परिमलोपेता | सर्व व्यवहरत्येव शून्यतां साधयज्ञपि । विश्वं सत्यं वदत्यन्यः शून्यं वदति कन्चन || यानासनादिवेलायामुभयोः सदृशी स्थितिः । व्यवहारैकरूप्यं चेद् वाग्वैषम्येण किं फलम् || न च सर्वं जगच्छ्रन्यमित्यर्थं साधयन् सुधीः । लभते वादिनं कापि स्वमात्मानं कथानपि इत्यलमतिप्रपञ्चोपन्यासप्राचुर्येण | प्रकृतमेवानुवाव्यते । इत्थं च सर्वस्थापि प्रपञ्चवैचित्र्यस्य "तस्माच्छन्दार्थचिन्तासुन सावस्थांनया शिवः" इति श्रीस्पन्दशक्रिया परमेश्वरकाशमयत्वाभ्युपगमे कुतोऽस्य पुरुषमेनं प्रति पक्षपाततिक्षेप इति तात्पर्यार्थः । यदुक्तं नरेश्वरविवेके - "सर्वे चैते प्रमातारः प्रकाशत्वाच्छिवात्मकाः । सर्वज्ञाः सर्वकर्तारः सर्वतश्रीविभेदिनः ॥” इति । एतदर्थयोतनाय हि पुरुषोऽपि पुरुष इत्युच्यते । यदनयोः पुरे वसतीति पुरुषः पुरमोपति दहतीति पुरुष इति स्वभावभेदः । "बुद्धिप्राणशरीराख्ये यदेतस्मिन् पुरनये । अहङ्काराद् वसत्यात्मा तेनायं पुरुषः स्मृतः ॥ एतत् पुरत्रयं दग्धं येन स त्रिपुरान्तकः । स एव पुरुषः प्रोक्तः स्मरारिरपि स स्मृतः ॥" इति श्रीहंसमेदस्थित्या यद्यप्यौचित्येनोन्मील्यते, तथापि पर्यन्ततस्तात्त्वि- कार्थचिन्तायां तयोरुक्तरूपमैकान्त्यमेव । तादृगवच्छेदे च तस्यै स्वस्वा तन्त्र्य रूपस्य मलत्रयस्योपलालनं हेतुरिति । ननु भेदप्रथाप्रकर्षेऽपि यद्यन- योस्तादात्म्यं तन्त्रिबन्धनः पतिवत् पशोरैथर्योच्योपपाद्यते, तर्हि तेनैव तादात्म्येन पशुवत् पतिरपि मायाव्यामोहकदर्शनप्रथितहृदयवृत्ति- रस्त्विति चेत् । नैवम् । ऐन्द्रजालिकदृष्टान्तस्यात्र प्राप्तावसरत्वात् । स १. 'पं', २. 'स' ग. पाठ:. ३. 'ये' क. ग. पाठः, ४, 'प्रक्षे', ५. 'श्चापि देहिनः' क. पाठः. ६. 'स्य स्वा' क. ख. पाठः.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७५
दिखावट