वनौषधिवर्गः ४ ] निचुलो हिजलोऽम्बुजः । नीति ॥ निचोलति । 'चुल समुच्छ्राये' ( चु०प० से०) चुरादीनां णिज्वा । 'इगुपध-' ( ३।१।१३५ ) इति कः । यत्तु –'निचोल्यते' इति विगृह्य 'घनर्थे कः' ( वा० ३|३| ५८) इत्युक्तं मुकुटेन । तन्न । परिगणनविरोधात् । 'अन्तर- झत्वेन (णिजाश्रय) गुणप्रसङ्गाच्च । 'निचुलस्तु निचोले स्या- दिज्जला ख्यमहीरुहे' इति मेदिनी ॥ (१) ॥ * ॥ हिनोति । 'हि गतौ वृद्धौ च ' ( स्वा० प० अ०) विप् (३/२/१७८) हित जलमस्य ॥*॥ ‘इज्जलः’ इत्यपि पाठः । एति । 'इण् गतौ' (अ० प० अ०) । किप् (३।२।१७८) तुक् (६।१।७१) इत् जलमस्य । ‘निचुलेज्जलहिज्जलाः' इति रभसः ॥ ( २ ) ॥ * ॥ अम्बुनि जातः । ‘जनी प्रादुर्भावे' (दि० आ० से) 'सप्तम्यां जनेर्डः’ (३।२।९७) ॥ (३) | || त्रीणि 'स्थलवेतसस्य' 'वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे' इति शब्दार्णवात् । 'समुद्रफलस्य' इत्यन्ये ॥ व्याख्यासुधाख्यव्याख्यासमेतः । १४९ स्थ्यम् । 'णिवि सेचने' (भ्वा० प० से ० ) पचाद्यच् (३॥१॥ १३४) वबयोरेकत्वम् ॥ (६) ॥ ॥ षट् 'नीम्ब' इति ख्या- तस्य ॥ अथ पिच्छिलाऽगुरुशिंशपा ॥ ६२ ॥ अथेति ॥ पिच्छास्त्यस्याः | पिच्छादित्वात् (५/२/१००) इलच् । 'पिच्छिलं विजिलेऽन्यवत् । स्त्री पोतिकाशिंशपयोः शाल्मलीसिन्धुभेदयोः ॥ (१) ॥ * ॥ न गुरुरस्मात् । 'अगुरु क्लीबे शिशपायां जोङ्गके, लघुनि त्रिषु' इति रुद्रः ॥ ( २ ) ॥ * ॥ शीघ्रं शीर्ष वा पाति । 'आत : ' ( ३|२|३) इति कः । पृषोदरादिः (६।३।१०९ ) | यद्वा 'शिम्' इत्यत्र्यक्तं शब्दं श- देन वा शपति । 'शप आक्रोशे' (भ्वा० उ० अ० ) पचा- द्यच् (३|१|१३४ ) | शिम्बाभिः शपति, इति वा । 'देविका- शिशपा-' (७।३।१ ) इति निर्देशाद्वाशब्दलोपः । द्वितालव्या शिशपा । 'श्वश्रूस्तथा श्वसुरशाश्वतशिंशपाश्च' इति शभेदात् ॥ * ॥ अगुरुसारा शिशपा 'अगरुशिंशपा' इत्येकं नाम इति स्वामी । तन्न । उक्तरुद्रविरोधात् ॥ (३) ॥ * ॥ त्रीणि 'सि- सँव' इति ख्यातस्य ॥ कपिला भस्मगर्भा सा केति ॥ सा कपिलवर्णपुष्पा सती भस्मगर्भोच्यते । भस गर्भे यस्याः शुक्लसारत्वात् ॥ (१) ॥ * ॥ एक॑म् 'कपिलव- र्णायाः ॥ शिरीषस्तु कपीतनः । भण्डिलोऽपि शीति ॥ शृणाति शीर्यते वा । 'शू हिंसायाम्' ( क्या ० प० से० ) । 'भ्यां कित्' (उ० ४१२७) इतीषन् ॥ (१) ॥ * ॥ तनोति । 'तनु विस्तारे' ( त० उ० से ० ) । अच् ( ३| १॥१३४ ) । यास्तनः ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः ॥ (२) ॥ ॥ भण्डति । 'भडि कल्याणे' (चु०प० से ० ) | 'सलिकल्यनि- ' ( उ० १९५४) इतीलच् | बाहुलकात् इति मुकुटस्तु चिन्त्यः ॥ * ॥ रलयोरेकत्वात् भण्डिरोऽपि । 'भ- ण्डिरो भण्डिलो ना' इति वाचस्पतिः ॥ ( ३ ) ॥*॥ त्रीणि काकोदुम्बरिका फल्गुर्मलपूर्जघनेफला ॥ ६१ ॥ केति ॥ काकप्रिया उदुम्बरी । 'संज्ञायां कन्' (५१३) ७५) ॥ (१) ॥*॥ फलति । 'फलनिष्पत्ती' (भ्वा०प० से० ) । 'फलिपाटि-' ( उ० १९१८) इति साधुः । 'फल्म्व- सारेऽभिधेयवत् । नदीभेदे मलप्वां स्त्री' इति मेदिनी ॥ (२) ॥ * ॥ 'मलं पापे च किट्टे च वर्चस्के कृपणे मलः' इति धरणिः । मलातू पापात् पुनाति । 'पूज् पवने' (ॠथा० प० से०) । क्किप् (३।२।१७८) मलं यवते । 'यु जुगुप्सायाम्' ( चु० आ० से ० ) । किप् (३|२|१७८) बाहुलकाद्दीर्घः । यद्वा मलते । 'मल धारणे' (भ्वा० आ० से०) बाहुलकादयूः । 'मलयूः' इति वा पाठः ॥ (३) ॥॥ जघने फलं यस्याः । 'अमूर्धम- ' (६।३।१२) इति सप्तम्या अलुक् ॥ ( ४ ) ॥ ॥ चत्वारि 'मलय्वाः' 'कदुम्बरी' इति ख्यातस्य || अरिष्टः सर्वतोभद्र हिङ्गुनिर्यासमालकाः । पिमर्दनम् अरीति ॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुने निम्बे 'शिरीषस्य' 'सिरीस' इति ख्यातस्य ॥ फेनिले काककङ्कयोः । अरिष्टमशुभे तक्रे सूतिकागार आसवे । शुभे मरणचिह्ने च' इति मेदिनी ॥ ( १ ) ॥ * ॥ सर्वतो भद्रं यस्मात् । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे । निम्बे ना सर्वतोभद्रा गम्भारीनटयोषितोः' इति मेदिनी ॥ (२) ॥ ॥ हिङ्ग्वाकारो हिङ्गुगन्धो वा निर्यासोऽस्य । 'हि- निर्यास इत्येष निम्बे हिङ्गुरसेऽपि च' इति मेदिनी ॥ (३) ॥*॥ मलते । 'मल धारणे' (भ्वा० आ० से ० ) ण्वुल् ( ३ | १।१३३) । परस्मैपदं वुन्प्रत्ययविधानं च चिन्त्यम् ॥ ( ४ ) ॥*॥ पिचुं कुष्ठभेदं मर्दयति । 'मृद क्षोदे' (क्या० प० से ० ) । ‘णिच् (३।१।२६) ‘कर्मण्यण्' (३|२|१) ॥ ॥ पिचुं मन्दयति, इति ‘पिचुमन्दः” इति स्वामी ॥ (५) ॥ ॥ निव्वँति खा- | ‘पञ्च नामानि' इति युक्तम् ॥ . J अथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ अथेति ॥ चम्पाया अपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)। 'चाम्पेयश्चम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ (१) ॥ * ॥ चम्पयति, चम्प्यते वा । ‘चपि गल्याम्' (चु० प० से०), कुन् (उ० २१३२ ) ॥ (२) ॥ ॥ हेमवर्णं पुष्पम १ - वस्तुतस्तु कपिलादिकमपि शिशपासामान्यपर्यायमेव । अत एव 'कपिला रेणुकायां च शिशपागोविशेषयोः' इति मेदिनी | 'कपिलो वह्निपिङ्गयोः । कुकुरे मुनिभेदे च कपिला शिशपातरौ । पुण्डरीककरिण्यां च रेणुकागोविशेषयोः' इति हैमश्च संगच्छते तस्मात्
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५६
दिखावट