महार्थमञ्जरी खलु स्वयमखिलमपि लोकं व्यामोहयन् न केनचिद् व्यामोद्यते । एत- दर्थमेव हि परमेश्वरं प्रति शैलूषव्यपदेश इति ॥ १९ ॥ अथ प्रकृतिं प्रकटयति णाणकि आमाआणं गुणाण सन्तरअतमसहावाणं | अविहोआवस्थाएं ततं पअडित्ति संभवी सती ॥ २० ॥ ज्ञानक्रियामायानां गुणानां सत्वरजस्तमस्स्वभावानाम् । अविभागावस्थायां तवं प्रकृतिरिति शाम्भवी शक्तिः ॥ इति । ज्ञानं नाम प्रकाशः । क्रिया विमर्शः । माया तु अहमिदमिति इदमहमिति किश्चिदप्रथाप्ररोहेऽपि सदाशिवेश्वरावस्थावदहन्तापर्यवसा- यिनी शक्तिः । तासां परमेश्वरशक्तिभूतानामपि व्यामोश्चमानपशुजनापेक्षया गुणत्वम् । यदुक्तं श्रीप्रत्यभिज्ञायां - "स्वाङ्गरूपेषु भावेषु प्रत्युर्ज्ञानं क्रिया च या । भायातृतीये ते एव पशोः सत्त्वं रजस्तमः ॥" ६ इति । ताश्च पशौ सत्त्वं रजस्तम इति भवन्ति । याभिः सुखदुःखमोहात्म- कोऽयं लोकव्यवहारः । तन्मयीनां च तासां या विभागशून्या तुलाधार- णवदत्यन्तावैषम्यशालिन्यवस्था, तस्यां पर्यालोच्यमानायां प्रकृतिरिति तत्त्वं भवति । यस्यां शुभाशुभस्वभावानेकसहस्रगुणदोषोन्मेषभूमिकायां शून्यबु- द्धिप्राणशरीरविषयावच्छिन्नाः पञ्चाहन्ता निवृत्तिप्रतिष्ठाविद्याशान्त्यतीताः कलाश्च विपश्चिद्भिर्विभूतितया विकल्प्यन्ते । सा च शाम्भव्येव शक्तिरि- त्यनेन साङ्ख्यादिसिद्धान्तोऽपहास्यते । ते खलु - “मूलप्रकृतिरविकृतिमैहदायाः प्रकृतिविकृतयः सप्त | षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।” इत्यादिना पुरुपादुपरि न किञ्चित् तत्त्वान्तरं, पुरुषश्चोदासीनः, प्रकृतिश्च तदधीना, सा च नित्या, न विकृतिः, षोडशकस्तु नित्यं विकारात्मक एवेत्याचक्षते । नैवमस्मत्समयः । यतः पुरुषादुपरि बहूनि तत्त्वानि पर- ३. 'न्तो १. 'आ' ग. पाठः २. 'ति अहमिति' क., 'ति कि' ग, पाठः, हृ यते' ख. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७६
दिखावट