पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । मशिवपर्यन्तम् । पुरुषश्च सर्वदा सर्वज्ञः सर्वकर्ता च स्वात्माख्यातिवशात् सङ्कुचित इव भासते । प्रकृतिश्च न केवलं पुरुषेणैव प्रेर्यते । तस्य परमेश्वरस्वातन्त्र्यव्यतिरेके तादृक्प्रेरकत्वसामर्थ्याभावात् । यदुक्तं श्री- स्पन्दे – "नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपित्वात्मबलस्पर्शात् पुरुषस्तत्समो भवेत् ॥" इति । सा च नित्यं विकृता कदाचित्त्वविकृता । षोडशकोऽपि कदाचिद- विकृतः, कदाचिच विकृतोऽपीति । , ६ अथ ये तमुदासीनमा हुर्नित्योदितोद्यमम् | त एवं प्रतिवक्तव्याः सर्वदा चेदनुद्यमः || तेन मृत्पिण्डकल्पेन जगतः किं प्रयोजनम् । किमित्यङ्गीकृतिस्तस्य किंत्रमाणोऽपि वा भवेत् || यथुच्येत तदेवैतदादासीन्यं चिदात्मनः । प्रवर्तयति विश्वस्मिन् प्रकृति विकृतिस्पृशम् || अन्यथा प्रकृतेः किञ्चिन्न प्रागल्भ्यं प्रवर्तते । तदर्थं स्वीकृतिस्तस्य विश्वातिक्रान्ततेजसः || तेनैव च प्रमाणेन तस्य सिद्धिर्भवेदिति । अत्रोच्यते तथा सा चेदस्यौदासीन्य कल्पना || अनुदासीन एवेति तात्पर्य पर्यवस्यति । वैलक्षण्यात् प्रकृत्यादेः सूक्ष्ममुद्यममास्थितः ॥ इत्यसौ निष्क्रियो न स्याद् यतः सूक्ष्मापि सा किया। स्थवीयसीः क्रियाः सूते प्रकृतौ विकृतिष्वपि ॥ जडा अपि स्वभावेन देहाक्षभुवनादयः । यत्प्रभावात् प्रवर्तन्ते स कथं निष्क्रियो भवेत् || अत्र च मदीयमेव सूक्तं यथा १. 'वावभा' ग. पाठः २. 'ते । नहीच्छा' क पाठः• ३. 'दु' ग. पाठः. ४. 'शि ॥' क. पाठः●