सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. सर्गः ८८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् ।

३२७

इयं शय्या मम भ्रातुरिदं' हि परिवर्तितम् || स्थण्डिले कठिने सर्व गात्रैर्विमृदितं तृणम् ।। १३ ।। मन्ये साभरणा सुप्ता सीताऽस्मिञ्शयनोत्तमे || तत्र तत्र हि दृश्यन्ते सक्तोंः कनकविन्दवः ॥ १४ ॥ उत्तरीयमिहासक्तं सुव्यक्तं सीतया ताँ ॥ तथा होते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १५ ॥ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी || सुकुमारी सती दुःखं न विजानाति मैथिली ॥१६॥ हा हन्तास्मि नृशंसोहं यत्सभार्यः कृते मम || ईदृशीं राघवः शय्यामधिशेते ह्यनाथवत् ॥ १७ ॥ सार्वभौमकुले जातः सर्वलोकैस्य संमतः ॥ सर्वलोकप्रियस्त्यक्त्वा राज्यं सुखमनुत्तमम् ॥ १८ ॥ कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः || सुखभागी न दुःखाई: शयितो भुवि राघवः ॥ १९ ॥ धन्यः खलु मँहाभागो लक्ष्मण: शुभलक्षणः ॥ भ्रातरं विषमे काले यो राममनुवर्तते ॥ २० ॥ सिद्धार्था खलु वैदेही पतिं याऽनुमता वनम् ॥ वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ २१ ॥ अकर्णधारा पृथिवी शून्येव प्रतिभाति माँ ॥ गते दशरथे स्वर्गे रामे चारण्यमाश्रिते ॥ २२ ॥ न च प्रार्थयते कश्चिन्मनसाऽपि वसुन्धराम् || 'वँनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ २३ ॥ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् || अँपावृतर्पुरद्वारां राजधानीमरक्षिताम् ॥ २४ ॥ अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् || शत्रवो नौभिमन्यन्ते भैक्षान्विषकृतानिव ॥ २५ ॥ ती । कर्तरिक्तः । हन्तेतिशेषः ॥ १२ ॥ परिवर्तितं | रलक्षणेनच राज्यार्होरामः कथमेतादृशींदुर्दशांप्राप्तइ- परिवर्तनं स्वापकालेश्रमातिशयादितस्ततः शरीरपरि- तिखिद्यति- सार्वभौमकुलेजातइत्यादिनाश्लोकद्वयेन चर्तनपरं । परिवर्तनज्ञापकमाह — स्थण्डिलइति । ॥ १८-१९ । विषमेकाले संकटेकाले ॥ २० ॥ स्थण्डिले भूतले । कठिनस्थलत्वात् गात्रैः विमृदितं पतिमनु पतिमनुसृत्य । वनंगतेतिसंबन्धः। संश- क्षुण्णं । तृणं इदमित्यनुषङ्गः ॥ १३ ॥ साभरणासुप्ता यिताः अस्मत्सेवांरामोङ्गीकरिष्यतिनवेतिसंशयिताः मार्गश्रमादाभरणमनुन्मुच्यसुप्तवती ।शयनोत्तमे ॥ २१ ॥ अकर्णधारा प्रधानपुरुषरहितेतियावत् । भर्तृशय्यात्वादितरतल्पेभ्य: श्रेष्ठतमे । साभरणासुप्ते- अतएव शून्येवप्रतिभाति ॥ २२ ॥ अनायकत्वेकथं त्यत्रसूचकमाह—तत्रतत्रेति । तत्रतत्र तृणेषुसक्ताः राज्यं निरुपद्रवंतत्राह-नचेति । कञ्चित् सामन्तः । कनकबिन्दवः · जाम्बूनदाभरणनिर्गलिताः सूक्ष्मरेणवः नप्रार्थयते आक्रमितुंनेच्छति ॥ २३ ॥ रामवीर्यवि ॥ १४ ॥ इह कुशाग्रेषु आसक्तं इदमासञ्जनंसुव्यक्तं नारक्षकान्तरशून्यत्वमाह - शून्यसंवरणेत्यादि । शू- सीतया सीतायाः ॥ १५ ॥ याकापिभर्तुः शय्याप - न्यसंवरणारक्षां अविद्यमानप्राकाररक्षकां । यद्वा तिव्रतायाःसुखेतिमन्ये । यतःसुकुमारीमैथिली सती शून्यसंवरणःगुप्तिरहितः आरक्ष: गुल्मस्थानंयस्याः · पतिव्रता । अस्मिन्नपिशयनेशयितादुःखंनजानाति सातथा । अयन्त्रिता: रक्षकाणांरामपारवश्येनतैरब- ॥ १६ ॥ हाहन्तेत्येकनिपातः खेदार्थ: । अहंनृशंसो- द्धा: हयद्विपाः यस्यास्तां । अपावृतानि अपिहितानि स्मि निर्दयोस्मि । ममकृते मन्निमित्तं । कृतेइत्यव्ययं पुरद्वाराणियस्यास्तां । अप्रहृष्टबलत्वमरक्षितत्वेहेतुः । ॥ १७॥ जन्मना शक्तिमत्तया प्रजारञ्जकत्वेन शरी- न्यूनां साधनविहीनां । विषमस्थां दुर्दशापन्नां । अना- वि० सर्वगात्रंतृणैर्विमृदितं क्षुण्णमितिसंबन्धः ॥ १३ ॥ ती० सीतया वृतमितिशेषः । यद्वाषष्ठ्यर्थेतृतीया ॥ १५ ॥ ति० ममकृते कैकेयी प्रवृत्तेस्खा नुमतिराहित्येपिस्वमुद्दिश्यजातत्वादितिभावः ॥१७॥ स० अनावृतां सर्वतःपुररक्षकैरहितां । एतादृशी- [ पा० ] १ ङ. झ. ट. रिदमावर्तितशुभं २ क. च. ज. गात्रं विमृदितंतृणैः ३ क. ख. च. ज. न. शयनेतदा. ङ. छ. झ. ट. शयनेशुभा. ग. शयनेशुभे. ४ ख. तत्रतत्रच. ५ क. सिक्ताः ६ च तया. ७ ज. कनकतन्तवः ८ क - ञ. हृतोस्मि• . ९ ङ. छ. झ. ट. नृशंसोस्मि. १० घ. यः पितुःसदृशोमम ११ क – ट. लोकसुखावहः. १२ ङ. छ. झ. ट. सर्वप्रियकरस्य - • क्त्वा. ख. च. ञ. सर्वलोकप्रियंत्यक्त्वा १३ कं. ख. डट. प्रियं. १४ च. ञ. महाबाहुः १५ ङ. च. छ. झ ञ ट. मे. . १६ ङ. छ. झ. ट. वनेनिवसतः १७ क. ङ. च. छ. झ ञ ट अनावृत १८ ग. गृहद्वारां. १९च. झ. शून्य. २० घ. नानुमन्यन्ते. २१ क. घ. च-ट. भक्ष्यान् M