वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)/अभेदैकत्वसङ्ख्यानिर्णयः

विकिस्रोतः तः
← देवताप्रत्ययार्थनिर्णयः वैयाकरणभूषणसारः (शङ्करीव्याख्यासहितः)
अभेदैकत्वसङ्ख्यानिर्णयः
[[लेखकः :|]]
सङ्ख्याविवक्षादिनिर्णयः →


।। अथाभेदैकत्वसंख्यानिर्णयः ।।
समासादिवृत्तावुपसर्जनपदोत्तरं विभक्त्यभावेनैकत्वादिसंख्याविशेषणामेकत्वत्वादितत्तीद्विशेषरूपेणाप्रतीतैः संख्यात्वेन सामान्यरूपेण सर्वसंख्यानां भानमभेदैकत्वसंख्येत्युच्यत इति। अत्रार्थे भर्तृहरिं प्रमाणत्वेनोदाहरति-उक्तं चेति संख्याविशेषाणां-एकत्वत्वादिविशिष्टानामेकत्वादिसंख्यानाम्। अविभागेन-अभेदेन, सत्त्वमवस्थानमित्यर्थः। अयं भावः-वाक्ये उपसर्जनपदानि विभक्त्यन्तान्येवेति विभक्त्यर्थसंख्याविशेषयुक्तं स्वार्थं प्रतिपादयतन्ति। वृत्तौ तु विशेषणीभूतस्वार्थकं प्रधानार्थमभिदधतीति तत्रोपसर्जनपदे विभक्त्यभावेन संख्याविशेषआणामेकत्वत्वादितत्तद्रूपेणाप्रतितेस्तेषामविभागेनावस्थानं गमयन्तीत्यनुसंधाय वृत्तौ विशेषणेऽबेदैकत्वसंख्यानिर्णयार्थमवतरणिकामारचयति-वृत्तिप्रसङ्गादिति। तथा च वृत्तिनिरूपणप्रसङ्गेन स्मृतस्य तद्धर्मस्याभेदैकत्वरूंख्याया निरूपणं नासंगतमिति भावः। तत्रेति वृत्तिघटकोपसर्जनपद इत्यर्थः। सिद्धान्तमिति। अभेदैकत्वसंखअयाप्रतीतिरूपं सिद्धान्तमित्यर्थः। दृष्टान्तेनेति। कपिञ्जलवाक्यार्थदृषअटान्तेनेत्यर्थः। उपपादयति-युक्त्या समर्थयति-अभेदैकत्वसंखअयाया इति। मतभेदेन भिन्नमभेदैकत्वसंखअयाशब्दार्थं निर्वक्ति-संखअयाविशेषाणामित्यादि। ययौषधिरसा इति। मधुनि-पाक्षिके। आहितशक्तय इति। आहिताः-स्थापिताः, शक्तयः-वातपित्तादितत्तदोषोपशमरूपकार्यभेदभिन्ना यैस्य इत्यर्थः। त्यक्तभेदा इति यावत्। अविभागेन-अभिन्नरूपेण। अभेदेनेति यावत्। तां संख्यां-अभेदैकत्वसंख्याम्। तादृशीं-प्राक्षिकनिष्ठाविभक्तसर्वरसावस्थितिसदृशीम्। विदुरित्यन्वययोजना। यथा सर्वे औषधिरसा मधुन्येकस्मिन् सर्वशक्तीरवस्थाप्य सर्वानुवृत्तरसत्वरूपैकधर्माश्रितत्वेनाविभागमैक्यमापन्ना इव वर्तन्ते तद्वत्समासादिवृत्तावुपसर्जनपदे सर्वसंख्याः सर्वानुवृत्तसंख्यात्वरूपैकधर्माश्रितत्वेनाभेदेमैक्यमिवाऽऽपन्नाः प्रतीयन्त इत्यर्थः। मधुनि सर्वरसानां रसत्वेन भानवदुपसर्जनपदे सर्वसंख्यानां