१५२ अमरकोषः । [ द्वितीयं काण्डम् ॥ ॥ जीमूत इव 'जीमूतोऽद्रौ भृतिकरे देवताडे पयोधरे' 'सुवहा सलक्येलपर्णीगोधापदीषु वीणायाम् । रास्नाशेफा- इति मेदिनी ॥ (५) ॥ ॥ पञ्च 'देवतालस्य' || श्रीहस्तिनी तु भूरुण्डी लिकयोः स्त्री, सुखवाह्येऽन्यलिङ्गः स्यात्' ( इति मेदिनी ) ॥ (२) ॥ ॥ नीलवर्णा | 'नीलादौषधौ' 'प्राणिनि च' (वा० ४१४२) इति ङीष् | स्वार्थे कन् (५|३|७५) । 'नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च ' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि कृष्णपुष्पाया निर्गुण्ड्या:' 'न्यवारी' इति ख्यातायाः ॥ सितासौ श्वेतसुरसा भूतवेशी सितेति ॥ शोभनो रसोऽस्याः । श्वेता चासौ सुरसा च ॥ (१) ॥ ॥ भूतानि विशति । 'विश प्रवेशने' ( तु०प० अ०) । 'कर्मण्यण' ॥ ( २ ) ॥ ॥ द्वे ‘श्वेतनिर्गुण्ड्याः’ ॥ अथ मागधी । श्रीति ॥ श्रिया हस्तः । श्रीहस्तो विद्यतेऽस्याः । 'अतः' (५।२।११५) इतीनिः । हस्तं गृह्णाति, हस्तयति, अवश्यं श्रियं हस्तयति । ‘आवश्यका-' (३|३|१७०) इति णिनिः, इति वा ॥ (१) ॥ * ॥ भुवं रुण्डयति आच्छादयति । 'रुटि लुटि स्तेयकरणे' (भ्वा०प० से ० ) इत्यत्र माधवीयायां वृत्तौ 'रुडि, लुडि, इत्यपरे' इति पाठान्तरमुपन्यस्तम्। 'कर्मण्यण्' (३।२।१ ) ॥ (२) ॥ ॥ हस्तिकर्णपत्रा शाकविशेष इति स्वामी । द्वे (माषादिक्षेत्रभवाया बकुलपुष्पाभलोहितपुष्पायाः 'हस्तिकर्णा- भपत्रस्य' 'शिरीहथिनी' इति ख्यातायाः) || तृणशून्यं तु मल्लिका ॥ ६९ ॥ भूपदी शीतभीरुच - । तृणेति । 'इतो धत्तूरान्तानि पुष्पाणि' इति स्वामी | तृण- शून्ये स्थाने साधु । 'तत्र साधुः' (४१४१९८) इति यत् । हलो यमाम् (८|४|६४) यलोपः | 'तृणशून्यं मल्लिकायां' तथा स्यात् केतकीफले' इति विश्वमेदिन्यौ ॥ ॥ – 'तृणशूले गुल्मे साधु तृणशूल्यम्' - इति तु स्वामी ॥ (१) ॥ * ॥ महते गन्धम् । मल्यते वा । ‘मल्ल धारणे' (भ्वा० आ० से ० ) । 'सर्वधातुभ्य इन्' ( उ० ४|११८) । वा ङीष् (ग० ४।१९४५) | स्वार्थे कन् (५१३१७५) । 'मल्लिको हंसभिद्यपि । मल्लिका तृणशून्ये ऽपि मीनमृत्पात्रभेदयोः' इति मेदिनी ॥ ( २ ) ॥ * ॥ भुवि पदमस्याः | गौरादिः (४११४१) ॥ (३) ॥ ॥ शीताद्भीरुः ॥ * ॥ ‘शतभीरुः' इति वा पाठः । शतं वियोगिनो भीरवो- Sस्याः । 'मल्लिका शतभीरुश्व गवाक्षी भद्रमल्लिका | शीत भीरुर्मदायन्ती भूपदी तृणशून्यकम्' इति वाचस्पतिः ॥ (४) ॥ * ॥ चखारि 'मल्लिकायाः' 'वेल्लि' इति ख्यातायाः ॥ सैवास्फोता वनोद्भवा । सैवेति ॥ आस्फोटयति । 'स्फुटिर् विकसने' (भ्वा०प० से॰)। पचाद्यच् । पृषोद।दित्वात् (६।