सर्गः ९२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् एवं सुविहितो यज्ञो हयमेधोऽभ्यवर्तत || लक्ष्मणेनाभिगुप्ता च हयचर्या प्रवर्तत ॥ ९ ॥ ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् || नान्यः शब्दोऽभवत्तत्र हयमेधे महात्मनः ॥ १० ॥ छन्दतो देहि देहीति यावत्तुष्यन्ति याचकाः ॥ तावत्सर्वाणि दत्तानि ऋतुमध्ये महात्मनः ॥ विविधानि च गौडानि खाण्डवानि तथैव च ॥ ११ ॥ २३३ न निस्सृतं भवत्योष्ठाद्वचनं यावदर्थिनाम् || तावद्वानररक्षोभिर्दत्त मेवाभ्यदृश्यत ॥ १२ ॥ न कश्चिन्मलिनस्तत्र दीनो वाऽप्यथ कर्शितः ॥ तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ॥ १३ ॥ ये च तत्र महात्मानो मुनयश्चिरजीविनः ॥ नामरस्तादृशं यज्ञं नाप्यासीत्स कदाचन ॥ १४ ॥ यः कृत्यवान्सुवर्णेन सुवर्ण लभते स सः ॥ वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ॥ १५ ॥ रँजतानां सुवर्णानामश्मनामथ वाससाम् || अनिशं दीयमानानां राशिः समुपदृश्यते ॥ १६ ॥ न शऋस्य धनेशस्य यमस्य वरुणस्य वा || ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ॥ १७ ॥ सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः || वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ॥ १८ ॥ ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः || संवत्सरमथो सायं वर्तते न च हीयते ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्विनवतितमः सर्गः ॥ ९२ ॥ ॥ ८ ॥ ह्यचर्या अश्वमेधयागानुष्ठानं ॥ ९ ॥ याचकाः | रिति शेषः ॥ १४–१६ ॥ उक्त एवार्थ आदराद- यावत्तुष्यन्ति तावदेहि देहीति शब्दादन्यः शब्दो भ्यस्यते - न शकस्येत्यादि । १७-१८ || संवत्सरं नाभवत् ॥ १० ॥ सर्वाणि दत्तानी त्यस्यैव प्रपञ्चनं - वर्तते न च हीयते । संवत्सरात्परमपीति शेषः । विविधानीत्यादि । गौडानि गुडविकाररूपाणि ॥११॥ पुनः पुनरश्वमेधः प्रावर्ततेत्यर्थः ॥ १९ ॥ इति श्रीगो- अर्थिनां मुखादेहीति वचनं यावन्न निस्सृतं, तावद्द- विन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटा- त्तमेवाभ्यदृश्यत ॥ १२-१३ ॥ चिरजीविनो ख्याने उत्तरकाण्डव्याख्याने द्विनवतितमः सर्ग: ९२ मुनयः तादृशं यज्ञं । इतः पूर्व तादृशो नासीदित्याहु- स० राजसिंहस्य राजश्रेष्ठस्सईदृशं उत्तमं यज्ञप्रवरमुद्दिश्यैव शब्दः महानयंयज्ञइतिस्तुतिरूपोऽभवत् । हृयमेधेप्रवृत्तेसति । अन्यः तदस्तुतिरूपः न नाभवत् । 'यज्ञप्रवरमुत्तममभव' दितिव्याख्यन्नागोजिभट्टः किमभिप्रायेणैवमू चिवा नितिविभावनीयं ॥ १० ॥ स० यावत् यावता याचकास्तुष्यन्ति तावद्रव्यंविस्रव्धः अतिदानेस्वामीरामः कुत एवंत्वयाकारीतिभर्त्सयेदितिशङ्का विकलः । देहीतिबोधितेन तावत् तावन्ति सर्वाणिदत्तानि ॥ ११ ॥ स० दानौघसमल तादृशंयनास्मरन् एतत्समसवनानुभवाभावा- देवस्मरणाभावइतिभावः । प्राक्कृतंअन्यानुष्ठितं सवनं दानौघसमलं दानानामोघेनसंघेनसमलं सदोषं | अपात्रेभ्योवाऽसमये वाअदेय दित्सावेतिसामल्यंदानेष्वितिमन्तव्यं | अस्मरन्तथानुभवादितिभावः ॥ १४ ॥ स० सुवर्णानां शोभनवर्णोपेतानां । हिरण्यानां रजतानां ॥ १६ ॥ इतिद्विनवतितमः सर्गः ॥ ९२ ॥ २ क. ख. घ- छ. झ ञ ट यज्ञंदानौघसमलंकृतं. ३ झठ हिरण्यानां. [ पा० ] १ झ - ठ. देहिविस्रब्धो. ४ च. छ. ववृधेचमहीयते. क. घ. ववृधेनाभ्यहीयत. वा. रा. २७०
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३७
दिखावट