श्रीमद्वाल्मीकिरामायणम् । २२८ [ अयोध्याकाण्डम् २ एकैकं पादपं गुल्मं लतां वा पुष्पशालिनीम् || अदृष्टपूर्वी पश्यन्ती रामं पप्रच्छ साऽबला ||३०|| रमणीयान्बहुविधान्पादपान्कुसुमोत्कटान् || सीतावचनसंरख्ध आनयामास लक्ष्मणः ॥ ३१ ॥ · विचित्रवालुकजलां हंससारसनादिताम् || रेमे जनकराजस्य तैदा प्रेक्ष्य सुता नदीम् ॥ ३२ ॥ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ ॥ बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने ॥ ३३ ॥ विहृत्य ते बर्हिणपूगनादिते शुभे वने वानरवारणायुते ॥ समं नदीवप्रमुपेत्य संमतं निवासमाजग्मुरदीनदर्शनाः ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ षट्पञ्चाशः सर्गः ॥ ५६ ॥ प्रभांतेसीतालक्ष्मणाभ्यांसहमस्थितेनरामेणमार्गेसीतांप्रतिवनरामणीयकादिप्रदर्शन पूर्वकं चित्रकूट मेत्यतत्र वाल्मीक्याश्रमा- भिगमनम् ॥ १ ॥ रामेणवाल्मीक्यभ्यनुज्ञयालक्ष्मणेनपर्णशालानिर्मापणम् ॥ २ ॥ तथादेवतायजनादिपूर्वकंसीतालक्ष्म- णाभ्यांसह सुमुहूर्तेपर्णशालाप्रवेशः ॥ ३ ॥ + अथ राज्यां व्यतीतायामवसुप्तमनन्तरम् || प्रबोधयामास शनैर्लक्ष्मणं रँघुनन्दनः ॥ १ ॥ सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ॥ संप्रतिष्ठामहे काल: प्रस्थानस्य परंतप ॥ २ ॥ सँ सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ॥ जहाँ निद्रां च तंन्द्रीं च प्रसक्तं च पैथि श्रमम् ॥ ३॥ तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ॥ पन्थानमृषिणाऽऽदिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥ ततः संप्रस्थितः काले रामः सौमित्रिणा सह ॥ सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ ५ ॥ आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् || खैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये ॥६॥ -२९ ।। पप्रच्छ कैषासंज्ञेतिपृष्टवतीत्यर्थः ॥ ३० ॥ | अयोध्याकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ पादपा नित्येनन स्तबकविशिष्टाः पादपावयवाउच्यन्ते। सीतावचनसंरब्धः सीतावचनेनत्वरितः ॥ ३१ ॥ अनन्तरं स्वप्रबोधानन्तरं । अवसुतं ईषत्सुप्तमित्य- नदीं यमुनां । सुदूरंतत्तीरेगमनात्तदर्शनं ॥ ३२ ॥ र्थः ॥ १ ॥ वन्यानां शुकपिकशारिकादीनां । वल्गु मेध्यान् शुचीन् भक्ष्यानितियावत् । चेरतुः भक्षित- सुन्दरं । काल: प्राप्तइतिशेषः ॥ २ ॥ समये प्रबोधन- वन्तौ । चर गतिभक्षणयोः ॥ ३३ ॥ पूगः समूहः । समये । तन्द्रीं जाड्यं । जहौ तदाप्रभृतीतिशेषः । समं अनिम्नोन्नतं । नदीवञं नदीतीरं । संमतं निवासं पथिश्रमं तत्कृतोपचारमित्यर्थः || ३ || नद्याः कालि- सीताभिमतंवासस्थानं ।। ३४ ॥ इति श्रीगोविन्दरा- न्याः । स्पृष्ठेत्युपलक्षणंप्रातः कालिकस्नानादिकृत्या- जविरचिते. श्रीमद्रामायणभूषणे पीताम्बराख्याने नां । तंपन्थानं पलाशवनरूपं ॥ ४-५ ॥ आदी- स० अदृष्टरूपा मितिविपरिणतंसत्पादपंगुल्ममित्याभ्यामन्वेति । एकैक मितिवत् ॥ ३० ॥ स० प्रश्नस्त्वपेक्षामूलइतिमला सीता वचने संरब्धः आदरवान् लक्ष्मणः कुसुमोत्करान् पुष्पस्तोमविशिष्टान् । पादपान् तदग्रभागान् | उपलक्षणमेतत् । गुल्मादीनान- यामास । तत्तन्नामकथितवानानिन्येच ॥३१॥ स० चेरतुर्भुक्तवन्तौ । परिवेषणकर्व्यास्सीतायारामोच्छिष्टभोक्तत्वेन निमित्तेनतद- ग्रहणाद्विवचनोपपत्तिः ॥३३॥ स० वारणवानराणामयुतानियस्मिन्नितिव्यधिकरणबहुव्रीहिः । यद्वा वारणवानरैः आसमन्ताद्युते । नदीवप्रं यमुनातीरं । “तटेवप्रः” इतिरत्नमाला | उपेत्यतत्रनिवासं आजग्मुश्चक्रुः ॥ ३४ ॥ इतिपञ्चपञ्चाशस्सर्गः ॥ ५५ ॥ । ति० अथावसुप्तं स्वप्नबोधानन्तरमपीषत्सुप्तं । एतेन चतुर्दशवर्षपर्यन्तंलक्ष्मणःस्वापहीनोऽनाहारश्चेतिलोकप्रवादोपास्तः । शि० अनन्तरं दूररहितंयथास्यात्तथा । स० अनन्तरं स्वप्रबोधानन्तरं अवसुप्तं निद्रामुद्रितलोचनत्वेन तिष्ठन्तं ॥१॥ ती० मालिनः [ पा० ] १ ङ. छ. झ. ञ. ट. अदृष्टरूपां. २ ङ. छ – ट. कुसुमोत्करान्. ३ क – ट. सुताप्रेक्ष्यतदा ४ ग. ङ. च. छ. झ. ञ. ट.. वारणवानरायुते ५ ङ. छ. झ ञ ट सत्वरं. ६. ङ. छ. झ. ट. रघुपुङ्गवः ७ ङ. छ. झ. ट. प्रसुप्त स्तुततो भ्रात्रा॑सम॒ये. ८ ङ. छ. झ ञ ट तन्द्रां. ९ ख. ङ. च. छ. झ ञ. द. परिश्रमं १० ङ, छ, झ. ट. मृषिभिर्जुष्टं, क. ख. ग. च. ज. ञ मृषिणोद्दिष्टं घ. मृषिणाजुष्टं ११ पुष्पितान्द्रुमानू.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३२
दिखावट