संख्यात्वेन भानमिति यावत्। इत्येकमभेदकत्वसंख्याशब्दार्थमुक्त्वाऽपरमाहपरित्यक्तविशेषं वेति। वाशब्दः पक्षान्तरद्योतकः। सर्वरसावस्थितिजन्यस्य तत्तद्रोगादिनिवृत्तिरूपस्य फलस्यानुभवानुरोधेन मधुनि सर्वरससमवस्थितिकल्पनेऽप्यत्र सर्वसंख्याविशेषसत्त्वकल्पने मानाभाव इत्याशयेन वक्ति-परित्यक्तेति। द्विविधा हि संख्या, विशेषरूपा सामान्यरूपा च। तत्रैकत्वद्वित्वादिका विशेषरूपा। तत्तन्मात्रवृत्त्येकत्वद्वित्वत्वादिविशेषधर्मयुक्तत्वात्। संखअयात्वरूपधर्मयुक्ता संश्या सामान्यरूपा। एकत्वादिषु सर्वत्रानुगतसंख्यात्वरूपसामान्यधर्मावच्छिन्नत्वात्। यद्यपि `निर्विशेषं न सामान्यमिति न्यायेन विशेषरहितं सामान्यं(प्लक्षत्वादिविशेषरहितं केवलवृक्षत्वं) नास्तीत्यर्थकेन सामान्यरूपा संख्या पृथग्दर्शयितुमशक्या, तथापि केनचित्कारणेनैकत्वादिविशेषाणां परित्यागेन यदा केवलसंख्यात्वसामान्यधर्मावच्छिन्ना संख्योर्वरिता भवति तदाऽसौ सामान्यरूपा पृथग्ज्ञातुं शक्या। सामान्यरूपैव च संख्या संख्यासामान्यमिति व्यवह्रियते। यथा संबन्धसामायन्ये षष्ठीत्यादौ कर्तृत्वकर्मत्वादिसंबन्धविशेषाणामविवक्षया परित्यागेनौर्वरितो यः संबन्धत्वसामान्यधर्मावच्चिन्नः संबन्धः सोऽसौ संबन्धसामान्यमित्युच्यते तद्वदिति भावः। एवं च परित्यक्ताः-केनापि कारणेनाज्ञाताः, विशेषा एकत्वत्वादिविशेषधर्मा यस्यैतादृशं यत्संख्यासामान्यं=सामान्यरूपा संख्या सैव च तत्-अभेदैकत्वसंखअयाशब्दवाच्यमित्यर्थः। अस्मिन्नप्यर्थे वाक्यपदीयं प्रमाणयति-भेदानां वेति। भेदानामिति। एकत्वत्वद्वित्वत्वादिविशेषधर्माणामित्यर्थः। परित्यागादिति। अग्रहणादित्यर्थः। अभानादिति यावत्। सः-एकत्वादिः। संख्यात्मा-संख्यात्वरूपसामान्यधर्मावच्छिन्नत्वासंख्यासामान्यस्वरूपः। तथाविधः अभेद्रैकत्वसंख्यापदव्यवहार्यः। भवतीति शेषः। अभेदैकत्वसंखअयापदव्यवहार्यत्वे संख्यात्मेति हेतुरुक्तः। यतः परित्यक्तैकत्वत्वादिविशेषधर्मकः स एकत्वादिः संख्यात्वसामान्यधर्मावच्छिन्नत्वात्संख्यासामान्यमित्येव प्रतीयतेऽतस्तादृशपदेन व्यवह्रियते इति भावः। ननु निर्विशेषसामान्याभावात्कथमिदमित्यत आह व्यापाराज्जातिभागस्येति। वृत्तावुपसर्जनपदे संख्यात्वरूपजातेरेव व्यापारात्संखअयात्वेनैवं रूपेण