श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अशोभनं योऽहमिहाद्य राघवं दिदृक्षमाणो न लभे सलक्ष्मणम् || इतीव राजा विलपन्महायशाः पपात तूर्ण शयने स मूर्च्छितः ॥ ३७ ॥ इति विलपति पार्थिवे प्रष्टे करुणतरं द्विगुणं च रामहेतोः ॥ वचनमनुनिशम्य तस्य देवी भयमगमत्पुनरेव राममाता ॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥ २४२ षष्टितमः सर्गः ॥ ६० ॥ रामशोकात्क्षितौपरिलुठन्तींकौसल्यांप्रतिसुमन्त्रेण सहेतूपन्यासंरामस्यदुःखाभावोपपादनपूर्वकंसमाश्वासनम् ॥ १ ॥ सुम घेणकौसल्यांप्रतिसीता सुखावस्था निरूपणेनतस्याअपरिशोच्यत्वकथने पितस्यारामादिपरिशोचनेनसमाक्रन्दनान्नोपरमः ॥ २ ॥ ततो भूतोपसृष्टेव वेपमाना पुनःपुनः ॥ धरण्यां गतसत्वेव कौसल्या सूतमब्रवीत् ॥ १ ॥ नय मां यत्र काकुत्स्थ: सीता यत्र च लक्ष्मणः ॥ तान्विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम् || २ || निवर्तय रथं शीघ्रं दण्डकान्नय मामपि ॥ अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् ॥ ३ ॥ बाष्पवेगोपहतया स वाचा सज्जमानया || इदमाश्वासयन्देवीं सूतः प्राञ्जलिरब्रवीत् ॥ ४ ॥ त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा ॥ व्यवधूय च संतापं वने वेत्स्यति राघवः ॥ ५ ॥ लक्ष्मणश्चापि रामस्य पादौ परिचरन्वने || आराधयति धर्मज्ञः परलोकं जितेन्द्रियः ॥ ६ ॥ विजनेऽपि वैने सीता वासं प्राप्य गृहेष्विव ॥ विस्रम्भं लभतेऽभीता रामे संन्यस्तमानसा ॥ ७ ॥ नास्या दैन्यं कृतं किञ्चित्सुक्ष्ममपि लक्ष्यते ॥ उचितेव प्रवासानां वैदेही प्रतिभाति मा ॥ ८ ॥ नगरोपवनं गत्वा यथा स्म रमते पुरा । तथैव रमते सीता निर्जनेषु वनेष्वपि ॥ ९ ॥ बालेव रमते सीताsबालचन्द्रनिभानना ॥ रामा रामे ह्यधीनात्मा विजनेऽपि वने सती ॥ १० ॥ नलभइतियत् इदमशोभनमित्यन्वयः | कविनापिव- | अथतान्नानुगच्छामि तान्नानुगच्छामिचेत् ||३|| सज्ज- क्तमशक्यत्वादिवेत्युक्तम् ॥ ३७ ॥ इति उक्तप्रकारेण | मानया विक्कुबया ॥ ४ ॥ मोहं रामस्यकिंभविष्यती- रामहेतोः करुणतरंयथातथा द्विगुणंविलपति पार्थिवे त्यज्ञानं । संभ्रमं व्याकुलत्वं । संतापं शोकजनितदे- प्रणष्टे मूच्छितेसति । देवीपुनरेवभयमगमत् पूर्वराम- हसंतापं रामोदुःखितोभविष्यतीतिसंतापमित्यर्थः । स्यकिंभविष्यतीति इदानींभर्तुरपिकिंभविष्यतीतिभय- यस्माद्राघवःसंतापंव्यवधूयवत्स्यति तस्माच्छोकादिकं मगमदित्यर्थः ॥ ३८ ॥ इति श्रीगोविन्दराजविरचिते त्यजेत्यन्वयः ||५|| परलोकमाराधयति परलोकंसाध- श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- यति । राधसाधसंसिद्धावितिधातुः ॥६॥ लभते भी- व्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥ तेत्यत्रअभीतेतिपदच्छेदः । विस्रम्भं प्रणयं । " वि सम्भ: प्रणयेपिच " इत्यमरः ॥ ७ ॥ कृतं वनवास- भूतोपसृष्टेव धरण्या॑वेपमाना भूतगृहीतेव भूमौप- कृतं । किञ्चिदित्यस्यविवरणं सुसूक्ष्ममिति । प्रवा- तित्वा विवर्तमानेत्यर्थः। गतसत्वेव गतप्राणेव । “द्रव्या- सानामुचितेव प्रवासानांयोग्येव अभ्यस्तवनवासप्र- सुव्यवसायेषुसत्वमस्त्री तुजन्तुषु" इत्यमरः ॥१-२॥ यासेवेत्यर्थः ॥ ८–९ ॥ क्रीडैकरसत्वाद्वालादृष्टान्तः शिo संतापं प्रातिभासिकमात्रादिवियोगजनितदुःखं ॥ ५ ॥ शि० परलोकं परःसर्वोत्कृष्टःयोलोकोजनस्तंपरमपुरुषमित्यर्थः । किंच परःसर्वोत्कृष्टःलोक्यतेदृश्यतेअसौसतं । किंच परःसर्वोत्कृष्टःलोकोयस्यतंसाकेताधीशमित्यर्थः ॥ ६ ॥ ति० बालेवेति दुःखा- परिज्ञानेनोपमा । तस्यादेहाद्य भिमानाभावान्नाधिजंदुःखमितिभावः । स० रामा योषित् | आरामे आरामइव ॥ १० ॥ [ पा० ] १ ङ. च. झ ञ ट क्षणमप्यद्य. २ ञ. वसति ३ च. ञ. वनेऽभीता. ४ च. ञ. लभतेसीता. ५ क. ङ. च. "छ. झ, ञ ट विन्यस्त ६ क ख लक्षये. ७ ङ. च. छ. झ. द. भाति मे.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४६
दिखावट