सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः (पा.) द्रवकेलि – नर्म च । कान्तैः कान्ताभिः सह कृतपरिहासभर्त्सनताड- नादिनामानि । व्याजो– लक्षं च । 'लक्षं संख्या व्याजलक्ष्ये' इति रुद्राभिधानात् लक्षं मूर्धन्यान्तम् | विषमनामानि । अत्र कपटपर्यायमपि प्रपञ्चयन्ति । ९४२ ‘सरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या । 'रत्यापि दन्तच्छद्रुक्छलेन स एकहेलं सुभगोऽवगूढः ॥ 59 - इति धर्मशर्माभ्युदयः। क्रीडा – कूर्दनम् । कूर्दनमिति च क्वचित् पाठः । 'उपधायां ॰च’ (८. २. ७८) इति दीर्घत्वमत्र कैश्चिन्नेष्यत इति रक्षितवचनात् कुर्दनमित्यप्यस्ति । विहारन।मानि॥ घर्मो—स्वेदः स्यात् । स्वेदनामानि || प्रलयो नष्टचेष्टता | नष्टचेष्टतेति निष्पन्दस्थितिः। सा प्रलय: स्यात् । अनुक्तम् – 'कालिका तु विवर्णता' । वैवर्ण्य कालिका स्यात् ।। ३२-३ ।। । 1 ° परिहसन' B3. 5 4 श्रिया Bg. 2 A उपगूढ: A1, B1. adds भाषया 'सरसालु'. 3 ° पर्यायान् B3. 6' वरुपधाया दीर्घ इक:' (८. २.७६) B3. अवहित्थाकारगुप्तिः समौ संवेगसंभ्रमौ । स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक् स्मितम् ॥ ३४ ॥ मध्यमः स्याद् विहसितं रोमाञ्चो रोमहर्षणम् । (वि.) अर्वाहत्येति—अवहीयते गोप्यते आकारोऽत्रेति अवहित्था'। ‘ओहाक् त्यागे'। आकारगुप्तिनाम ॥ संविज्यते' संवेगः । 'ओ विजी भयचलनयोः' । 'संभ्रम- त्यनेनेति संभ्रमः। ‘भ्रमु अनवस्थाने' । संभ्रमनामनी ॥ आ समन्तात् 'छुरतीति आच्छुरितकम् । ‘छुर छेदने' । उत्प्रास्यते उत्क्षिप्यतेऽनेनेति उत्प्रासः। तेन सह वर्तत इति सोत्प्रासः । सोत्प्रासो हासः अच्छुरितकमित्युच्यते । सामर्षहासनाम ॥ स हासः मनाक् ईषच्चेत् स्मितमित्युच्यते । स्मीयते स्मितम् । 'ष्मिङ् ईषद्धसने'। ईषद्धासनाम ॥ विहस्यते " विहसितम् । 'हस हसने' । मध्यमहासनाम ॥ रोमाणि अञ्चतीति "रोमाञ्चः । ‘अञ्चु गतिपूजनयोः' । रोमाणि हृष्यन्त्यनेन रोमहर्षणम् । 'हृष तुष्टौ' । पुलको- गमनामनी’ ॥ ३४ ॥ 1 अवहित्थमित्येके Dy, I. 2 Pt 2 adds अनेनेति. 3 संभ्रम्यते Pt2; संभ्रमयति B1. छुरयति U. 5 स्मितादिहसितयोर्मध्यम: Pt2. 6 रोम्णामञ्चनं Pt 2. 7 B2, D1, I add पुलको रोमविक्रिया. 4