संख्याभानरूपव्यापारादित्यर्थः। भेदापोहेनेति। भेदस्यैक त्वत्वादिविशेषणधर्मस्यापोहो व्यावृत्तिस्तेन वर्तते नाम विशेषरहितसामान्यरूपेण वर्तत इत्यर्थः। अयं भावः-वृत्तावुपसर्जनपदार्थानामपि सत्त्वभूतत्वात्संख्यायोगावश्यकत्वेन। विशेषसंख्याभावेन च सामान्यसंख्यारूपस्य समस्तसंख्याविशेषानुगतभेदापोहरूपस्याभेदैकत्वस्य भानाद् राजपुरुष इत्यादौ मतद्वयेऽपि संख्यावान् राजपदार्थ इत्येतावत्प्रतीयते, न त्वव्ययार्थवदसंख्यो नापि घटादिवद्धिशेषसंख्यावच्छिन्न इति। संख्यात्वेनैव एकत्वादिसंखअयाप्रतितेर्विशेषाणां तत्तद्रुपेणप्रतीतेश्च भेदापोहोऽत्र बोध्य इति भावः। पूर्वं सर्वौषधिरसविशेषाणामेकत्र मधुनि संसर्गमिवोपसर्जनपदे सर्वसंख्याविशेषाणां संसर्गेणावस्थानरूपमभेदकैत्वमुक्तम्। अस्मिन् पक्षे संख्यात्वेन संख्याविशेषाणां भानं, मधुनि रसत्वेन रसविशेषाणां भानमिव। इदानीं तु सर्वसंख्याविशेषानुगतं भेदापोहरूपभेदैकत्वमुक्तमिति पूर्वस्माद्विशेषः। अस्मिन् पक्षे सर्वसंख्यात्वेन रूपेण संख्यासामान्यस्यैव भानं नतु विशेषस्येति बोध्यम्। संख्यासामान्यस्यैव भानं न विशेषस्येत्येतदेव समर्थयति-अगृहीतविशेषेणेत्यादिना। अगृहीतो विशेषः शुक्लत्वादिरूपो यस्य यन्निष्ठस्तादृशेन रूपेण। शुक्लत्वादिविशेषाज्ञानसमानाकालिकरूपत्वावच्छिन्नप्रतीतिगोचरेण सामान्यरूपेणेत्यर्थः। पटादी रूपवानित्युच्यते। शुक्लादिरिति। शुक्लत्वादिर्भेदरूपो योऽपोहोऽतदव्यावृत्तधर्मस्वरूपः स तु न गम्यते न प्रतीयत इत्यर्थः। यथा दूराद्रूपत्वेन रूपं प्रतीयते, न शुक्लकृष्णादिर्विशेषस्तथा राजपुरुष इत्यादिवृक्तावुपसर्जनपदे संख्यात्वेन सामान्यसंख्यैव प्रतीयते, न त्वेकत्वद्वित्वादिर्विशय इति भावः। एवमभेदैकत्वसंख्याशब्दार्थ निर्वर्ण्य तद्‌घटितकारिकार्थं प्रतिपादयति-अस्या इति। अभेदैकत्वसंख्याया इत्यर्थः। विगलितभेदायाः संख्याया अभेदैकत्वसंख्याशब्देन व्यवहार इति भावः। वृत्तौ-समासादिवृत्तौ भानं प्रतीतिर्युक्तिसिद्धेत्यर्थः। मतस्थितिरिति। दर्शनान्तर एतादृशसंख्याया अनङ्गीकाराद्‌वैयाकरणानामिति पूरितम्। अभेदैकत्वसंख्याया वृत्तौ भाने प्रमाणं युक्तिमाह-अयं भाव इत्यादिना। राजपुरुष इत्युक्ते राज्ञा राज्ञो राज्ञां वेति विशेषजिज्ञासाया अनुभवसिद्धत्वाद्विशेषजिज्ञासायाश्च