पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ मया रामेण च व्यक्तं शाश्वत सत्कृतं गुणैः ॥ इक्ष्वाकुक्कुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ ९३ ॥ प्रिय चेद्भरतस्यैतद्रामप्रव्राजनं भवेत् ॥ मा स्म मे भरतः कार्षीत्प्रेतकृत्यं गतायुषः ॥ ९४ ॥ हंन्तानार्ये ममामित्रे सकामा भव कैकयि ॥ मृते मयि गते रामे वनं पुरुषपुङ्गवे ॥ १५ ॥ सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ।। ९६ ॥ त्वं राजपुँत्रीवादेन न्यवसो मम वेश्मनि ॥ अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥ सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ ९७ ॥ कथं रथैर्विभुर्यात्वा गजाश्चैश्च मुहुर्मुहुः ॥ पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ ९८ ॥ यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥ अहंपूर्वाः पचन्ति स अँशस्तं पानभोजनम् ॥ ९९ ॥ सं कथं नु कषायाणि तिक्तानि कटुकानि च || भक्षयन्वन्यमाहारं सुतो वर्तयिष्यति ॥१०० ॥ महार्हवेस्त्रसंवीतो भूत्वा चिरंसुखोषितः ॥ कोषायपरिधानस्तु कथं भूमौ निवत्स्यति ॥ १०१ ॥ कँस्यैतद्दारुणं वक्यमेवंविधमचिन्तितम् || रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ १०२ ॥ धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा || न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ||१३|| अनर्थभावेऽर्थपरे नृशंसे मँमानुतापाय निविष्टभावे || किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे ॥ १०४ ॥ · परित्यजेयुः पितरो हि पुत्रान्भार्याः पतींश्चापि कृतानुरागाः ॥ कृत्स्नं हि सर्व कुपितं जगत्स्याइदैव रामं व्यसने निमनम् ॥ १०५ ।। अहं पुनर्देव कुमाररूपमलंकृतं तं सुतमात्रजन्तम् ॥ नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव । १०६ । नदुःखंलक्ष्यते ॥ ९२ ॥ आकुलं क्षुमितं | पालयि- | संवृतः । चिरसुखोषित: चिरकालंसुखास्तरणोषितः ष्यसि ।। ९३–९६ ।। त्वमित्याद्यर्धत्रयमेकान्वयं । अकीर्त्यादित्रयरूपा त्वं राजपुत्रीवादेन राजपुत्रीव्य- पदेशेन । ममवेश्मनिन्यवसः । परिभवः महाजनस- मक्षंधिक्कारः । अवज्ञा क्षुद्रत्वेनप्रतिपत्तिः ॥ ९७ - ९८ ॥ सूदाः पाचकाः । अहंपूर्वा: अहमहमिकाव- न्तः । प्रशस्तं “आयुःसत्वबलारोग्यसुखप्रीतिविव- र्धनाः । रस्याः स्निग्धाःस्थिराहृद्याआहाराःसात्विकप्रि- याः” इत्युक्तप्रकारेणश्रेष्ठं ॥ ९९ ॥ कषायादित्रयरूपं वन्यमाहारंभक्षयन् कथंनुवर्तयिष्यति केनप्रकारेणजी- विष्यति ।।१००।। महार्हेण अतिश्लाघ्येन वस्त्रेण संवीत: काषायपरिधानः कषायेण रक्तं काषायं । काषायं परि- धानं वस्त्रं यस्य सतथोक्तः ॥१०१॥ रामस्यारण्यगमनं भरतस्याभिषेचनमित्येवंविधमेतद्वाक्यं कस्य । केनोप- दिष्टमित्यर्थः । यद्वाकस्य सह्यमितिशेषः ||१०२ || श ठाः गूढविप्रियकारिण्यः । कौसल्यादिषुतदसंभवादा- ह - नब्रवीमीति ॥ १०३ ॥ मन्निमित्तं मत्कारणकं । रामे रामनिमित्तकंवा ॥ १०४ ॥ कृत्स्नंजगत् । गच्छ- तीतिव्युत्पत्त्यांजगच्छब्देनजीववर्गउच्यते । सर्वशब्दे- नस्थावरजातमुच्यते । कुपितं त्वांप्रतीतिशेषः ॥१०५॥ अहंपुनः अहंतु | मत्स्वभावोलौकिकेभ्योभिन्नः देव- ति० राजपुत्रि दैवेन दुरदृष्टेन ॥ १७ ॥ शि० चिरसुखोचितः सार्वकालिकानन्दयोग्यः ॥ १०१ ॥ ति० स्वस्यरामं विनाजी- [ पा०] १ इदमर्धे छ. झ. ट. पाठेघुनदृश्यते. हन्तानार्ये मृतेमयिगते. इत्यर्धयोः ङ. पुस्तकेपौर्वापर्येदृश्यते. २ ख. मनुजपुङ्गवे. ३ ङ. झ. ट. पुत्रीदैवेन. घ. पुत्रीव्याजेन. ४ घ. न्यवसीम. ज. न्यवसेर्मम. ५ क. ङ. च. छ. झ. ञ. ट. चाहारसमये. ६ ग. घ. अहंपूर्वे. ७ ङ. छ. ज झ ट . प्रसन्नाः पानभोजनम् ८ क. च. सकथंतु. ९ ङ. छ. झ. वस्त्रसंबद्धो. ट. वस्त्रैस्संवीतो. १० क. ख. घ – छ. झ ञ. सुखोचितः ११ ग. ङ. छ. कषाय १२ ङ. छ. झ. ट. रामोभविष्यति. १३ क. छ. झ. ट. कस्येदंदारुणं. १४ ङ. छ. झ. ट. मेवंविधमपीरितम् १५ ङ. च. छ. झ ञ ट . स्वार्थपरायणाः १६ ङ. छ. झ ट तापायनिवेशिता सि. १७ ङ. छ. झ. न. ट. पितरोपि. १८ क. कृतानुरागानू. १९ ख. मत्सुतमात्रजन्तम्, २० ङ. च, छ, झ॰ च, ट, पश्यन्निवदर्शनेन, २१ ख: ङ. च. छ. ञ ट दृष्वपुनः क. दृष्ट्वापि