पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११३ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । स तमाश्रममांगम्य भरद्वाजस्य बुद्धिमान् || अवतीर्य रथात्पादौ ववन्दे भैरतस्तदा ॥ ६ ॥ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् || अपि कृत्यं कृतं तात रामेण च समागतम् ॥ ७ ॥ एवमुक्तः स तु तँतो भरद्वाजेन धीमता ॥ प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ ८ ॥ स याच्यमानो गुरुणा मया च दृढविक्रमः ॥ राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ ९ ॥ पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ॥ चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ १० ॥ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह || वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ ११ ॥ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ॥ अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ १२ ॥ एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ॥ पादुके अधिरुते मम राज्याय वै ददौ ॥ १३ ॥ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना || अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ १४ ॥ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ॥ भैरद्वाजः शुभतर मुनिर्वाक्यमुवाच तम् ॥ १५ ॥ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर || यदार्य त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ १६ ॥ अमृतः स महाबाहुः पिता दशरथस्तव ॥ यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ १७ ॥ तमृषि तु महात्मानमुक्तवाक्यं कृताञ्जलिः || आमन्त्रयितुमारेमे चरणावुपगृह्य च ॥ १८ ॥ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ॥ भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ १९ ॥ ॥ ५ ॥ सइति । भरद्वाजस्यपादौववन्दइत्यन्वयः ॥ ६ ॥ १५ ॥ आर्य ज्येष्ठानुवर्तनरूपंश्रेयः । निम्ने तटाका- अपिशब्दःप्रश्ने । रामेणकंसमागतसंगतं भवतारामेण दौ । सृष्टंधृतम् ॥ १६ ॥ “प्रजामनुप्रजायसेतदुतेम- कृत्यंभवत्प्रयोजनंकिंकृतमित्यर्थः ॥ ७–८ ॥ गुरुणाव र्यामृतं" इतिश्रुत्युक्तरीत्या सत्पुत्रलाभान्मृतोपिदशरथः सिष्ठेन । पितुरिति । चतुर्दशवर्षाणिवनेवस्तव्यमितिकै- अमृतइत्याह अमृतइति ॥ १७ ॥ आमन्त्रयितुमारेभे केयीनिभित्तंकृतापितुर्याप्रतिज्ञास्ति तामेवपितुःप्रतिज्ञां विनयेनामन्त्रणोयुक्त इवस्थितइत्यर्थः ॥ १८ ॥ ततः • तत्वतः पालयिष्यामीत्यब्रवीदितिसंबन्धः ॥ ९ – १० ॥ तदनुज्ञानन्तरं । अत्र पुनः पुनरित्यनेन एकंप्रदक्षिणं हेमभूषितेइत्यनेन रामायत्रीत्यासमर्पयितुमभिनवतया- कार्यमित्युक्तं । प्रदक्षिणविशेषणेन प्रणामस्तुसकृदेवे- निर्मायनगराद्भरतेनानीतेइतिगम्यते । योगक्षेमकरे अपू- त्युक्तंभवतीत्याचार्या: । केचित्तु एकहस्तप्रणामैकप्रद- र्ववस्तुलाभोयोगः । लब्धस्यपरिपालनंक्षेमः । एते पादु- क्षिणयोरिव एकप्रणामस्यापिनिषिद्धत्वात् पुनःपुनरि- केप्रयच्छेतिवसिष्ठःप्रत्युवाचहेतिसंबन्धंः||११||१२- तिविशेषणस्यात्रार्थिकेवा पूर्वश्लोकोक्ताभिवादनबलल- अतएवाग्रेभरद्वाजामंन्त्रणोत्तरं "ततस्तेयमुनांतीवें" तिवक्ष्यति । संप्रतितत्रस्थितिस्तुरामभरतयोस्संवादंशिष्यद्वाराझटितिश्रोतुमिति बोध्यं ॥ स० यत्र प्रयागे ॥ ५ ॥ ति० प्रयच्छ प्रतिनिधित्वेनेतिशेषः । योगक्षेमकरोभवेति एतद्वाराभरतेसार्वज्ञसंपादनेने तिशेषः ॥ १२ ॥ ति० हेमविकृते हेम्नाविचित्रतयाकृते | ममराज्याय ममराज्यरक्षाशक्त्यनुग्रहार्थमित्यर्थः । शि० नचपूर्वेभ- रतप्रार्थनयारामकर्तृकपादुकादान स्योक्तत्वेनेदंविरुद्ध मितिवाच्यं । गुरावीश्वरत्वबुद्ध्याकर्तृत्वंकरणत्वं चेत्यादिश्रुत्या कर्तृत्वस्येश्वरेपर्यंवस- नत्वेनवसिष्ठस्यैवमुख्यकर्तृत्वेनादोषात् ॥ १३ ॥ ति० आर्ये शोभनचरित्रं । त्वयितिष्ठेदितियत् तत् उत्सृष्टमुदकं निम्नेतिष्ठेदिति- वन्नचित्रं । निम्नेतिलुप्तसप्तम्यन्तं ॥ १६ ॥ शि० आमन्त्रयितुं गमनायप्रार्थयितुं | ति० आमन्त्रयितुमारेभे आमन्त्रणकृतवान् ४१९ [ पा० ] १ ख ग घ. ज. मासाद्य. २ ङ. झ. वीर्यवान् ३ क. – ङ. छ. ज. झ• कुलनन्दनः . च. ञ. रघुनन्दनः ४ च. समागतः ५ ख. ग. च. ज. तदा ६ क. ङ. च. छ. झ. ज. ट. धर्मवत्सलः ७ क. याच्यमानोपि. ८ ग. चतुर्दशच. ९ ङ. झ. ट॰ करोभव. १० क. ख. ङ. च. छ. झ ञ ट हेमविकृते. ११ क. ख. ङ. च. छ. झ ञ ट तेददौ १२ क. च. ञ. भरद्वाजस्तुभरतं. ज. भरद्वाजःशुभरतं. १३ क. ख. ङ. च. छ. झ. ज. ट. मुदाहरत्. ग. मुवाचह. १४ च. नैवचित्रं. १५ ङ. च. छ. झ. ञ. ट. नरव्याघ्रेशीलवृत्तविदांवरे. १६ ङ. झ ञ ट . निम्नोत्सृष्ट. ख. ग. घ. च. ज. निम्नेवृष्ट. १७ ङः॰ छ, झ, ञ ट अनृणः १८ ख. ङ. छ. झ. ज. ट. धर्मात्मा. १९ क. समहात्मानं० ख. ङ च छ. झ.ज. ट. तुमहाप्राज्ञं.