चर्वणाभिधानं वंशं स्तोत्रम् नाथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम् । उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे ॥ १ ॥ ( अहं = मैं ) त्रिभुवन - = तीनों लोकों के नाथं = स्वामी, भूति- = भस्म ( के लेप ) से सितं = गोरे रंग वाले = त्रिनयनं = त्रिनेत्र-धारो - त्रिशूल- = त्रिशूल को = धारण करने वाले ॐ तत् सत् अथ धरम् उपवीती-कृत- भोगिनम् = ( वासुकि आदि) सर्पों को यज्ञोपवीत के रूप में गले में धारण करने वाले इन्दुकला = तथा चन्द्र कला को शेखरं = माथे पर धारण करने वाले नाथं = अपने स्वामी को - वन्दे = प्रणाम करता हूँ ॥ १ ॥ त्रिभुवनं प्राग्वत् | भूतिः - विश्वमयी विभूतिः, तथा सितं – सम्बद्धं ञ् िबन्धने इत्यस्य सितशब्दः । त्रीणि — इच्छाज्ञानक्रियाख्यानि नयनानि यस्य | भेदोद्दलनहेतोः प्रज्वलद्ज्ञानरूपस्य त्रिशूलस्य धार- कम् | उप – समीपे वीतीकृताः - विशेषेणेताः कृताः - अनुगृहीताः, तथा बहि: पूजानिरताः आभासनेन कान्तिमन्तः कृताः संहृताव भोगिनः प्रसरा येन, वी' गताबित्यस्य प्रयोग | इन्दुकला - विश्वजीविनी चिति शक्तिः शेखरं – मुख्यं रूपं यस्य | समग्रमेयमयी इन्दुकला वा स्वातन्त्र्य- प्रथन हेतुत्वात् शेखरः – क्रीडार्थमाहार्य मण्डनं यस्य, तं वन्दे —— इति प्राग्वत् | बाह्यक्रमेण स्पष्टोऽर्थः ॥ १ ॥ - १ ख० पु० इणो ची गतीत्यस्य - इति पाठः । -- ग० पु० स्वातंत्र्यप्रथने हेतुत्वात् — इति पाठः ।
पृष्ठम्:शिवस्तोत्रावली (उत्पलदेवस्य).djvu/३५३
दिखावट