सर्गः १४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् ॥ वसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ ३१ ॥ सत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् ॥ द्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ ३२ ॥ तमुवाच महातेजाः सूतपुत्रं विशारदम् || वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥ इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः || औदुंबरं भद्रपीठमभिषेकार्थमाहृतम् ॥ ३४ ॥ सर्वबीजानि गन्धा रत्नानि विविधानि च ॥ क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ||३५|| अष्टौ च कॅन्या रुचिरा मत्तश्च वरवारणः ॥ चतुरश्वो रथः श्रीमान्नित्रिंशो धनुरुत्तमम् ॥ ३६ ॥ वाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् || श्वेते च वालव्यजने भृङ्गारच हिरण्मयः ॥ ३७ ॥ हेमदामपिनद्धश्च ककुद्मान्पाण्डुरो वृषः | केसरी च चतुर्दष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥ सिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः ॥ सर्ववादित्रसङ्घाच वेश्याञ्चालङ्कृताः स्त्रियः ॥ ३९ ॥ आचार्या ब्राह्मणा गाव: पुण्याच मृगपक्षिणः ॥ पौरजानपद श्रेष्ठा नैगमाथ गणैः सह ॥ ४० ॥ एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः ॥ अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥ त्वरयव महाराजं यथा समुदितेऽहनि || पुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥ इति तस्य वचः श्रुत्वा स्रुतपुत्रो महात्मनः ॥ स्तुवन्नृपतिशार्दूलं प्रवेश निवेशनम् ॥ ४३ ॥ तं तु पूर्वोदितं वृद्धं द्वारस्था राजसंमतम् || न शेकुरभिसंरोढुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥ स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् || वाग्भिः परमतुष्टीभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥ ततः सृतो यँथाकालं पार्थिवस्य निवेशने || सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ।। ४६ ।। यथा नन्दति तेजस्वी सागरो भास्करोदये ॥ प्रीतः प्रीतेन मनसा तथाऽऽन्दघनः स्वतः ॥४७॥ । णापणां समृद्धाःविपणाःविक्रय्याः येषांतेसमृद्धविपणाः | ॥ ३४ ॥ क्षौद्रं मधु ॥ ३५ ॥ चतुरश्वोरथःश्रीमान्नि- आपणाःनिषद्याःयस्यांतां । समुत्सुकां समुत्सुकजनां स्त्रिंशोधनुरुत्तममित्यत्र तु इतिगायत्र्याश्चतुर्थाक्षरं । ।। २८–३० ।। तंजनं पौरादिजनं । व्यतिचक्रामे- निस्त्रिंशः खड्गः || ३६|| भृङ्गारः कनकालुका |॥३७॥ त्यनेनान्तःपुरद्वारवेदिकांप्राप्त इतिगम्यते । विवेश वेदि- केसरी प्रशस्तकेसरः । हरिश्रेष्ठः अश्वोत्तमः।।३८-३९।। कायामितिशेषः ।। ३१ || विनिष्क्रान्तं स्वगृहादिति व्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । नैगमाः वणिजः । “नै- शेष: । द्वारे अन्तःपुरद्वारे । प्रियदर्शनमित्यनेनाभि- षेकार्थमात्मानमलङ्कृत्यागतइत्युक्तं ॥ ३२ ॥ क्षिप्रमा- गमोवाणिजोवणिक्” इत्यमरः ॥४०–४१।। समुदि- ते सम्यग्व्यक्ते ।। ४२–४३ ।। पूर्वोदितं अयंसर्वदा चक्ष्वेति वसिष्ठः प्रोवाचेतिसंबन्धः || ३३ || काञ्चनाः काञ्चनमयाः। गङ्गोदकघटाः गङ्गोदकपूर्णघटाः । अत्र अनिवार्यइति राज्ञापूर्वमुक्तं ॥ ४४ ॥ अजज्ञिवान् आहृतमित्येतद्वचनव्यत्ययेनसंबध्यते । इमेइतिच्छेदम- | अज्ञातवान् ॥ ४५ ॥ यथाकालं प्रातःकालाई |॥ ४६॥ पि। सागरेभ्यआहृताइमेउदकघटा इत्यध्याहारेणयोज्यं भास्करोदयेपिसमुद्रवृद्धिरस्त्येव । यद्वा भासःकरोती- ति० भृङ्गारः कनकालुका | दत्तूरकुसुमसदृशहिरण्मयपात्रं ॥ ३७ || ती० नैगमाः श्रेणीमुख्याः अध्यापकावा ॥ ४० ॥ ती० भास्करोदये भासःकरोतीतिव्युत्पत्त्याभास्करः पूर्णचन्द्रः तस्योदये । प्रीतेन प्रतिफलितचन्द्रतेजसाप्रीतेन । [ पा० ] १ ङ. च. झ ञ परमर्षिभिरावृतः क. ङ. ज. परमर्षिर्विवेशह. २ क – छ. झ. न. ट. मनुजसिंहस्य. ३ घ. समुद्रेभ्यश्च. ४ ख. छ. मागतम्. ५ ख रुचिराः कन्या: ६ छ. श्वेतंचवालव्यजनं. ७ ङ. च. छ. झ. ज. भृङ्गारंचहिरण्मयम्. ट. शृङ्गारंचहिरण्मयम्. ८ ङ. च. छ. झ ञ ट . समिधच. ९ ङ. च. छ. झ. न. ट. सर्वे. १० क. ख. वैश्याचा ११ ङ. च. छ. झ. ञ. ट. पुष्ये १२ झ ट महाबलः १३ ख. ङ-ट. राजसंमताः १४ ख. ग. घ. ज. सान्त्वाभिः घ. हृयाभिः, १५ ङ. छ. झ. ट. यथापूर्वे. १६ कट. नन्दयनस्स्वतः ग. घ. ज. नन्दयनस्सदा. ख. ङ. छ. झ ञ ट नन्दयनस्ततः क. च. नन्दयनस्तथा.
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/७१
दिखावट