सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-सुन्दरकाण्डम्.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् || आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ॥ उत्तरां दिशमालोक्य जगाम पुरुषोत्तमः ॥ १८ ॥ एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः ॥ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ १९ ॥ [ साण्डं त्रिभुवनं सर्वे सर्वतः सचराचरम् || सर्वे ग्रस्तं मया दृष्टं रामेणाक्लिष्टकर्मणा ॥ २० ॥ क्षीरोदधिजले मध्ये श्वेतः शैलः समुच्छ्रितः ॥ तस्य मूर्ध्नि ततः श्वेतश्चतुर्दन्तो महागजः || तस्य पृष्ठे स्थितः श्रीमात्रामो राजीवलोचनः ॥ २१ ॥ १०३ ततः सीता समुत्पत्य भर्तुरङ्काश्रिता तदा ॥ बाहुभ्यां संपरिष्वज्य संपूर्ण चन्द्रमण्डलम् ॥ २२ ॥ ततोऽन्यत्र मया दृष्टो रामो राजीवलोचनः ॥ आसीनः प्राङ्मुखः श्रीमानासने परमाद्भुते ॥ २३ ॥ अभिषिक्तस्तु काकुत्स्थः सर्वदेवैर्नमस्कृतः ॥ सब्रह्मर्षिगणैः सर्वैः सर्वतीर्थजलेन च ॥ २४ ॥ शुक्लमाल्यांबरधरा शुक्लमाल्यानुलेपना ॥ साधु सा तत्र सुश्रोणी रराज जनकात्मजा ॥ २५ ॥ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ब्रह्माणमग्रतः कृत्वा रामं तत्र ववन्दिरे ॥ २६ ॥ पुनरेव मया दृष्टो रामो रमयतांवरः || विष्णुरेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ॥ २७ ॥ परं ब्रह्म परं तत्वं परं ज्ञानं परं तपः ॥ परं बीजं परं क्षेत्रं परं कारणकारणम् ॥ २८ ॥ शङ्खचक्रगदः श्रीमान्पुण्डरीकायदेशणः || श्रीवत्सवक्षा नित्यश्रीरजेयः शाश्वतो ध्रुवः ॥ २९ ॥ एवं भूतो महातेजा रामः कमललोचनः ॥ सर्वलोकेश्वरः श्रीमान्ससर्ज रघुनन्दनः ॥ ३० ॥ ततोमरेन्द्राः पितरो मुनीन्द्रा गन्धर्वविद्याधर पन्नगेन्द्राः ॥ कृताभिषेकं परिवार्य रामं प्रतुष्टुवुः प्राञ्जलयः महृष्टाः ॥ ३१ ॥ ततस्तु सर्वाप्सरसः ग्रहृष्टा नृत्यन्ति गायन्ति समेत्य तत्र ॥ वाद्यं प्रकुर्वन्ति समेत्य शङ्खा वंशाश्च वीणा मुरजाच मेर्यः ॥ ३२ ॥ ] नै हि रामो महातेजाः शक्यो जेतुं सुरासुरैः ॥ राक्षसैर्वाऽपि चान्यैर्वा स्वर्गः पापजनैरिव ॥ ३३ ॥ अयमिह स्वप्नक्रमः । शिविकास्थितो रामो दृष्टः । | विमानं सूर्यसन्निभम् । उत्तरां दिशमालोक्य जगाम श्वेतपर्वतस्था सीता च । ततः शिबिकाया गजमारुह्य पुरुषोत्तमः || एवं स्वप्ने मया दृष्टो रामो विष्णुपरा- लक्ष्मणेन सह पर्वतमभ्येत्य ततस्सीतां गजस्कन्धेधि- क्रमः | लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ रोप्य लङ्काया उपरि स्थित्वा ताभ्यां सहाष्टर्षभयुक्तेन रथेनेहागत्य स्वं देशं प्रति ताभ्यां पुष्पकमधिरुह्यागत इति पाठक्रमः । विमाने पुष्पके स्थितः । साण्डं इति अन्ये श्लोकाः प्रक्षिप्ताः । तेन ते न व्याख्याता त्रिभुवनमित्यारभ्य रामः सत्यपराक्रम इत्यन्तो ग्रन्थः इत्याहुः । ऴक्ष्मणेन सह भ्रात्रेति ॥ एतत्पादस्यान - | प्रक्षिप्तः प्रकृतासंगतश्च । विष्णुरेव स्वयंभूत्वेति न्तरं, सीतया सह वीर्यवान् || आरुह्य पुष्पकं दिव्यं | प्रक्षिप्तवचनस्य विष्णुपराक्रम इत्यनेन विरोधात ति० अन्त्रमध्ये ' साण्डत्रिभुवनं ' इत्यादयोबहवः श्लोकाः रामानुजसंप्रदायपुस्तकेषुदृश्यन्ते । तेप्रक्षिप्ताइतिकतकादयोऽन्येच ॥ १९ ॥ सं० विष्णुःउपेन्द्ररूपीसन् ॥ २७ ॥ स० तत्स्वरूपंनिरूपयति – परं ब्रह्मेति । कीदृशंब्रह्म परंतत्वं अत्यन्तानारो- पितरूपं । परिज्ञानं उत्तमज्ञानस्वरूपं । परंतपः फलरूपं । परंबीजं अतिशयेन निमित्तकारणं । परंक्षेत्रं मुख्याश्रयः । कारणकारणं प्रकृतिकाला दिरूपकारणानामपिकारणं ॥ २८ ॥ नित्यश्रीः अनपायलक्ष्मीवान् अत्रसाण्डंभुवन मित्याद्येतदन्तं श्लोकजातंप्रक्षि- · समितिकतकप्रभृतयः । अस्माभिस्तुगङ्गाजलमिश्ररथ्योदकवदुपादेयतयाव्याख्यातं ॥ २९ ॥ [ पार्क ] १ ङ. झ. ट. मालोच्यप्रस्थितः २ घ. च. छ. ज. न. वीर्यवान् ३ साण्डंत्रिभुवन मित्यारभ्यवीणामुरजाश्चभे- र्य इत्यन्ताः कोकाः च. छ. ञ ञ. पाठेषुदृश्यन्ते. ४ च. छ. नतु. ५ क. च. छ. रक्षसांवापिलोकन ग. रक्षसांवापिलो कैर्वा •