सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S ४२० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ॥ पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २० ॥ ततस्ते यमुनां दिव्यां नदीं तीर्त्वार्मिंमालिनीम् ॥ दहशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २१ ती रम्यजलसंपूर्ण संतीर्य सहबान्धवः ॥ शृङ्गिवेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २२ ॥ शृङ्गवेरपुरा यस्त्वयोध्यां संददर्श ह ॥ २३ ॥ अयोध्यां च ततो दृष्ट्वा पित्रा श्रात्रा विवर्जिताम् || भरतो दुःखसंततः सारथिं चेदमब्रवीत् ||२४|| सारथे पश्य विध्वस्ता साऽयोध्या न प्रकाशते ॥ निराकारा निरानन्दा दीना प्रतिहतस्वरा ||२५|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥११३ चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ वाल्मीकिना बहु निदर्शनप्रदर्शनेनायोध्यायाःशोभाराहित्यनिरूपणम् ॥ १ ॥ अयोध्यांप्रविष्टवताभरतेनसुमन्प्रत्ययोध्या- यानिश्शोभत्वप्रदर्शनपूर्वकंशोकात्पितृनिवेशप्रवेशः ॥ २ ॥ स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः ॥ अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥ बिडालोलूकचरितामालीननरवारणाम् || तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २ ॥ राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ॥ ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् ॥३॥ अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहंगमाम् ॥ लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ ४ ॥ विधूमामिव हेमा भामध्वराने: समुत्थिताम् || हविरभ्युक्षितां पश्चाच्छिखां विप्रैलयं गताम् ॥ ५ ॥ विध्वस्तकवचा रुग्णगजवाजिरथध्वजाम् || हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥ त्रयोदशोत्तरशततमः ब्धेवाप्रणामेप्यन्वयेन नकोपिविरोधइत्याहुः । अयोध्या- | नेअयोध्याकाण्डव्याख्याने मुद्दिश्यययावित्यन्क्यः ॥ १९ ॥ भरतस्येवसेनाया- सर्गः ॥ ११३ ॥ श्चित्रकूटान्निवृत्तिमाह-यानैरिति ॥ २० ॥ भरतमनु - सृत्यसेनानुयानप्रकारमाह- ततइति । यमुनांतीर्खाग- च्छन्तस्ते सर्वे गङ्गांददृशुरितिसंबन्धः ॥ २१ – २४ ॥ निराकारा निर्गतशोभनाकारा ॥ २५ ॥ इति श्रीगो- विन्दराजविरचितेश्रीमद्रामायणभूषणेपीताम्बरा बराख्या- पूर्वसर्गान्तिमलोकोक्तविस्तरेण दर्शयति चतुर्दशोत्तर- ततमे | उपयान् समीपमागच्छन् ॥ १॥ कालींकृष्णपक्ष- संबन्धिनीम् ॥ २ ॥ राहुशत्रो: चन्द्रस्य ॥ ३४ ॥ हविरभ्युक्षितां दध्यादिहंविषाअभ्युक्षितां । शिखां प्रव ॥ १८ ॥ ति० यमुनांतील तस्मिन्नेव दिनेभरद्वाजंदृष्ट्वा गङ्गांददृशु रित्यर्थ इति कश्चित् । तत्तुपूर्वोत्तरीत्याऽसामञ्जस्याद्धेयं । जलस्य शिवत्वंरम्यत्वंच दर्शनमात्रेणसकलपापापहन्तृत्वंमधुरत्वंच ॥ २१ ॥ ति० शृङ्गबेरपुरादिति । निर्गत्येतिशेषः ॥ २३ ॥ ति० विध्वस्ता विध्वस्तशोभा । निराकारा निरलङ्कारा ॥ २५ ॥ इतित्रयोदशाधिकशततमस्सर्गः ॥ ११३ ॥ ति० आसमन्तातूलीनानिश्लिष्टा निलग्नानि नराणांवारणानिकवाटानियस्यां । शि० आलीनानिपिहितानि नरचारणानि नराणांचारणानिमुखानियस्यांतां । किंच आलीनानि निवृत्तानि नराणांप्रतीहाराणांवारणानिनिवारणानियस्यांसातां ॥ २ ॥ ति० विधूमां अतएवहेमाभां अनेस्समुत्थितांशिखामिवा । पूर्वरामस्थितिसमयेजाज्वल्य मानरूपतयास्थितां । पश्चात् रामविवासनकाले ह- विरभ्युक्षितां होमीयपयस्सिक्तां अतएव विप्रलयंगतांशिखामिवस्थितां । अध्वरानेस्समुत्थिता मितिपाठोबहुसंमतः तत्राप्यर्थः प्राग्व- [ पा० ] १ क. – ट. शिवजलां. २ ज. रम्यांतांजल. ग. तांपुण्यजल ३ ज. बान्धवैः ४ ग. संददर्शसः ५ क. ख. ङ. च. छ. झ. ज. ट. अयोध्यांतुतदा. ६ क. च. ज. भ्रात्राचवर्जितां. ग. भ्रात्राविनाकृतां. ख. भ्रात्राचवर्जितः ७ क. वाक्यमब्रवीत्. ८ ङ. छ. झ. ट. विध्वस्ताअयोध्या ९ क. ख. घ. – छ. झ ञ ट प्रतिहतस्वना. १० ग. तिमिरेणाहतां. ११ क. ख. घ.. ङ. छ. ज झ ट . ग्रहेणाभ्युदितेनैकां. १२ ङ. झ ञ. द. घर्मतप्त, क. घर्मातप्त. १३ ङ. छ. झ. द. हेमाभांशिखामः १४ ग. समुच्छ्रितां. १५ क, ख. प्रविलयं,