वयः। प्रकृत्यर्थनिष्ठपञ्चत्वसंख्यापूरण इति बोधः। यथा हरिस्तथा हर इत्यत्र प्रकारवचने थालिति थाल्‌प्रत्ययः प्रकारवदर्थकः। सामानाधिकरण्यानुरोधात्। प्रकारश्च प्रकृते सामान्यस्य भेदको विशेषः। एवं च यद्विशेषधर्मवान् हरिस्तद्विशेषधर्मवान् हर इति बोधः। यत्तद्‌भ्यां धर्मयोरैक्यावगतौ हरिसादृश्यं हरे पर्यवस्यति। ननु सादृश्यमेव थाल्‌प्रत्ययार्थोऽस्तु। तथा च यत्सदृशो हरिस्तत्सदृशो हर इत्यनुभवसिद्धः सादृश्यप्रकारकः शाब्दबोध उपपद्यत इति चेन्न। सर्वथाऽन्यथेरथेत्यादौ सादृश्याप्रतीतेः। गुडकल्पा द्राक्षा, बहुगुडो द्राक्षा, इत्यत्र ईषदसमाप्तौ कल्पब्‌देश्यदेशीयरः, विभाषा सुपो बहुच पुरस्तात्तु, इति सूत्राभ्यामीषदसमाप्तिविशिष्टेऽर्थे वर्तमानात्सुबन्तात्स्वार्थे कल्पब्बहुचौ प्रत्ययौ भवतः। अत्र गुडपदं गुडसदृशपरम्। प्रत्ययस्तु द्योतकः। प्रत्ययस्य द्योतकत्वादेव गुडकल्पा दाक्षा, बहुगुडो द्राक्षेत्यत्र क्रमेण स्त्रीलिङ्गं पुंलिङ्गं च निर्वहति। स्वार्थिकानां प्रकृतिलिङ्गवचनातिक्रमानतिक्रमयोः स्वभावसिद्धत्वात्। सादृश्यस्य प्रत्ययार्थत्वे तु बहुगुडो द्राक्षेत्यत्र विशेष्यगतस्रीलिङ्गापत्तिः स्यात्त्। अत्रेपदसमाप्तत्वं-सादृश्यप्रयोजकं माधुर्यादि प्रतीयते, तेनषत्सादृश्ये प्रत्ययो नोत्पद्यते। गुडसदृशी द्राक्षेति बोधः, उपमा गम्यते। पाचकक इत्यादौ कुत्सिते, इति सूत्रेण कुत्साविशिष्ठार्थप्रतिपादकात्पाचकशब्दात्कन्। कुत्सितपाचकत्ववानिति बोधः। प्रवृत्तिनिमित्तकुत्साया असंभवे तु स्वार्थे पूर्णस्यैव कुत्सनादियोगात्सुधान्तादेव कतिति सुबन्तेन प्रतिपादितास्वार्थद्रव्यलिङ्गादिगता कुत्सा कन् प्रत्ययेन प्रत्याय्यते। शुक्लकं रूपमित्यत्र द्रव्यकुत्सा, पश्य गाण्डीवधन्वानं विद्धि कौरवकान् स्त्रियः, इत्यत्र लिङ्गकुत्सा, पुत्रकशतमित्यत्रैकत्वसंख्याकुत्सा, शतभणे यद्‌दुःखं तदेकस्यैव भरणे, इति प्रतीतेरिति। उपगोरपत्यमोपगव इत्यादौ तस्यापत्यमित्येवंजातीयकैः सूत्रैर्विहितप्रत्ययानामपत्यादिरर्थः। षष्ठ्याद्यर्थः समुदायगम्यः। विशिष्टविषयैकशक्त्यैकोपस्थितिजनकत्वरूपैकार्थीभावगम्य इति यावत्। उपगुसंबन्ध्यपत्यमिति रीत्या बोधः। चूर्णैः संसृष्टाश्चूर्णिनोऽपूपा इत्यादौ `संसृष्टे'-`चूर्णादिनिः' इति सूत्रविहिततद्धितेन्यर्थैकदेशे संसर्गे चूर्णादेः प्रकृत्यर्थस्य करणत्वेनान्वयः। चूर्मकारणकसंसर्गविशिष्टा अपूपा इति बोधः। तथा च प्रकृत्यर्थस्य क्वचित्तद्धितार्थैकदेशे, क्वचित्तद्धितार्थ एवान्वय इति गौरवात्तं परित्यज्य लाघवाज्जहत्स्वार्थवृत्त्याश्रयेणाऽऽह-वृत्तिमात्रेऽतिरिक्तशक्तेरिति। कृदन्ताः, तद्धिताः, समासाः, एकशेषाः, सनाद्यन्तधातुरूपाश्चेति पञ्चधा वृत्तयः। तत्र परार्थाभिधानं वृत्तिः, इति वृत्तिसामान्यलक्षणमिति `समर्थः पदविधिः' इति सूत्रे भाष्ये स्पष्टम्। अस्यार्थः-अभिधानशब्दे करणे ल्युट्। सामान्ये नपुंसकम्। परेण प्रधानशब्देन शब्दान्तरार्थस्याभिधानं विशेषणत्वन ग्रहणं तत्करणम्। यत्रत्यप्रधानपदेनेतरविशेषणकस्वार्थस्यैवोपस्थितिर्यया सा वृत्तिरिति। सा