पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८. नाट्यवर्गः] दाक्षिणात्यव्याख्योपेतः १४१ (पा.) कौतूहलं–कुतूहलम् । अननुभूताभीष्टाभिलाषनामानि || स्त्रीणां - भावजाः । स्मितकटाक्षसंवृत्यादयो विलासाः | भर्त्सनाढ्यो बिब्बोकाः । वचनभूषणा- दिवृत्तयो विभ्रमाः । सुकुमारक्रमो ललितम् । धार्थाचरणं हेला । प्रियगतिवचनाद्यनु- करणं लीला | इतिशब्देन मोट्टायितकुट्टमितादीनां ग्रहणम् । तत्र मोट्टायितं कर्णकण्डूयन- गात्रभङ्गादि । कुट्टमितमोष्ठग्रहण सुखे दुःखाभिनयः । 'किलकिञ्चितं क्रोधाश्रुहर्षभीत्यादि- सांक विकृतमुखभाषणम् । विच्छित्तिमाल्यभूपणादिनिरास: विक्षेपः । असकलप्रतिकर्म मौग्ध्यम्' । स्त्रीणां शृङ्गारभावादुत्पन्नविलासादिचेष्ट। हावशब्दवाच्याः ।। ३१ ॥ 2 किलिकिञ्चितं A.. 3 A1, B add मुक्ताः कस्य कदा 1 °विपया: A1. फलानीत्या दिवाक्प्रयोगश्च. द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥ व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् । घर्मो निदाघः स्वेदः स्यात् प्रलयो नष्टचेष्टता ॥ ३३ ॥ (वि.) द्रवेति–द्रवति हृदयमनेनेति द्रवः। ‘द्रु गतौ’ । केलति चित्तं केलिः । ‘ केलृ चलने'। किलतीति वा । 'किल वैत्ये क्रीडायां च ' । परिहसतीति परीहासः। ‘हसे हसने’ | क्रीडतीति क्रीडा । 'क्रीडृ 'विहारे'। ललनं लीला । ‘लीङ् श्लेषणे' । खेलेति वा पाठः । खेलतीति खेला । 'खेलू चलने' । नृणाति रत्यतिशयं प्रापयतीति नर्म । ‘नृ'नये' | प्रियाणां प्रियाभिः सह क्रियमाणरतिपरिहासनाम || 'व्यजति क्षुपयतीति व्याजः । ‘अज गतिक्षेपणयोः' । अपदिश्यतेऽतद्रूपेणानेनेति अपदेशः । 'दिश अतिसर्जनॆ ’ | लक्ष्यतेऽनेनेति लक्ष्यम् । ‘लक्ष दर्शनाङ्कनयोः' । मिपनामानि || 'क्रीडतीति क्रीडा | ‘क्रीडृ विहारे’ | खेलतीति खेला । 'खेलू चलने' । क्रूर्दत इति कूर्दनम्’ | ‘कुर्द क्रीडायाम्' । विहारनामानि ॥ अङ्गं जिघर्तीति घर्मः । 'घृ क्षरणदीप्त्योः' । नितरां दहतीति निदाघः । 'दह भस्मीकरणे' । निदाघकाले जातो वा निदाघः । स्विद्यतेऽने- नाङ्गमिति स्वेदः । 'ध्विदा गात्रप्रक्षरणे' । स्वेदनामानि || 10 प्रलीयते क्रिया अत्रेति प्रलयः । ‘लीङ् श्लेषणे' | नष्टचेष्टतानाम || ३२-३ ।। 1 कॅलि: द्वयो: D2, W2; 'केलृ चलने', 'केलृ क्रीडायाम्', 'केलू बलनक्रीडनयोः इति धातुत्रयम् A. 2 विहरणे B1, D2, Ks, W2. नृणां B.. प्रीणने A, K.. 6 व्यज्यते क्षिप्यते Pt2. 7 क्रीडनं Pt.. 5 B1, D1, Waomit रति. केचित् पठन्ति B, Kg. 9 Ptg omits अङ्गं. 10 A adds प्रकर्षण. 8 कुर्दन मिति 11 °चेष्टित' Ks.