४. वनौषधिवर्गः] दाक्षिणात्यव्याख्योपेतः २३३ गोनुगुचेट्टु' ॥ अक्ष्णोति मूलैर्भुवं व्याप्नोतीति अक्षोटः । 'अक्षू व्याप्तौ' । कन्दर- स्थानम् अलति भूषयतीति कन्दरालः । कर्पराल इति पाठे कल्पते रोगं हन्तुमिति कर्परालः॰ । ‘ कृपू सामर्थ्ये' । पर्वतपीलुनामनी । ‘कोण्डगोङ्गुचेट्टु’ ॥ अङ्ग्यते कण्ट- कैरित्यङ्कोलः । 'अकि लक्षणे' । अङ्कोट इति वा पाठः । निकुच्यते कण्टकत्वेनास्मान्नि- कोचकः । ‘कुञ्च कौटिल्याल्पीभावयोः' । अङ्कोलनामनी । 'ऊडुगचेट्टु' ॥ २८ ॥ 1 पीड्यत इति वा, 'पीड अवगाहने', डलयोरमेद: Ks, Kg. 2 मालादिकम् J2, Kg• 3 Kg adds ‘सिन्न'. 4 भुवनं K5. 6 कर्पूररोगं कन्दरान् सानूनि Pt2. हन्तीति K2. 5 7 निकुञ्चति Ks, Kg. । (पा.) पीलौ - स्रंसी । पीलुवृक्षनामनी । ‘गोनुगुचेट्टु’ ॥ तस्मिंस्तु–आक्षोट- कन्दरालौ द्वौ । अक्षोट इति वा । पर्वतोत्पन्नपीलुनामनी । 'कोण्डगोनुगुचेटु'। ‘अब्दोढ' इति वणिक्प्रसिद्धः || अङ्कोले – निकोचकः । अङ्कोलनामनी । ‘उडुग’। अङ्कोडे त्रिति पाठे – ‘अथाङ्कोले निचोलोऽङ्कोडशोधनौ' इति वैजयन्ती (प्र. ४८, श्रो. ४१) ।। २८ ।। १ 1 अङ्कोढ इति मुद्रितग्रन्थे. पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे ॥ २९ ॥ रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः । द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ 6 (वि.) पलाश इति – पुण्यानि पलाशानि पर्णानि यस्य सः पलाशः। स्वपुष्पैः पलं मांसमनातीव तिष्ठतीति वा । 'अश भोजने' । किंचिच्छुकवत् शुक्रतुण्डसदृश- पुष्पत्वात् किंशुकः । पुण्यानि पर्णानि यस्य पर्णः । वातरोगं पोथयतीति' वातपोथः । 'पुथ हिंसायाम्' | पलाशनामानि । 'मोदुगचेट्टु' ॥ ति’ वृद्धिं गच्छतीति वेतसः । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखाइनेषु' । वितस्यते कालेनोपक्षीयत इति वा । 'तसु उपक्षये ' । 'रमन्तेऽम्मिन् पक्षिण इति रथः । 'रमु क्रीडायाम्' । अभ्रवर्णानि पुष्पाण्यस्य अभ्रपुष्पः। 'अभ्रसमये पुष्पमस्येति वा । विदोल्यते वायुवेगेनेति विदुः । 'दुल उत्क्षेपे'। विडुल इति वा ! 'डुल उत्क्षेपणे' । शीतवीर्यत्वात् शीतः । दाहशमनत्वाद् श्वन्यत इति वानीरः। वञ्जुलश्च । ‘वन पण संभक्तौ'। वेतसनामानि । ‘ 10पुच्चचेट्टु’॥ परिविध्यतेऽम्भसेति 11 परिव्याधः । विदोल्यतेऽम्भसीति विदुलः । नद्यां भवा नादेयी । जलजातवेतसनामानि । ‘निरुपुव्वचेट्टु’ ।। २९-३२ ।।
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/३०५
दिखावट