सर्गः १२ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । चिरं खलु मैया पापे त्वं पापेनाभिरक्षिता ॥ अज्ञानादुपसंपन्ना रज्जुरुद्वन्धिनी यथा ॥ ८१ ॥ रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये ॥ बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ ८२ ॥ मैया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ तं तु मां जीवलोकोयं नूनमाक्रोष्टुमर्हति ॥ ८३ ॥ बालिशो बत कामात्मा राजा दशरथो भृशम् ॥ स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ ८४॥ चैतैश्च ब्रह्मचर्येश्च गुरुभित्रोपकर्शितः ॥ भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ ८५ ॥ नालं द्वितीयं वचनं पुत्रो मां प्रति भाषितुम् ॥ स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८६ ॥ यदि मे राघवः कुर्याद्वनं गच्छेति चोदितः ॥ प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥८७ ॥ शुद्धभावो हि भावं मे न तु ज्ञास्यति राघवः ॥ स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ ८८ ॥ राघवे हि वनं प्राप्ते सर्वलोकस्य धिकृतम् ॥ मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ ८९ ॥ मृते मयि गते रामे वनं मनुजपुङ्गवे || ईंष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे |॥ ९० ॥ कौसल्यां मां च रामं च पुत्रौ च यदि हास्यति ॥ दुःखान्यसहती देवी मामेवानु मरिष्यति ॥९१॥ कौसल्यां च सुमित्रां च मां च पुत्रैखिभिः सह ॥ प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥९२ ॥ ५९ दृशदुःखस्याननुभूतत्वाद्विषादातिशयेनविस्मयते - सः पुत्रः वनंप्रव्रजेत्युक्तःसन् द्वितीयंवचनं परिहार- अहोइति । कृच्छ्रं कष्टं । “स्यात्कष्टंकृच्छ्रं” इत्यमरः । वचनं । मांप्रतिभाषितुंनालं । किंतुबाढमित्येवव- एतादृशदुःखकृच्छ्रेकदाचिदपिमयानप्राप्तेइत्यर्थः । किं- क्ष्यति । बाढमित्यङ्गीकारोक्तिः ॥ ८६ ॥ मे मया । चयस्मिन्वरप्रदानविषयेतववाचः क्षमे एवंविधंदुःखं वनंगच्छेतिचोदितोराम: प्रतिकूलं वनंप्रत्यगमनं । पुराकृतंअशुभमिवाशुभफलमिवप्राप्तं ॥ ८० ॥ सौ- यदिकुर्यात्तदामेप्रियंस्यात् । वत्सस्तुतन्नकरिष्यति ख्यार्थकृतंत्वद्रक्षणंस्वनाशायपरिणतमितिखिद्यति- ॥ ८७ ॥ शुद्धभावः शुद्धहृदयः । मेभावं हृदयं । चिरमित्यादिना ॥ ८१ ॥ नाभिलक्षये किंत्वस्पृशमि - नज्ञास्यति । मांशुद्धतया जानन्ममवचनहृदयं नज्ञा- तियोजना ॥ ८२ ॥ अ पितृकृतरक्षणादिरहित स्यतीतिभावः । अतो बाढमित्येववक्ष्यतीतिसंबन्धः ॥ ८८ ॥ सर्वलोकस्य सर्वजनस्य । लोकस्तुभुव- नेजने " इत्यमरः । धिकृतं धिकरणं । अक्षमणीयं क्षन्तुमशक्यं । किंतुमृत्युम यमक्षयं यमगृहं । नयि- ष्यति ॥ ८९ ॥ शेषे कौसल्यादौ । किंपापं कमन्या- यं । प्रतिपत्स्यसे चिन्तयिष्यसि ॥ ९० ॥ पुत्रौ लक्ष्मणशत्रुघ्नौ | देवी सुमित्रा ॥९१॥ अत्रनरकशब्दे- (² इत्यर्थः । आसीदितिशेषः । तं तथाविधं मां आक्रोष्टुं आक्रोशंकर्तु ॥ ८३ || आक्रोशप्रकारमाह - बालिश इति । बालिशः मूर्खः । “ मूर्खवैधेयबालिशा : " इ- त्यमरः ॥ ८४ ॥ व्रतैः काण्डव्रतैः । ब्रह्मचर्यैः मधु मांसवर्जनादिब्रह्मचारिधर्मैः । गुरुभिः गुरुकृतशिक्षा- दिभिः । भोगकाले गार्हस्थ्यावस्थायां || ८५ || शि० गुरुभिः बहुभिः । ब्रह्मचर्यैः ब्रह्मणोवेदस्यचर्याबोधनंयेषुतैः वेदबोधितैरेवेत्यर्थः । व्रतैः नियमितभोजनादिभिःचकार- द्वयमेवार्थकं ॥ ८५ ॥ शि० मां मृत्युः मृतेःउःकालः परमात्मा यमक्षयं यमस्यकालस्यक्षयःअभावोयस्मिंस्तंसाकेतलोकं नयि- घ्यति नेष्यति प्रापयिष्यति । “उगौंरीपतिरुः कालस्सेतुरब्धिः परायणम्” इतिमात्रिकाः । अतएवनचकालवशानुगइत्यनेननवि- रोधः । स्मृतौकालशब्दः प्राकृतकालपरः । ति० अक्षमणीयं दुस्सहवृत्तं अतएवसर्वलोकस्यधिकृतं ॥ ८९ ॥ कौसल्यामांरामं- चहास्यति ताभ्यांहीनाभविष्यति । चात्सुमित्रा । यदिपुत्रौच । चाद्रामंमांच । एतैर्यदिहीनाभविष्यति तदादुःखान्यसहती देवी कौसल्या सुमित्राच मामेवानुमरिष्यति । लक्ष्मणस्यरामेणसहनियतंगमनात् शत्रुघ्नस्यभरतानुयायित्वेपि अतीवत्वदनुरञ्जनं कुर्वतोरामस्येवतस्यापित्वयाक्रूरतयानिराकरणात्पुत्रौहास्यतीत्युक्तं । तेनतस्याः क्रौर्यातिशयोव्यङ्ग्यः । राज्ञःशोकातिशयवत्त्वाद्विसं- वाक्यप्रयोगोनदोषाय ॥ ९१ ॥ [पा०] १ क. च. महापापे. २ अस्मिन्श्लोके पूर्वोत्तरार्धयोः ख. ङ. च. छ. झ ञ ट पाठेषु व्युत्क्रमोदृश्यते. ३ ङ. छ. झ. वेदैवब्रह्म. ४ क. तथैवराघवः ५ अयं श्लोकः ग. ङ. छ. झ. ट. पुस्तकेषुनदृश्यते. घ. शुद्धस्वभावोभावं. ६ क. इष्टोममजनः शेषः किंपापंप्रतिपत्स्यते ७ ङ. -ट. कौसल्यामांच. ख. सुमित्रामांच, ८ ङ, छ. झ ट वानुगमिष्यति, घ, वानुकरिष्यति,
पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६३
दिखावट