६८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः || सोजयदानवान्सर्वोस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥ वेदा: सेहाङ्गविद्याश्च यथा द्यात्मभुवं विभुम् ॥ ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥४९॥ आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् ॥ बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥ उत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः ॥ विराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥ सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि || वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥ गता भगवती राँत्रिः कृतं कृत्यमिदं तव || बुध्यस्ख नृपशार्दूल कुंरु कार्यमनन्तरम् ॥ ५३ ॥ उँदतिष्ठत रामस्य समग्रमभिषेचनम् ॥ पौरैजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ ५४ ॥ स्वयं वसिष्ठो भगवान्ब्राह्मणैः सह तिष्ठति || क्षिप्रमाज्ञाप्यतां राजत्राघवस्याभिषेचनम् ॥ ५५ ॥ यथा ह्यैपालाः पशवो यथा सेना नायका || यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥५६॥ एवं हि भवता राष्ट्र यत्र राजा न दृश्यते ॥ ५७ ॥ १८ इति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्यवत् ॥ अभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ ५८ ॥ तैतः तः स राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥ वाक्यैस्तु खलु मर्माणि मैम भूयो निकृन्तसि ॥ ५९ ॥ तिव्युत्पत्त्याभास्करश्चन्द्रः ॥ ४७-४८ ॥ सहाङ्ग - | मेरुसंबद्धरथाक्षद्वारेतिज्ञेयं ॥ ५१-५२ ॥ सर्वान- विद्याः अङ्गभूतशिक्षादिविद्यासहिताः । ब्रह्माणंबोध- न्दकररामाभिषेकमहोत्सवोपयुक्तत्वाद्रात्रिर्भगवतीति यन्ति सृष्टषुपयोगितत्तदर्थबोधंजनयन्ति । तथाहम- स्तूयते ॥ ५३॥ उदतिष्ठतेति । “उदोनूर्ध्वकर्मणि” इ- नुः “नामरूपंचभूतानांकृत्यानांचप्रपञ्चनं । वेदशब्दे- त्यात्मनेपदं । उपस्थितमित्यर्थः । अभिषेचनं अभिषे- भ्यएवादौदेवादीनांचकारसः” इति ॥ ४९ ॥ भूतधरां कसाधनं । उपतिष्ठतीतिपाठान्तरम् ॥ ५४–५७॥ सर्वप्रा॒णिधरा॑ । प्र॒थिवी॑ींबोधयति । विशेषणद्वाराष्ट्र- सान्त्वपूर्व सामपूर्वं । “सामसान्त्वं” इत्यमरः । अ- थ्वीबोधनं । अद्यबोधयामीत्यन्वयः ॥ ५० ॥ कृत- कौतुकमङ्गलः कृतंकौतुकहेतुभूतंमङ्गलाचरणंयेनसत- र्थवदितिनिर्देशः प्रातःकालप्रबोधस्यसर्वविजयहेतुत्वा- थोक्तः । सर्वानन्दोत्पादनायकृतदेहालङ्कारइत्यर्थः । त् ॥ ५८ ॥ सुतंप्रतिसन्नहर्षः नष्टहर्षः। भूयोनिकृ- यद्वा कौतुकं उत्सवः कृतोत्सवार्थमङ्गलानुष्ठानइत्य- न्तसि कैकेयीवाक्यकृत्तानिमर्माणिभूयोप्यनुचितका- र्थः । मेरोर्दिवाकरइव दिवाकरस्यप्रधानमेरोरुत्थानं लस्तुतिभिर्निकृन्तसीत्यर्थः । अत्रइतिशब्दोध्याहार्यः मनसा प्रीतःसागरोयथानन्दतितथाआनन्दघन: आनन्दपूर्णस्सनुस्खतोनन्द नन्दय । प्रजाइतिशेषः । तथानन्दघनइत्यत्र नन्दआनन्दघनइतितन्त्रेणपदच्छेदः । ति० भास्करोदये तत्काले प्रत्यूर्मिप्रतिफलितरवितेजसा तेजस्वीसागरोयथास्नातुकामानूनन्द- तिनन्दयति तथानोस्मान्त्रीतेनतुष्टेनमनसाप्रीतः अस्मद्विषयकप्रीत्याश्रयस्सन् नन्दय । यत्तु भास्करचन्द्रइति तत्प्रसिद्धिविरुद्धम् | शि० अभास्करइतिच्छेदः | भास्करसदृशइत्यर्थः । सचन्द्र एवेतिकेचित् ॥ ४७ ॥ ति० यथाचन्द्रसहितोरविःउदयास्तमयाभ्यां पृथिवीं तत्स्थंजनंबोधयतितद्वच ॥ ५० ॥ ति० नैगमोवणिग्वर्गः ॥ ५४ ॥ ८ ख. ग. घ च ज ञ ट. [ पा० ] १ ख. योऽजयत् २ क ख घ – ट. सहाङ्गाः . ग. साङ्गाव. ३ च. चात्मभुवं. ङ. स्वात्मभुवं. ख. ह्यात्मभवं. क. ख. ग. ङ. च. छ. झ ञ ट . भुवंप्रभुम्. ४ क. च. आदित्याः ५ च. बोधयन्त्यत्र. क. बोधयन्त्यद्य. ६ च. उत्तिष्ठत्वं. ङ. छ. झ ञ उत्तिष्ठ सुमहा. ७ ख. ग. घ. च. ज. ञ रात्रिरहरिशवमुपस्थितम् प्रतिबुध्यस्वराजर्षे. ९ च ञ. कृत्यंमहदुपस्थितम्. ज. कृत्यंकृतमिदंतव. ख. ग. घ. ट. कृतंकृत्यमिदंतव. १० क. ख. घ. च. ज. उपतिष्ठति. ११ ङ. छ. झ. जानपदाञ्चापिनैगमाश्च ट जानपदश्चापिनैगमश्च. घ. जानपदैश्चैव १२ क. च. ज. कृतात्मभिः. १३ क. ख. ङ. च. छ. झ ञ. ट. अयं. १४ ख. ह्यगोपाः १५ क. ग. च. छ. ट. ह्यनायकाः. घ. ह्यपालका. १८ ङ. छ. झ. ट. एवं. १९ च. मिहार्थवत् २० ग. अभ्युदीर्यंत. २१ ङ. छ. १६ घ. भवता. १७ ख. विद्यते. झ. ज. ट. ततस्तु. २२ घ. ममभूयोनिकृन्तसे. क. ख. भूय एवनिकृन्तसि.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७२
दिखावट