३।१०९) टस्य तो वा । 'आस्फोता विष्णुकान्तायां वनमल्लयर्कपर्णयोः' इति रभसः । 'आस्फोतस्तु पुमानर्कपर्णे स्यात्कोविदारके । आस्फोता गिरिकर्ण्या च वनमलयां च योषिति' इति मेदिनी ॥ ( १ ) ॥ * ॥ एकं 'वनमल्ल्याः ॥ शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ७० शेफेति ॥ शेरते शेफा अलयोऽस्याम् । वा ङीष् ( ) । स्वार्थे रकैन् (५॥३॥७५) ॥ ( १ ) ॥ * ॥ सुष्टु वहत्यामोदम् । 'वह प्रापणे' (भ्वा० उ० अ० ) | पन्चाद्यच् (३ | १(१३४) । १- (कनभावे) शेफालीत्यपि 'कथमितरथा शेफालीषु स्खलत्कुसु- मास्वपि इति प्रयोगदर्शनात् इति मुकुदः ॥ गणिका यूथिकाम्बष्ठा अथेति ॥ मगधे देशे भवा । 'तत्र भवः' (४ | ३ |५३ ) इत्यण् । 'मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः । वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली ॥ यूथी भाषाविशेषश्च' इति हैमः ॥ (१) ॥*॥ चित्ताकर्षकत्वाद्गणिकेव । 'गणिका यूथीवेश्ये- भीतर्कारीषु ना तु दैवज्ञे' इति मेदिनी ॥ (२) ॥॥ यूथम- स्त्यस्याः । ‘अत इनिठनौ’ (५/२/११५) 'यूथिकात्रातके पुष्पविशेषेऽपि च योषिति' इति मेदिनी ॥ (३) ॥ * ॥ अम्बेव मातेव तिष्ठति । 'सुपि स्थः' (३१२१४) इति कः । 'अम्बाम्ब- ' (८१३१९७) इति षत्वम् | 'डयापोः' (६|३|६३) इति ह्रखः । - अम्बे तिष्ठति - इति स्वामी । 'अम्बष्ठो देशभेदेऽपि विप्रा - द्वैश्यासुतेऽपि च' । 'अम्बष्टाप्यम्ललोण्यां स्यात्पाठायूथिकयो- रपि' इति विश्व मेदिन्यौ ॥ ( ४ ) ॥ ॥ चत्वारि 'यूथिका- याः' 'जूही' इति ख्यातायाः ॥ सा पीता हेमपुष्पिका ॥ ७१ ॥ सेति ॥ हेमवर्णं पुष्पमस्याः । 'पाककर्ण-' (४।१।५४) इति ङीष् । 'स्यामपुष्पिका यूथ्यां चम्पको हेमपुष्पकः' (इति मेदिनी) ॥ (१) ॥*॥ एकं 'तस्या एव पीतपुष्पायाः' ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता। अतीति ॥ अतिक्रान्तो मुक्तां शौक्लेयात् । 'अत्यादयः' (वा० २१ २११८ ) | इति तत्पुरुषः । 'गोस्त्रियोः- ' (१।२।४८) इति हखः । यद्वा मुक्तान् विरक्तान् । 'अतिमुक्तस्तु निः- सङ्गे वासन्त्यां तिनिशेsपि च ' ( इति मेदिनी ) ॥ (१) ॥*॥ पुण्डति पुण्ड्यते वा 'मुडि खण्डने' 'पुडि च' (भ्वा०प० से॰) । ‘स्फायि-’ (उ० २।१३) इति रक् | स्वार्थेकन् (५॥ ३।७५) ॥ (२) ॥५॥ वसन्ते पुष्यति । 'कालात्साधुपुष्य- तू-' (४|३|४३) इत्यण् । 'वासन्ती माधवीयूथ्योरुनाव- हिते त्रिषु' (इति मेदिनी) ॥ (३) ॥ ॥ मधौ पुष्यति । 'मा- १ -'अतिरक्तत्वात्' इति भट्टक्षीरस्वामी ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५९
दिखावट