चेतरार्थसंवलितस्वार्थोपस्थितिरवयवशक्तिसहकृतसमुदायशक्तिसाध्या। अवयवशक्तिर्लोकसिद्धा शास्त्रकल्पिता च। अन्त्या तद्धितादिप्रत्यये। समुदायस्य वृत्त्याश्रयत्वेनैषामौपचारिको वृत्तिव्यवहारः प्राचीनानाम्। समुदायशक्तिशअच समर्थः पदविधिरिति परिभाषावल्लभ्या। तदर्थश्च-विधीयत इति विधिः कार्यम्। कर्मणि किप्रत्ययः। पदस्य विधा पदविधिरिति शेषषष्ठ्या समासः। पदसंबन्धी यो विधिः ससमर्थाश्रितो बोध्यः। सामर्थ्यं चात्रैकार्थीभावः। पृथगर्थानामेकार्थीभावः सामर्थ्ये, राज्ञः पुरुष इति वाक्ये पृथगर्थनि, राजपुरुष इति समासे एकार्थानीति भाष्यात्। एवं च प्रक्रियादशायां पृथगुपस्थितिविषयार्थकत्वेन लोके दृष्टानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रतिपादकत्वमेकार्थीभाव इति फलितम्। संगतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तेः। संगतिः संसर्गश्चैकीभाव एव। यथा संगतं घृतं तैलेनेति, एकीभूतमिति गम्यते। यथा वा संससृष्टोऽग्निरिति, एकीभूत इति गम्यत इति भाष्याच्च। सोऽयमेकार्थीभावः समासादिवृत्तावेवेति वृत्तिरिति जहत्स्वार्था वृत्तिरिति च व्यवह्रियते। समासे एकार्थानीति भाष्ये समासग्रहणं वृत्तिमात्रोपलक्षणमिति भावः। तत्र समासतद्धितयोः पदोद्देश्यकविधित्वस्य स्पष्टत्वेन बहूनां वृत्तिधर्माणां वचनैः साधने महागौरवात्तदपेक्षया लाघवादेकार्थीभावस्यावश्यस्वीकर्तव्यत्वेन च परिभाषाप्रवृत्तिः स्पष्टैव। कृतामपि केषांचित् `कर्मण्यण' इत्युपपदनिमित्तकानां पदविधित्वं स्पष्टमेव। तत्साहचर्याच्चान्यत्रापि पाचकादौ पदविधित्वम्। कृत्-कृदन्तः। तद्धितशब्दस्तद्‌घटितसमुदायपरोऽत एव बह्वकचोर्न दोषः। एकशेषेऽपि द्वंद्व इत्यनुवृत्तेर्द्वंद्वविषये एकशेषविधानादेकार्थीभावेऽस्त्येव। सनादिषु क्यजादैः पदविधित्वं स्पष्टमेव। सनि स्वभावत एव वृत्त्यवृत्त्योः सिद्धत्वाद्वावचनं न कार्यमिति तत्प्रत्याख्यानपरभाष्यप्रामाण्यात्सः। इत्येवंरीत्या समर्थः पदविधिरिति सूत्राद् वृत्तिमात्रेऽवयवशक्यातिरिक्तायास्तत्तत्प्रकृत्यर्थविशिष्टे समुदायशक्तेर्लाभान्निरुक्तस्तद्धितार्थविचारः शास्त्रान्तरीयैः मीमांसकादिभिः सह शास्त्रान्तरीयरीत्यैवोक्त इत्यर्थः। वैयाकरणमते समासादिवृत्तौ पदानामानर्थक्यात्तदर्थविचारोऽनुचित इति भावः। अथवा प्रकृतिप्रत्ययेषु तत्तदर्थमारोप्य प्रत्ययार्थविचार उपपादनीय इत्याह-आरोपितेत्यादि। तत्त्वतस्तु विशिष्टशक्त्यैव-तत्तत्प्रकृत्यर्थतत्संबन्धविशिष्टे समुदायशक्त्यैव। अर्थोपस्थितिरिति। विशिष्टार्थोपस्थितिः। जायत इति शेषः। इत्यनुसंधायाऽऽह-वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यत इति। वृत्तावेकार्थीभावसत्त्वात्प्रकृतिप्रत्ययार्थयोः परस्परमन्वय एव नास्तीति एकदेशान्वयो वा भेदेनाभेदेनान्वयो वेत्येतद्विषये प्रयत्नातिशयो न क्रियते इत्यर्थः अधिकं समासशक्तिविचारे प्रागुक्तमनुसंधेयम्।। 54 ।।
इति वैयाकरणभूषणसारव्याख्यायां शांकर्यां देवता दितद्धितार्थनिर्मयः।
रङ्गभट्टतनूजस्य शंकरस्य विनिर्मितौ।
देवतादिप्रत्ययार्थो निर्णीतः सारविवृत्तौ।। 10 ।।