सामान्यज्ञानपूर्वकत्वनियमाच्छब्दात्संख्यासामान्यप्रतीतेरावश्यकत्वमित्यर्थः। सामान्यज्ञानपूर्विकेति। सामान्यज्ञानकारणिकेत्यर्थः। तत्प्रतीतिरिति। सामान्यरूपेण-संख्यात्वरूपेण, तत्प्रतीतिः--संख्याप्रतीतिरित्यर्थः। आवश्यकीति। कारणीभूतसामान्यज्ञानमन्तरा विशेषीजज्ञासोदयासंभवादिति भावः। एवं च पीनत्वान्यथानुपपत्त्या राज्ञिभोजनमिव विशेषजिज्ञासान्यथानुपपत्त्या वृत्तावुपसर्जनपदात्संख्यात्वेन संख्याप्रतीतिः कल्प्यत इति तात्पर्यम्। बुध्यते च क्वचित्संखअयाविशेषोऽपि यथा द्विपुत्रस्त्रिपुत्र इत्यादौ। विशेषसंख्याबोधकाभावे चाभेदैकत्वं प्रतीयते। अयं भावः-संख्यात्वेन प्रतीयमाना संख्यैव संख्यासामान्यम्। एतदेव चाभेदैकत्वसंख्या। एकत्वादिषु सर्वत्र संख्यात्वेनैकरूपेणानुस्यूतत्वादेकस्वभावत्वेनाभेदमिवाऽऽपन्नं संख्यासामान्यमभेदकत्वसंख्याशब्देन व्यवह्रियत इति। अभेदैकत्वसंख्याशब्दव्युत्पत्त्याऽपि संख्यासामान्यमेवाभेदैकत्वमिति प्रतिपादयति-भेदः-द्वित्वत्रित्वादिसंख्याविशेषः, अभेदस्तदभावः, तद्विशिष्टमेकत्वमभेदैकत्वमिति व्युत्पत्तेः। यद्‌द्वित्वादिसंख्याविशेषाभानसमानकालिकैकत्वभावं तदेवाभेदैकत्वमित्यर्थादुपसर्जनपदार्थे संख्यात्वेन निरुक्तैकत्वमेव बुध्यते। विगलितभेदायाः सामान्यसंख्याया वृत्तावेकत्वेन प्रतीतौ दृष्टान्तमाह-कपिञ्जलेति। अश्वमेधे `वसन्ताय कपिञ्जलानालभते' इति वाक्येन वसन्तदेवतामुद्दिश्य बहुत्ववाच्छिन्नकपिञ्जलालम्भनं विधीयते। बहुत्वं च त्रित्वचतुष्ट्वादिपरार्धपर्यन्तसंख्याव्यापको धर्मविशेषो, न तु त्रित्वचतुष्ट्‌वाद्यन्यतमत्वम्। ततश्च तावतां प्राप्तौ समुच्चयेनानुष्ठानासंभवात्तद्व्याप्यसंख्यास्ववतरदालम्भनं त्रित्वचतुष्ट्वादिषु विश्राम्यतीति स्वेच्छया त्रयश्चत्वारः पञ्च वेत्यनियता आलब्धव्या इति संशय्य, यो हि चतुष्ट्‌वादिसंख्यामुपादत्ते, न तेन तदन्तर्भूतं त्रित्वं वर्जयितुं शक्यम्। त्रित्वमुपाददानेन त्वन्तर्भूतं चतुष्ट्‌वादिकं वर्जयितुं शक्यम्। अतोऽवश्यंभावित्वाद् बहुत्वगणनायां प्रथमोपस्थितत्वाल्लाघवाच्च त्रय एवाऽऽलब्धव्या इति निर्णीय बहुत्वेन त्रित्वमेव बहुवचनार्थ इति सिद्धान्तितं मीमांसायामेकादशाध्याये प्रथमपादेऽष्टमाधिकरणे। तद्रूपेणव भानवदिति। बहुत्वगणनायां त्रित्वस्य प्रथमोपस्थितत्वेन