सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तथाऽमात्यानभिप्रेतान्विश्वास्यांच गुणान्वितान् ॥ ददावश्वपतिः 'क्षिप्रं भैरतायानुयायिनः ॥ २१॥ ऐरावतानैन्द्रशिरानागान्वै प्रियदर्शनान् || खराशीघ्रान्सुसंयुक्तान्मातुलोसै धनं ददौ ॥ २२ ॥ अन्तः पुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान् || दंष्ट्रायुधान्महाकायान्शुनथोपायनं ददौ ॥ २३ ॥ स दत्तं केकयेन्द्रेण धनं तन्नाभ्यनन्दत || भरतः केकयी पुत्रो गमनत्वरया तदा ॥ २४ ॥ बभूव ह्यस्य हृदये चिन्ता सुमहती तदा ॥ त्वरया चापि दूतानां स्वप्नस्यापि च दर्शनात् ॥ २५ ॥ स स्ववेश्म व्यतिक्रम्य नरनागाश्वसंवृतम् || प्रपेदे सुमहच्छ्रीमात्राजमार्गमनुत्तमम् ॥ २६ ॥ अभ्यतीत्य ततोऽपश्यदन्तःपुरमंदारधीः ॥ ततस्तद्भरतः श्रीमानाविवेशानिवारितः ॥ २७ ॥ से मातामहमापृच्छच मातुलं च युधाजितम् ॥ रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २८ ॥ रथान्मण्डलचक्रांश्च योजयित्वा परश्शतम् ॥ उष्ट्रगोश्वखरैर्नृत्या भरतं यान्तमन्वयुः ॥ २९ ॥ बलेन गुप्तो भरतो महात्मा सहायकस्यात्मसमैरमात्यैः ॥ आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्ततितमः सर्गः ॥ ७० ॥ ज्ञाप॒यमास ।। २० ।। अमा सह प्राणांस्त्यजन्तीत्य - | सुमहाश्रीमान् || २६ || अभ्यतीत्येति । राजमार्गमि- मात्याः तान् । अभिप्रेतान् सहायभूतानित्यर्थः । तिशेषः ॥ २७ ॥ मातामहं स्वेनैवसहान्तःपुरमागतं । विश्वास्यान् विश्वसनीयान् । अश्वपतिः केकय: मातुलंच तथाभूतं ॥ २८ ॥ मण्डलचक्रान् वर्तुलच- ॥२१॥ मातामहकृतसत्कारप्रकारमुक्त्वामातुलकृतस- ऋयुक्तान् । परःशतं शतात्परान् । “पङ्किविंशति—” त्कारप्रकारमाह – ऐरावतानित्यादिना | ऐरावतान् इत्यादिसूत्रेनिपातनाहेकवचनं । रथान्उष्ट्रादिमिःसंयो- इरावतपर्वतभवान् । ऐन्द्रशिरान् इन्द्रशिराख्यपर्वतभ- ज्य भृत्याः यान्तंभरतमन्वयुः ॥ २९ ॥ महात्मा वान् । शीघ्रान् वेगवतः । सुसंयुक्तान् परिचितान्॥२२॥ महाधैर्योभरतः | आर्यकस्य मातामहस्य | बलेनगुप्तः अन्तःपुरइति मातुलइत्यनुषज्यते ॥ २३ – २५ ॥ आत्मसमैः स्वप्रभावसदृशैः । अमात्यैः सहशत्रुघ्नमा- स्ववेश्मव्यतिक्रम्येत्यनेन स्ववेश्मप्रवेशोर्थसिद्धः । तथा दाय अपेतशत्रुः निष्कण्टकःसन् । इन्द्रलोकात् सिद्धो च राज्ञामातुलेनच स्वगृहएवकृतसत्कारोमातामह्या- देवजातिरिवगृहाद्ययौ ॥ ३० ॥ इति श्रीगोविन्दरा- विदर्शनार्थमन्तःपुरं गतवानितिबोध्यं । अथवा भर- जविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने तस्यदुःस्वप्नदर्शनदुःखदूतागमनवृत्तान्तश्रवणेनकेकय - अयोध्याकाण्डव्याख्याने सप्ततितमः सर्गः ॥ ७० ॥ मातुलौस्वगृहमेवागतावितिद्रष्टव्यं । सुमहच्छ्रीमान् शि० अमात्यान् स्वमन्त्रिणः ॥ २१ ॥ ती० ऐरावतान् ऐरावतकुलोद्भवान् ॥ २२ ॥ शि० व्याघ्रवीर्यबलोपमान् व्याघ्रवीर्यबलाभ्यामुपमायेषांतान् । स० व्याघ्रवीर्यस्यबलेनोपमायेषांतेतथा ॥ २३ ॥ शि० मण्डलचक्रान् मण्डलानिमण्डला- कारसंपादकानि चक्राणियेषांतान् । परं भिन्नं । शतंरथान् उष्ट्रादिभिर्योजयित्वाभरतमन्वयुः | कतक० मण्डलाकारतयारथप्रव- र्तनसाधकं चक्रंमण्डलचक्रं चतुर्दिक्चक्रमध्यस्थं तद्येषांतान् । काझ्यादौचतथेदानींप्रसिद्धं ॥ २९ ॥ ति० सभार्यकस्खात्मसमै- रितिपाठान्तरं । भार्यासहितइत्यर्थः ॥ ३० ॥ इतिसप्ततितमस्सर्गः ॥ ७० ॥ ] १ घ. ङ. छ. ज. झ. ट. तदा. [ २ क. ख. ग. ङ. च. छ. झ. ञ. ट. शीघ्रं. ३ क. च. अ. भरतायानुजी- विनः ४ ग. ददौधनं. ५ अन्तः पुरेतिसंवृद्धानितिश्लोकः तस्मैहस्त्युत्तमानितिश्लोकात्परं रुक्मनिष्केतिश्लोकात्पूर्व ङ. छ. झ. ट. पुस्तकेषुदृश्यते ६ ङ. छ. झ ट ठ बलोपमानू. ७ क. ङ. छ. झ. ट. दंष्ट्रायुतान्. ८ क. ड. झ. अ. स्ववेश्माभ्यतिक्रम्य ख. ग. स्ववेश्मयतिक्रम्य. ९ क. ख. ङ. च. छ. झ ञ ट. नागाश्वसंकुलं. घ. नागाभिसंकुलं. १० क. ख. ग. ड–ट. मनुत्तमं. ११ घ. स्वमातामहं. १२ ङ. छ. झ. ट. परंशतं.