सामग्री पर जाएँ

पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता । ३५ इति श्रीस्पन्दतन्त्रालोकस्थित्या यदा स्वस्मिन् हृदयप्रकाशरूप एवात्मनि तिष्ठति, तदा विमर्श: शुद्धो विमर्श इत्येव व्यवह्रियते । यदा तु विक- ल्पोपश्लेषलक्षणं क्षोभमनुभवति, तदा विश्वविस्तारः प्रपञ्चस्फुरणवैचित्र्या- त्मा विमर्श इति तत्राधिको विशेषणांशः कश्चिदुत्पद्यते । एवंच प्रकाशस्य विमर्श: स्वभाव इत्यङ्गीकार्यम् । एतद्व्यतिरेकश्च स्वभावभङ्ग पर्यायत्वात् तस्याप्रकाशत्वमेव प्रयोजयति । ततश्चायं स्फटिकमुकुरादिवदल्पप्रकाशः स्तम्भकुम्भादिवदप्रकाशो वा स्यादित्युक्तं भवति । किञ्च सन्नित्यत्र या स तोक्ता, सैव चित्त्वमुच्यते । सत्त्वचित्त्वयोश्च सामरस्यमानन्दः । यदुक्तं श्रीरसान्वये - " या चित् सत्तैव सा प्रोक्ता सा सत्तैव चिदुच्यते । यत्र चित्सत्तयोर्व्याप्तिस्तत्रानन्दो विराजते ॥ यत्रानन्दो भवेद् भावे तत्र चित्सत्तयोः स्थितिः ।” इति । आहत्य च सच्चिदानन्दस्वरूपः स्वहृदयात्मा परमेश्वर इत्यवगन्त- व्यम् । यदाहुः - "सच्चित्सुखमयः शम्भुत्रिरूपः सर्ववस्तुषु इति । इत्थमन्तर्बहिर्भाववैचित्र्येऽपि प्रसर्पति । यौगपद्यमयीं स्वस्य विम्रष्टृत्वमय स्थितिम् || अनुशील्य जनः स्वच्छामैश्वरीं श्रियमश्नुते । एवमेतदुपेक्षायां पाशवेन विमुह्यति ॥ यथा यथा विजृम्भेत स्वसंरम्भचमक्रिया । तथा तथा विकल्पानां विक्षोभः क्षयमश्नुते ॥ कलयापि विमर्शस्य वीर्यवत्ता विपश्चितः । तन्व्यापि विषकाकिण्या दुर्लो हि भुजङ्गमः ॥ इति ॥ ११ ॥ ,, १. 'षे' क. पाठः. २. 'वः' ग. पाठः. ३. 'हमना' क. पाठः