बहुवचनेन त्रित्वमेव यथा भासते तथा प्रकृतेऽपि विशेषसंख्याबोधकाभावस्थले एकत्वस्य सर्वतः प्रथमोपस्थितत्वात्तत्त्यागे मानाभावाच्च संख्यात्वेनैकत्वमेव प्रतीयते। विगलितविशेषधर्मकस्यैकत्वस्यैवाभेदैकत्वपदार्थत्वादित्यर्थः। एवं निरुक्तरीत्या वृत्तावुपसर्जनपदे संख्यात्वेन सर्वसंख्यानां भानमिति मतं प्रमाणाभावात्पूर्वमेव दूषितम्। इदानीं विशेषजिज्ञासान्यथानुपपत्त्या वृत्तावुपसर्जनपदात्संख्यात्वेन संख्यासामान्यप्रतीतिरावश्यिकेति मतं दूषयति। वृत्तौ संख्यासामान्यरूपाभेदैकत्वसंख्याप्रतीतौ साधकत्वेन या विशेषजिज्ञासोक्ता सैवाऽऽदौ नानुभवपथमारोहति। येन तदनुरोधेन वृत्तौ निरुक्ताभेदैकत्वसंख्याभानं परिकल्प्येत। लिङ्गसंख्यान्वितं द्रव्यमित्युक्तेर्द्रव्यस्याव्यभिचारेण संखअयासहचरितत्वाद् यत्र यत्र द्रव्यत्वं तत्र तत्र संख्यावत्त्मित्यानुमानिकसंख्यासामान्यज्ञानान्निरुक्तजिज्ञासायाः संभवात् तत्र च विशेषजिज्ञासायाः स्वरसतः सिद्धत्वाभावेन स्ववासनाकल्पितत्वाद्विशेषजिज्ञासायां वृत्तिजन्यसामान्यज्ञानपूर्वकत्वनियमाभावाच्च न तादृशजिज्ञासाऽभेदकत्वसंख्याया वृत्तिवाच्यत्वं कल्पयितुं प्रभवति। विशेषजिज्ञासाया अनुभवसिद्धत्वाग्रहे तु वृद्धिमिच्छतो मूलमपि नष्टमिति न्यायापातः स्यादित्याह-तथात्वे वेति। राजपुरुष इत्यादिवृत्तौ संख्याविशेषजिज्ञासाया अनुभवसिद्धत्वाभ्युपगमे वेत्यर्थः। ज्ञानेच्छयोः समानप्रकारकत्वेनेति। अयं भावः-पूर्वं जानाति, तत इच्छतीत्यनुभवादिच्छां प्रति ज्ञानं कारणं, तज्ज्ञानं विना तदिच्छाया असंभवात्। तत्रापि जायमानं ज्ञानं यद्धर्मप्रकारकं यद्विशेष्यकं च भवति तद्धर्मप्रकारिकां तद्विशेष्यिकामेवेच्छां जनयति। एवं यद्धर्मप्रकारिका यद्विशेष्यिका चेच्छा भवति तद्धर्मप्रकारकं तद्विशेष्यकमेव ज्ञानं तादृशेच्छाकारणं भवति। यथा सुखत्वप्रकारिकायाः सुखविशेष्यिकाया इच्छायाः सुखत्वप्रकारकं सुखविशेष्यकं ज्ञानं कारणमित्येवं ज्ञानेच्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावस्य(कार्यकारणभावस्य)दृष्टत्वेन प्रकृतस्थले एकत्वत्वादिविशेषधर्मप्रकारकजिज्ञासायाः(ज्ञानेच्छायाः)कारणीभूतज्ञानेऽपि एकत्वत्वादिविशेषधर्मप्रकारकत्वस्यावश्याङ्गीकर्तव्यतया वृत्तावुपसर्जनपदादेव एकत्वत्वादिविशेषधर्मावगतौ सत्यां तादृशजिज्ञासोदयात्यन्तासंभवाद्विशेषजिज्ञासामूलभूतस्य सामान्यज्ञानस्य नष्टत्वात्तदवलम्बिनी विशेषजिज्ञासाऽपि विनष्टेति वृद्धिमिच्छतो मूलमपि ते नष्टमिति न्यायानुकारि वृत्तावुपसर्जनपदात्संख्यात्वेन संख्याप्रतीतिकल्पनमित्यर्थः। तत्तद्रूपेणैवेति ज्ञानेच्छयोः समानप्रकारकत्वेन कार्यकारणभावनियमानुभवाद वृत्तावेकत्वत्वादितत्तद्विशेषरूपेणैव संख्याया वाच्यत्वस्य वक्तव्यत्वाद् वृत्तावुपसर्जनपदात्संख्यात्वेन सामान्यसंख्याप्रतीतिः(संख्यात्वप्रकारकसंखअयाविशेष्यकप्रतीतिः)सुतरां दुर्वचेति भावः। एतत्सर्वमनुसंधायैवोक्तं लघुमञ्जूषायां भट्टनागेशैः-एकार्थीभावबलादेव वृत्तावुपसर्जनपदार्थे संख्याबोधकप्रातिपदिकाभावे एकत्वादिरूपसंख्याविशेषानवगतिः। द्विपुत्र इत्यादौ दोषनिरासाय संख्याबोधकेत्यादिनिवेशः। संख्याविशेषप्रतीतौ पृथगुपस्तापकपदज्ञानस्य कारणत्वात्समासादिवृत्तौ च वाक्यवत्प्रातिपदिकापेक्षया पृथक्‌संख्योपस्थापकविभक्तिश्रवणरूपतत्कारणाभावान्न संख्याविशेषावगतिरित्यर्थः। तदुक्तं-वाचिका द्योतिका वाऽपि संख्यानां या विभक्त्यः। तल्लुक्यवयवे वृत्तौ संख्याभेदो निवर्तत इति। संख्याविशेषानवगतिरेवाभेदैकत्वसंख्या। अभेदैकत्वसंख्येत्यस्य भेदसहचरितैकत्वादिसंखअयाविशेषस्याभानमित्यर्थः। न त्वभेदैकत्वसंख्याशब्दवाच्यमन्यत्किंचित्संख्यासामान्यमस्ति। एतेन वृत्तावुपसर्जनपदात्संख्यासामान्यप्रतीतिरपि नास्तीति स्पष्टमेव बुध्यते। ननु कथं तर्हि वृत्तावेकानेकव्यक्तिभानमिति चेत्-यथा घटा इत्यादितो बहुत्वेनैव कदाचित्त्रयाणां चतुर्णां वा भानं तात्पर्यवशात्, ननु कदाचिदपि त्रित्वचतूष्ट्‌वादिना। तथा वृत्तौ राजपुरुष इत्यादौ राजत्वादिनैवेकानेकव्यक्तिभानं तात्पर्यवशान्नतु कदाचिदप्येकत्वादिनेति ज्ञेयम्। अत एव भाष्ये संख्याविशेषानवगतिरेवोक्ता, न त्वेकानेकार्थानवगतिः। अत एव च प्रकगृह्यसंज्ञासूत्रे भाष्ये कुमार्यगारमित्यादौ विग्रहे द्विवचनान्तत्वेऽपि एकार्थीबावबलाद् वृत्तौ द्वित्वाबोधः किंतु कुमारीत्वेन कुमारीद्वयबोध इत्युक्तं संगच्छत इति तात्पर्यम्।। 55 ।।
इति वैयाकरणभूषणसारव्याख्यां शांकर्यामभेदैकत्वसंख्यानिर्णयः।
रङ्गभट्टतनूजेन शंकरेण विनिर्मिते।
अभेदैकत्वसंख्याया ग्रन्थेऽस्मिन्निर्णयः कृतः ।। 11 ।।