महार्थमञ्जरी ननु विश्वव्यवहारो हि बहियार्थतया वर्तमानः कथमात्मस्व भावो विमर्शः स्यादित्याशङ्कचाह - पुहुवीपरमसिवाणं पच्चाहारे पआसपरमस्थे । जो अण्णोण्णविसेसो सो चिअ हिअअस्स विमरिसुम्मेसो ॥ पृथ्वी परमशिवयोः प्रत्याहारे प्रकाशपरमार्थे । योऽन्योन्यविशेषः स एव हृदयस्य विमर्शोन्मेषः ॥ इति । इह हि विश्वव्यवहारानुबन्धी सर्वोऽपि संबन्धः कार्यका- रणमात्र पर्यवसायी । कारणं च पर्यन्ततः परमशिवात्मा कर्तेति स्वीकार्य, यतः संयोगसमवायौ तदनुवन्धिनोऽन्येऽपि सम्बन्धाः संयोजकाद्यवा- न्तरकर्तृसद्भावेऽपि पर्यन्ततः परमेश्वरेच्छानुविधायितया तस्यैव कर्तुः का· यतयानुभूयन्ते । अन्यथा द्वयोः पदार्थयोरन्योन्यप्राप्तिरूप एकः सम्बन्ध इत्युक्तौ कथमेकत्रोपक्षीणाशेषशरीरभारोऽयमन्यद् वस्तु स्प्रष्टुमपि प्रग- लभेत । अवैषम्येण च द्वयोवृत्तौ कथं सम्बन्ध एव द्विधाभावादसम्बन्ध- कल्पो न स्यात् । यत्र पुनः समवायादौ लौकिकस्य कर्तुरनुपलम्भः, तत्र परमेश्वर एव कर्तेत्यभ्युपेयम् । नित्योऽपि समावायः परमेश्वरकर्तृकतां नातिक्रामति । क्षणमात्रमगुणं तिष्ठतीतिस्थित्या द्रव्याणां क्षणनिर्गु- णत्वस्य तैरेवोक्तत्वात् तत्संयोजनवियोजनवैदग्ध्यं तस्यैवेति सिद्धम् । अपिच अमी संयोगसमवायादयः स्वस्वोचितविषयव्यतिरेकेणान्यत्र न क्वचिदपि प्रवर्तन्त इत्यभ्युपेयम् । अन्यथातिप्रसङ्गात् । तच्चौचित्यं किंवपुरिति पर्यालोचने द्रव्यगुणादिसंबन्धिस्वभावाद्यतिक्रान्तमन्यदेव तत्त्वमित्यास्थेयं यदस्माभिः पारमेश्वरं स्वातन्त्र्यमित्याक्रन्द्येत इति सर्वस्यापि प्रपञ्चस्य तत्कार्यतायां न विप्रतिपत्तिः । सामान्यादीनां च लोकमर्यादया नित्यानामपि परमेश्वरापेक्षया कार्यत्वमेव, येनाकाश- स्य नित्याभिमतस्यापि 'तस्माद् वा एतस्मादात्मन आकाशः संभूतः ' इति श्रुत्या कार्यत्वमासूच्यते । उपलक्षणं चैतत् । अतश्च विश्वलक्षणस्यास्य , १. रोऽपि व' ग. पाउ:- 'त्यवस्थे' ग. पाठः, २. 'पः स', ३. 'गल्भते । अ' क. फा
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५४
दिखावट