पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महार्थमञ्जरी ज्वलनमिति न्यायादूर्ध्वो भवन् ज्वलति । यथा च तस्य वर्तिमुखेनानीय तैलप्रसरो दह्यत इति रूपकश्लेषौ । उपमाद्यलङ्कारेण वाक्यवैचित्र्यं तद- र्थस्य हृदयङ्गमीकरणायेत्युक्तप्रायमेतत् ॥ १० ॥ अथ प्रक्रान्तं विमर्शस्वैरूपमात्मनः स्वैभावतया स्वयमेवोप- पादयति- संतो हिअअपआसो भवणस्स किआए होइ कत्तारो । सच्चिअ किआ विमरिसो सोत्था खुहिआ अ वीसवित्थारो॥ सन् हृदयप्रकाशो भवनस्य क्रियायां भवति कर्ता । सैव क्रिया विमर्श: स्वस्था क्षुभिता च विश्वविस्तारः ॥ इति । स्वहृदयस्य प्रकाशो हि सर्वस्यास्तीति वक्तव्यम् । असत्त्वे स्वव्याघातप्रसङ्गात् । यथोपनिषत् – 'असन्नेव स भवति, असद् ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद् वेद, सन्तमेनं ततो विदुरिति । तस्मात् स्वात्म- रूपो हृदयप्रकाशः । सन्नित्यत्र संप्रतिपत्तिरेव । तत्र सन्नित्येतत् प्रकृतितः प्रत्ययतश्च पर्यालोचनीयम् । अस्तेर्धातोः शतरि खल्वेवमुत्पद्यते । तत्र चास्त्वंशस्यार्थो भवनाख्या क्रिया, प्रत्ययांशस्य तु कर्तेत्यङ्गीकार्यम् । ततश्च सन्नित्यस्य भवनलक्षणायाः क्रियायाः कर्तेत्यर्थो भवति । सैव भवनक्रिया कर्तृतामयी विमर्श इत्युच्यते । पुनः क्रियाशब्दोपन्यासेन भ- वनं सत्त्वं, तच्च सामान्यरूपं । ततो न तस्य क्रियात्वमिति वदन्तो नि- राक्रियन्ते । यतो भावः क्रियेतिनीत्या धात्वर्थमात्रस्य क्रियात्वमभ्युपग- न्तव्यमित्यावेद्यते । सा च क्रिया “अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ।। स्वातन्त्र्याद् वर्तमानैव परामर्शस्वरूपिणी ॥" १. 'स्वभाबरू' क. पाठ:. २. 'स्वरूपत' ग. पाठः ४. 'मुपपद्य' ग. पाठः 'तेति स्वीका' क. पाठः. ३. 'यस्य प्र',