पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २४१ भवितव्यतया नूनमिदं वा व्यसनं महत् || कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया ॥ २४ ॥ सूत यद्यस्ति ते किंचिन्मया तु सुकृतं कृतम् ॥ त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम् ॥२५॥ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम् || नै शक्ष्यामि विना राम मुहूर्तमपि जीवितुम् ॥ २६ ॥ अथवाऽपि महाबाहुर्गतो दूरं भविष्यति ॥ मामेव रथमारोप्य शीघ्रं रामाय दर्शय ॥ २७ ॥ वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः || यदि जीवामि साध्वेनं पश्येयं सीतया सह ॥ २८ ॥ लोहिताक्षं महाबहुमामुक्तमणिकुण्डलम् || रामं यदि न पश्येयं गमिष्यामि यमक्षयम् ॥ २९ ॥ अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम् || इमामवस्थामापन्नो नेह पश्यामि राघवम् ॥ ३० ॥ हां राम रामानुज हा हा वैदेहि तपस्विनि ॥ न मां जानीत दुःखेन म्रियमाणमनाथवत् ॥ ३१ ॥ स तेन राजा दुःखेन भृशमर्पितचेतनः ॥ अवगाढः सुदुष्पारं शोकसागरमब्रवीत् ॥ ३२ ॥ रामशोकमहाभागः सीताविरहपारगः ॥ श्वसितोर्मिंमहावर्तो बाष्पफेनजलाविलः ॥ ३३ ॥ बाहुविक्षेपमीनौषो विक्रन्दित महास्वनः ॥ प्रकीर्णकेश शैवाल: कैकेयी बैंडबामुखः ॥ ३४ ॥ ममाश्रुवेगप्रभवः कुब्जावाक्यमहाग्रहः ॥ वरवेलो नृशंसाया रामप्रव्राजनायतः ॥ ३५ ॥ 'यस्मिन्बत निमग्नोऽहं कौसल्ये राघवं विना || दुस्तरो जीवता देवि मयाऽयं शोकसागरः ॥ ३६ ॥ कृत: किन्तु स्त्रीहेतोःसंमोहात्सहसाकृतः ॥ २३ ॥ | नीयेन | अर्पितचेतन: व्याप्तचित्तः । अवगाढ: प्रवि- अथवा इदंव्यसनं यदृच्छया दृष्टहेतुंविना | भवित- ष्टः ॥ ३२ ॥ अनुभूयमानस्वशोकस्यापरिमेयत्वात्तं व्यतयापापेनप्राप्तमितिसंबन्धः ॥ २४ ॥ ते तुभ्यं । सागरत्वेनरूपयति — रामशोकमहाभोगइत्यादिना । सुकृतं उपकारः । संत्वरयन्ति निर्जिगमिषन्तीत्यर्थः रामशोक एवमहानाभोगोवैपुल्यंयस्यसतथा । सीता- ।। २५ ।। अद्यापि अस्यांविपद्यपि । ममैवाज्ञायदिप्र- विरहरूपंपारंगच्छतीतितथा ॥ ३३–३४ ॥ अश्रुवे- वर्तते । तदाराघव॑निवर्तय । तुशब्दोऽवधारणे गस्य प्रभवोमूलहेतुः । सागरोहिवर्षस्यनिदानं । महा- ॥ २६–२७॥ वृत्तदंष्ट्रः कुन्दकुङ्मलाकारदंष्ट्रः । ग्रहः महाग्राहः । अनेकुब्जावाक्यमेवरामप्रवासन- यदिपश्येयंजीवामीतिसंबन्धः ॥ २८ ॥ आमुक्तमणि- मूलमितिराज्ञाज्ञातमित्यवगम्यते । नृशंसाया: कैके- कुण्डलं धृतरत्नकुण्डलं ॥ २९ ॥ नपश्यामीतियत् य्याः वरएव वेला जलवृद्धिर्यस्य | रामप्रव्राजनमे- अतः अदर्शनात् । दुःखतरंकिंनु किमपिदु:खतरंना- वायतमायामोदैर्घ्ययस्यसतथा ॥ ३५ ॥ सागरत्वरू- स्तीत्यर्थः ॥ ३० – ३१ || दुःखेन तप्ताय : पिण्डस्था- पणप्रयोजनमाह – यस्मिन्नित्यादिश्लोकेन || ३६ ॥ ति० नञोऽनेकधाप्रयोगः शोकेनचित्तवैक्लव्यात् । सहसा झटित्यविचारेणैव ॥ २३ ॥ शि० विवेककरणेहेतुंवदन्नाह — भवितव्यत येति । यत् यस्मात् राक्षसकुलात् अस्य मद्बुद्धिस्थस्य ऋषिसमूहस्य | महद्व्यसनं दुःखं तस्यकुलस्यविनाशाय भवितव्यतया उपलक्षि. तया । ऋच्छया वनगत्या | इदंदुःखप्राप्तं ॥ २४ ॥ ति० मदाज्ञयाभवान्गत्वाराघवंनिवर्तयतु । ननुभरतायत्वयाराज्यस्यदत्तत्वा- त्त्वदाज्ञयामयाकथंगन्तव्यंतत्राह | अद्यापिममैवाज्ञा यावद्भरतागमन मितिभावः ॥ २६ ॥ ती० लक्ष्मणपूर्वजःक्क असावहंमुमूर्षः क्वेत्यनुकर्षः । मुमूर्षोर्ममरामदर्शनंदुर्लभ मित्यर्थः । जीवामि जीवेयमित्यर्थः । ति० जीवामीति तत्समीपगमनपर्यन्तमपिजीवनेंसंदेह इतिभावः ॥ २८ ॥ शि० आमुक्तानिपरित्यक्तानिमणिकुण्डलानियेनतं | यमक्षयं यमस्यकालस्यक्षयःअभावोयस्मिंस्तंसाकेतलोकं गमिष्यामि ॥ २९ ॥ ति० अतोन्वित्यतरशब्दार्थमाह - इमामिति । एवमत्यन्तसंनिहितमरणकालेउत्तमलोकदस्वस्मरणाभ्या- ससंपादनायभगवताऽऽत्मवियोगः पितुस्संपादित इतितत्वम् ॥ ३० ॥ कतक० वरएववेलामर्यादायस्य । यतोरामप्रनाजना समुद्रात्कालकूटमिवजाता ॥ ३५ ॥ इत्येकोनषष्टितमस्सर्गः ॥ ५९ ॥ [ पा० ] १ क—–च. ज – ट. न्मयापि. २ क. यदन्यापि. ३ ग. घ. नहिशक्ष्ये. ४ क. सहसीतया ५ च. ञ. बाहुं सुमुक्त ६ क. ख. च. ञ ट पश्यामि ७ ख सोहं. ८ क. – ङ. ज. – ट. वेगः ९ ङ. झ, ञ, ट. बाष्पवेग, १० ङ, च. झ. ज. ट. मीनोसौ. ११ क. च. ज. बडबानलः १२ ख तस्मिन्बत. वा. रा. ६३