'श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ॥ शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥९॥ आत्मकामा सैदा चण्डी क्रोधना प्राज्ञमानिनी ॥ अरोगा चापि 'मे माता कैकेयी किमुवाच ह ॥१०॥ एवमुक्तास्तु ते दूता भरतेन महात्मना || ऊचुः संप्रश्रयं वाक्यमिदं तं भरतं तदा ॥ ११ ॥ ते कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ॥ श्रीश्च त्वां वृणुते पद्मा युज्यतां चापि ते रथः ॥ १२ ॥ भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत || आपृच्छेऽहं महाराजं दूताः संन्त्वरयन्ति माम् ॥ १३ ॥ एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः || दूतैः संचोदितो वाक्यं मातामहमुवाच हे ॥ १४ ॥ राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः ॥ पुनरप्यहमेष्यामि यदा मे त्वं सरिष्यसि ॥ १५ ॥ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा || तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ १६ ॥ गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया ॥ मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ १७ ॥ . पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः ॥ तौ च तात महेष्वासौ भ्रातरौ रामलक्ष्मणौ ॥१८॥ तस्मै हस्त्युत्तमांचित्रान्कम्बलानजिनानि च ॥ अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ १९ ॥ "रुक्मनिष्कसहस्रे द्वे षोडशाश्वशतानि च ॥ सत्कृत्य कैकयीपुत्रं केकयो धनमादिशत् ॥ २० ॥ २७६ नपूज्या | धर्मनिरता धर्मानुष्ठानपरा धर्मज्ञा ज्ञात्वा | च्यते । तदेत्यनेन किंचिद्विलम्बोक्तौभरतोऽन्यथाम- नुष्ठानमितिन्यायेनानुष्ठानमूलज्ञानयुक्ता | धर्ममेवज- न्येतेति झटित्युत्तरमुक्तमित्युच्यते ॥ ११ ॥ कुशलाइ- नेषुपश्यतीतिर्धमदर्शिनी गुणग्राहिणी नतुदोषदर्शिनी- तिसामान्योक्तिः प्रत्येकोक्त्यासंदेहानुत्पादाय । श्रीः त्यर्थः । अप्यरोगेत्यन्वयः । अपि प्रश्ने । धीमतइत्य- लक्ष्मीः । पद्मा पद्महस्ता | अर्शआद्यच् । राज्यश्री- नेनपुत्रकृतातिशयउच्यते ॥ ८ ॥ सेति धर्मज्ञत्वस्म- रितिहार्दोभावः । अमङ्गल्यव्यावृत्तिर्भरतप्रत्याय्या रणाभिनयः । मध्यमेत्यनेन " नतेम्बामध्यमातात " इत्यत्रकैकेय्यामध्यमात्वमितररूयपेक्षया ॥ ९ ॥ आत्मानंकामयतइतिआत्मकामा स्वप्रयोजनपरेत्यर्थः । .प्रज्ञैवप्राज्ञा प्राज्ञामात्मानंमन्यतइतिप्राज्ञमानिनी । मनः " इतिणिनिः । ' क्यङ्मानिनोच ” इति पुंवद्भावः । चण्डी उग्रा । क्रोधना क्रोधवती । मेमा- ता अप्यरोगा । कैकेयीकिमुवाच स्वबन्धुविषयेकिमु - वाचेत्यर्थः । दुःस्वप्नदर्शनदूतागमनाभ्यां । कैकेय्या किञ्चित्कृतंभवेदित्यूहितवान्भरतइतिसूचयति – आ- सकामेत्यादिभिः ॥ १० ॥ महात्मना महाबुद्धिना। • एतेनायोध्यावृत्तान्तोनेनज्ञातइतिसूचितं । सप्रश्रयं तेपले । वक्षोविभूषणेकर्षे " सविनयं । अनेनसर्वात्मनाअयोध्यावृत्तान्तगोपनंसू- धनं उक्तरूपं । आदिशत् आदायगच्छतेतिभृत्याना (C ॥ १२ ॥ एवमुक्तोभरतः दूता मांसंत्वरयन्तीतिमहा- राजमापृच्छ इतितान्दूतानभ्यभाषतेतियोजना ॥ १३॥ दूतैः संचोदितोभरतः तान्दूतानेवमुक्त्वा मातामहंवा- क्यमुवाच ॥ १४ ॥ मे मां | यदास्मरिष्यसि यदा आगन्तव्यमितिस्मरिष्यसि । तदैष्यामि आगन्तव्य- मितिभवत्स्मरणंयदाजानामि तदाआगमिष्यामीत्यर्थः । मेइत्यत्र “अधीगर्थदयेशां—” इतिषष्ठी ।। १५–१८॥ अस्यादौ इत्युक्त्वेत्युपस्कार्य । तस्मै भरताय । अमिस- त्कृत्यददौ श्लाघापूर्वेददावित्यर्थः ॥ १९ ॥ निष्काः वक्षोभूषणानि । निष्कोस्त्रीहेग्निदीनारेसाष्टेकर्षश- इतिवैजयन्ती । ति० मातुस्स्वभावानुवादपूर्वतस्या आरोग्यं पृच्छति- आत्मकामेति । शि० सदा नित्यं । आत्मकामा आत्मनांजीवानांकं सुखंअमतिप्रापयतिसा । अतएवचण्डी । क्रोधना । चण्ड्यांहिंसिकायांक्रोधनंकोपोयस्यास्सा | “चण्डीकात्यायनीदेव्यांहिंस्रकोपन- योषितोः” इतिमेदिनी । प्राज्ञमानिनी प्राज्ञान्तत्वज्ञान्मानयतिपूजयतितच्छीला । अरोगा नित्यंरोगरहिता ॥ १० ॥ ती० श्री- स्त्वांवृणुतइतिलक्ष्मीवरणोक्तिरमङ्गलव्यावृत्त्यर्थानतुराज्यश्रीप्राप्तिपरा । राजमरणादिकं नव क्तव्यमितिवसिष्ठेनोक्तत्वात् ॥ १२ ॥ ती० रुक्मनिष्काणि वक्षोभूषणानि कण्ठभूषणानिवा ॥ २० ॥ [ पा० ] १ ख. लक्ष्मणस्यसा. घ. लक्ष्मणस्यच. २ क. च. ञ. शत्रुघ्नस्यापि ३ ङ.. छ. झ. ट. वीरस्यअरोगा. ग. घ. धीरस्यसारोगा ४ ख. चारुमध्यमा ५ च. सुचण्डीच. ६ क. ग. च. ञ. कैकेयीमातामे. ७ क. ख. ङ- ट. संप्रश्रितं. ८ क मिदंच. ९ ङ. छ. झ. ञ. ट. सत्कृत्यकेकयो राजाभरतायददौधनम् ख. सत्कृत्यराजाकैकेयोभरतायददौधनं.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२८०
दिखावट