१४६ श्रीमद्वाल्मीकिरामायणम् । [ सुन्दरकाण्डम् ५ राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे || मैम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः || ६२ || नियुक्तो धुरि यस्यां तु तामुद्रहति वीर्यवान् ॥ यं दृष्ट्वा राघवो नैव वृत्तमार्गमैनुसरेत् ॥ ६३ ॥ स ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ६४ ॥ यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ त्वमसिन्कार्यनिर्योगे प्रमाणं हरिसत्तम ।। ६५ ।। राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ॥ ६६ ॥ जीवितं धारयिष्यामि मसं दशरथात्मज ॥ ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ ६७ ॥ रावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ।। ६८ ।। ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणि शुभम् ॥ प्रदेयो राघवायेति सीता हनुमते ददौ ॥ ६९ ॥ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ॥ अङ्गुल्या योजयामास नास्य ग्राभवद्भुजः ॥ ७० ॥ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ॥ सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ७१ ॥ हर्षेण महता युक्तः सीतादर्शनजेन सः ॥ हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ७२ ॥ चरन् परिचरन् ।। ६०-६२ || यस्यां धुरि यस्- | वन्तो देवाः पुनरप्यशरीरं वाक्यं युष्मासु सर्वलक्षण कार्यनिर्वाहइत्यर्थः । आर्य श्वशुरं दशरथं नानुस्म- संपन्नस्तां प्रतिनेतुमर्हतीत्युपश्रुत्य तमेव पुरुषोत्तमं रेत् । पितृवत्सम्यग्रक्षकत्वादिति भावः ।।६३ – ६४॥ प्रार्थयामासुः । स तत्र प्रविश्य पातालान्तां समुद्धृत्य रामः यथा दुःखक्षयकरो भवेत्तथा वक्तव्यमित्यर्थः । तैस्सह शऋाय प्रादादिति ॥ महाभारते तु उतथ्यस्य कार्यनिर्योगे कार्यसंघटने । प्रमाणं व्यवस्थापक: भार्या यमुनायां स्नान्तीं वरुणो हत्वा पातालमनयत् । ।। ६५ ।। त्वंत्समारम्भात् त्वदुत्साहात् ॥ ६६ ।। तामुतथ्यो नारदेन याचित्वा तामलब्ध्वा कुपितः ऊर्ध्वं मासात् । रावणकृतमासद्वयावधिं न सहिष्य | पातालहृदशोषेण तामवापेति श्रूयते | सा कौशि इति भावः ।। ६७ ॥ निकृत्या वच्चनेन | पाताला - कीति केचित्कथयन्ति ॥ ६८ - ६९ ॥ मणिरत्नं मणि- दिव कौशिकीं । अत्रेतिकरणं द्रष्टव्यं । इदं च ब्रूया श्रेष्ठं । अङ्गुल्या योजयामास । चूडामणेरधिष्ठानस्य इति पूर्वेणान्वयः । कौशिक : इन्द्रः तत्संबन्धिनी पृष्ठे या केशसरणिः तत्राङ्गुलिं प्रावेशयदित्यर्थः । श्रीः कौशिकी तामिव । एवं ब्रह्मपुराणे श्रूयते । पुरा एवं तनीयसी किमङ्गुलिरित्यत्राह—नहीति । अस्य वृत्रवधे ब्रह्महत्याभिभूतं निश्रीकमिन्द्रं भगवान्नारा- यणो देवैस्सह वैष्णवेनाश्वमेधेन निष्कल्मषं कृत्वा | हनुमतः भुजः न प्राभवत् न स्थूलोभवत् । न तदानीं त्रैलोक्य राज्येऽभिषिच्य पुरातनीं पौरंदरीं श्रियमुपा- स महाकायः भुजश्च न स्थूल: तेनाङ्गुलिस्त- ह्वयत् । ततोऽशरीरवाक्याद्गवाक्षतीर्थवर्तिनीं तामु- नीयसीत्यर्थः । एतेन देव्यैप्रदर्शितं महद्रूपंविहाय पश्रुत्यं स देवदेवो देवाश्च तत्र जग्मुः । ततस्तान् पुरप्रवेशकालिकं सूक्ष्मरूपमङ्गीकृतवानित्यवगम्यते दृष्ट्वा सा श्रीः पातालं प्रविवेश । तत्र प्रवेष्टुमशक्नु- ||॥ ७० 11 प्रणतः नम्रगात्रः ॥ ७१–७२ ॥ ति० रावणदत्तावध्यवशिष्टंकिंचिदधिकंमासद्वयमपिनसहिष्यइतिभावः । तत्समाप्तौत्वदनागमनेऽनार्योऽनार्यमेवाचरेत् । अतोऽर्वागेवमरणंज्यायइतिशीघ्रमागमनायैवमुक्तिरितिबोध्यं । निकृत्या राक्षसीकर्तृक निग्रहेण | उपरुद्धां पातालादिव कौशिकीं पातालमश्नांभुवंभगवानिवत्रातुमर्हसि । गायत्र्याःसांख्यायनगोत्रत्ववद्भूः कौशिकीतिकतकः ॥ ६८ ॥ ति० ननुतदासूक्ष्म- रूपत्वात्तत्रभुजासजनमेवोचितमतआह— नहीति । अस्यभुजःसूक्ष्मोपि नप्राभवत् । तद्रन्ध्रे नप्राविशदित्यर्थः । निषेधस्यप्रसक्ति- मूलकत्वात् प्रसक्तेश्चसूक्ष्मरूपएवसंभवात् । पूर्वदेव्यैप्रदर्शितं महद्रूपं विहाय सूक्ष्मरूपेणैवस्थितइतिगम्यतइतितीर्थः । कतकस्तु अङ्गुल्यायोजयामाससूक्ष्मवासोबद्धं अङ्गुल्यांदृढंबबन्धेस्यर्थः । अस्यबन्धनेभुजोनप्राभवत् व्यक्ततयासर्वानुभवप्रसङ्गाद्रोपणीयत्वा- चभुजोनोचितोऽभूदित्यर्थइत्याह ॥ ७० ॥ [ पा० ] १ क. ग. — ट. मत्तः. २ ङ. झ. ट. मनुस्मरत् ३ ङ. झ. ट. निर्वाहे. ४ क. मासमात्रंनृपात्मज ५ क. मासादूर्ध्वन, ६ क. ज. अङ्गुल्यां. ७ ङ. झ ट रामलक्ष्मणंचसलक्षणं.
पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१५०
दिखावट