परिमलोपेता । कार्यस्य परमेश्वरः कर्तेति भङ्गया कार्यकारणभावोऽयं कर्मकर्तृभावः परमार्थ इत्युक्तं भवति । कारणत्वं च पर्यालोच्यमानं जडस्य नोपपद्यते । मृद्दण्ड चक्रादिसामग्रीसद्भावेऽषि कुलालाचौदासीन्ये कुम्भाधनुत्पत्तेः । बी- जादकर उत्पद्यत इत्यादौ तु कर्तृविशेषानवलोकनेऽप्यङ्करस्य तावत् तादृक् सामर्थ्य न सम्भवति, तस्य तदा सत्त्वाभावात् । बीजस्य तत्सा- मर्थ्यमिति चेद्, न । कथमङ्कर उत्पद्यत इति सामर्थ्य वैयधिकरण्येन बीज- स्येत्युच्यते । किश्च तद् बीजं सन्तं वा अङ्करमुत्पादयति असन्तं वा । सन्तं चेत् कोऽयमत्रोत्पादन रूपोऽर्थः, प्रागेव तत्सत्त्वस्योक्तत्वात् । यद्य- सन्तं, कथं सत्त्वासत्त्वे तंत्र नै विरुध्येयाताम् । तदभ्युपगमे वा कथं नाति- प्रसङ्गः । अतः कश्चिदजड एव कारणं कार्यवर्गस्य । तच्चाजाड्यमस्य क तृत्वमेव | यच कचित् कुलालादीनां कर्तृत्वं तत्रापि “तथाहि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया । तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् ||" १ इति श्रीप्रत्यभिज्ञाप्रक्रियया यत्खातन्त्र्यादमी मृदैव घटस्तन्तुभिरेव पट- इति व्यवस्थामनुवर्तन्ते, न पुनर्व्यत्यासेन कर्तुं शक्नुवन्ति तत्र स एव कर्तेति कुलालादीनां कुम्भाद्यपेक्षया किञ्चिदजाड्येऽपि परमेश्वरापे- क्षया जाड्यमेवेति सुष्टुक्तं कार्यकारणभाव एव सर्वे सम्बन्धाः, कारणं च कर्तेवेति । एवं च सति तत्र परमशिवादुपरि न कर्त्रन्तरस्फुरणम् | पृथि व्या उपरि न कार्यान्तरोत्पत्तिश्च । तयोर्यः प्रतिपदार्थमानुपूर्व्येण व्यवहिय- माणो बुद्धधाकृष्यमाणो मध्यवर्ती तत्त्वसंघातरूपोऽर्थः तस्य प्रत्यक्षा- दिप्रमाणोपगृह्यमाणस्य पर्यन्ततः प्रकाश एवानुप्राणनतया स्वभाव इत्य- न्वयव्यतिरेकाभ्यामवधार्यते । अन्यथा चक्षुरादिसामग्र्यामपि तेषामप्र- काशमानत्वापत्तेः । यदुक्तं नरेश्वरविवेके - , “ने प्रथेताप्रथारूपं नाश्वेतं वेतते यथा" इति । यथा च श्रीतन्त्रालोके - F “न ह्यप्रकाशरूपस्य श्रीकाश्यं वस्तुतापि चॅ॥” 'तृप' । फ. ख. पाठः, २. 'स' ख. पाठः ३. 'त्सत्यत्वस्यो' क. पाठ:. ४. 'न र' ब. पाठ: ५. 'ना' क. ख. पाठः 'वा' ख. पाठ:- १.
पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५५
दिखावट