पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ [ अयोध्याकाण्डम् २ • अद्यप्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ॥ फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ २६ ॥ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ॥ तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २७॥ वसन्तं आतुरर्थाय शत्रुघ्नो माऽनुवत्स्यति || लक्ष्मणेन सह त्वार्यो ह्ययोध्यां पालयिष्यति ॥ २८ ॥ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ॥ अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ।। २९ ।। प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि नाभिपत्स्यते || ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥ .श्रीमद्वाल्मीकिरामायणम् ।

एकोननवतितमः सर्गः ॥ ८९ ॥ प्रभाते भरतमुपागतवतागुहेनदाशान्प्रतिनौकानयनचोदना ॥ १ ॥ दाशैर्भरतादीनांनौकादिसाधनैर्गङ्गातारणम् ॥ २ ॥ भरतेनप्रयागव ने सेना निवेशन पूर्व कंभरद्वाजदिदृक्षयावसिष्ठा दिसाहित्येन तदाश्रमंप्रतिप्रस्थानम् ॥ ३ ॥ व्युष्य रात्रिं तु तत्रैव गङ्गाले स राघवः ॥ भैरतः काल्यमुत्थाय शत्रुघ्न मिदमब्रवीत् ॥ १ ॥ शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् || शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥ २ ॥ जागर्मि नाहं स्वपिमि तैमेवार्य विचिन्तयन् || इत्येवमब्रवीत्रा शत्रुघ्नोपि प्रचोदितः ॥ ३ ॥ वृतां बाह्यरक्षकरहितां । नाभिमन्यन्ते अभिभवितुंन | ||३०|| इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- स्मरन्ति । भक्षान् अंपूपादीन् | विषैः विषमिश्रैः कृतान् भूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने ।।२४––२५।। उक्तसर्वानर्थस्यआत्ममूलकतयातत्प्राय- अष्टाशीतितमः सर्गः ॥ ८८ ॥ श्चित्तमाह - अद्येत्यादि । श्लोकद्वयमेकान्वयं । तंप्रति- श्रवं तांप्रतिज्ञां । आमुच्य स्वस्मिन्नासज्य | तस्यार्थ व्युष्य उषित्वा । रात्रि रात्रौ । तत्रैव यत्ररामो- रामार्थमित्यर्थः । उत्तरंकालं चतुर्दशवर्षात्मकेकालेरा- शयिष्टतत्रैव । काल्यं प्रत्यूषः । “ प्रत्यूषोहर्मुखंका- मानुष्ठितव्यतिरिक्तोत्तरकालं वनेवत्स्यामि मिथ्यान ल्यम्" इत्यमरः । तस्मिन्नित्यर्थः ॥ १ ॥ शत्रुघ्नभद्रं · भविष्यति प्रतिज्ञेतिशेष: ।। २६-२८ ॥ देवता: तइति सान्त्वोक्तिः । वाहिनीं गङ्गां । अस्मानित्यर्थ- इममनोरथ॑सत्यकुर्युरपि । संभावनायामपिशब्दः सिद्धं ॥ २ ॥ नाहंस्वपिमिजागर्मीति भ्रात्राप्रचोदितः ।। २९ ।। शिरसाप्रणामपूर्वकंस्वयं नतुमन्त्रिमुखेन । शत्रुघ्नोपि तमेवार्य यस्त्वयाचिन्त्यतेत मे वार्यविचिन्त- नाभिपत्स्यते नाङ्गीकरिष्यति । प्रसादमितिशेषः । यन्सन् | अहमपिजागर्मि नस्वपिमि इत्येवमब्रवीत् । ततस्तदा । वनेवसन् राघवमनुवत्स्यामि तदनुचरोभ- तथैवेतिपाठे यथात्वं तथैवाहमार्यविचिन्तयन्नित्यर्थः । वामि । अनुचरणवाकथमङ्गीकरिष्यतीत्यत्राह-ना- चरमपर्वनिष्ठस्यप्रथमपर्वाभिनिवेशस्तत्प्रीत्यर्थतयेति र्हतिमामुपेक्षितुमिति । मां भ्रातरंशिष्यंदासमित्यर्थः | व्यञ्जितं ।“ तदवस्थंतुभरतंशत्रुघ्नोऽनन्तरस्थितः " मपिविषकृतान्मरणशङ्कयायथानाभिमन्यन्ते तथारामभियानेच्छन्तीत्यर्थः । शि० विषमस्थां विषमाणांअनवस्थितचित्तानांस्थः • स्थितिर्थस्यां | शत्रवोनाभिमन्यन्ते तेनरामस्यप्रतापातिशयसूचितः ॥ २५ ॥ ति० तस्यव्रतसंकल्पंखयंगृहीत्वातत्परिपालनार्थं • उत्तरकालं चतुर्दशवर्ष पर्यन्तं | अहंवने॒वत्स्यामि | शि० तस्यराम स्यप्रतिनिधिरहं ॥ २७ ॥ इत्यष्टाशीतितमस्सर्गः ॥ ८८ ॥ . शि० शत्रुघ्न लंकिंशेषे उत्तिष्ठेत्यर्थः । तत्प्रयोजनमाह उत्थायगुहंशीघ्रमानय ॥ २ ॥ [ पा० ] १ च. तृणेषुच. २ ङ. छ. झ ञ ट तस्याहमुत्तरं. ग. तदर्थमुत्तरं. ३ ङ. छ. झ. ट. तत्प्रतिश्रुतमार्यस्यनैवमि- • थ्या. ४ ग. नहि. ५ ङ. छ, झ. ट. सहायोध्यामार्यो मे ६ ग. द्विजोत्तमाः. ७ क. ख. ग. चट. नप्रपत्स्यते. ङ. नप्रपत्स्यति. ८ ड. छ. ट. वनेचिरंनार्हति झ. वनेचरं नार्हति ९ ख. उषित्वातत्ररात्रिंतु. ग. उषित्वातन्त्रतांरात्रिं. १० ज. तीरे ११ ङ. छ. झ. ज. अ. द. काल्यमुत्थाय शत्रुघ्नमिदं वचनमब्रवीत्. च. भरतःकल्यं. १२ ङ. छ. झ. ट. शत्रुघ्नोत्थाय १३ क-ट. तथैवार्य. १४ ख. ग. ङ, च. ज - ट. भ्राताशचनोविप्रचोदितः.